| YouTube Channel

लिलङ्घयिषकः-षिका (lilaGghayiSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“लघि भाषार्थः”@} 2 आस्वदीयः।
‘भाषणे लङ्घयेत्, शोषे लङ्घेत्, गत्यां तु लङ्घते’ 3 इति देवः।
अयं धातुर्भासार्थकः सकर्मक इति पारायणम् इति क्षीरस्वामी।
लङ्घकः-ङ्घिका, लिलङ्घयिषकः-षिका, लङ्घकः-ङ्घिका, लिलङ्घिषकः-षिका, लालङ्घकः-ङ्घिका
लङ्घयिता-त्री, लिलङ्घयिषिता-त्री
लङ्घिता-त्री, लिलङ्घिषिता-त्री, लालङ्घिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककुंशयतिवत् 4 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१४५४)
02
=>
(१०-चुरादिः-१७६१। अक। सेट्। उभ।)
03
=>
(श्लो। ४५)
04
=>
(२३२)