लिप्सकः-प्सिका (lipsakaH-psikA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“डु लभष् प्राप्तौ”@} 2 ‘प्रेरणे लाभयेत् लाभेः, प्राप्त्यर्थे लभते शपि।’ 3 इति देवः।
4 लम्भकः-म्भिका, लम्भकः-म्भिका, 5 लिप्सकः-प्सिका, लालभकः-भिका
लब्धा-ब्ध्री, लम्भयिता-त्री, लिप्सिता-त्री, लालभिता-त्री
इत्यादीनि रूपाणि सर्वाणि प्रातिस्विकरूपाणि विना भौवादिकरभतिवत् 6 बोध्यानि।
7 लब्ध्रिमम् 8।
9 आलम्भ्या गौः।
10 उपलम्भ्या विद्या।
उपलभ्य- 11 मस्मान्नीचात्।
12 ईषत्प्रलम्भः-दुष्प्रलम्भः-सुप्रलम्भः।
ईषल्लभः।
13 सुलभम्- दुर्लभम्।
सुलाभो दुर्लाभः।
सुप्रलम्भः।
14 लाभम्-लाभम्-लम्भम्-लम्भम्।
प्रलम्भम्-प्रलम्भम्।
15 लभा दुरालभा।
उपलब्धिः।
01 (१४७१)
02 (१-भ्वादिः-९७५। सक। अनि। आत्म।)
03 (श्लो। १४६)
04 [[३। ‘लभेश्च’ (७-१-६४) इति अजादौ प्रत्यये (शपं लिटं च वर्जयित्वा) नुमागमः सर्वत्र बोध्यः।]]
05 [[४। ‘सनि मीमाघुरभलभ--’ (७-४-५४) इत्यादिना अच इस्। ‘स्कोः--’ (८-२-२९) इति सलोपः। ‘अत्र लोपोऽभ्यासस्य’ (७-४-५८) इत्यभ्यासलोपः।]]
06 (१३७८)
07 [[५। लाभेन निर्वृत्तं लब्ध्रिमम्। ‘ड्वितः क्त्रिः’ (३-३-८८) इति क्त्रिप्रत्यये, तस्य ‘क्त्रेर्मप्--’ (४-४-२०) इति नित्यं मप्प्रत्ययः।]]
08 [[आ। ‘निघानिघतरुच्छन्ने तस्मिस्ते लब्ध्रिमैः फलैः।’ भ। का। ७-६५।]]
09 [[६। ‘आङो यि’ (७-१-६५) इति आङ्पूर्वाल्लभेः यकारादौ प्रत्यये नुम्। अत्र सूत्रे ‘यि’ इत्यस्य विषयसप्तम्याश्रयणात् प्रत्ययोत्पत्तेः प्रागेव नुमागमः
\n\n तेन अदुपधत्वा- भावात् यत्प्रत्ययो न
\n\n किन्तु ण्यदेव इति बोध्यम्।]]
10 [[७। ‘उपात् प्रशंसायाम्’ (७-१-६६) इति यकारादौ प्रत्यये विवक्षिते नुम्। प्रशंसायाः अविवक्षायां तु ‘उपलभ्यमस्मान्नीचात्’ इत्यत्र यत्प्रत्यय एव।]]
11 [पृष्ठम्११५४+ ३१]
12 [[१। ‘उपसर्गात् खल्घञोः’ (७-१-६७) इति नुम्। ‘लभेश्च’ (७-१-६४) इत्येव खल्प्रत्यये घञि च नुमः सिद्धत्वात् यतः पुनरारम्भः ततो ज्ञायते--नियमार्थ- मिति। नियमस्वरूपं तु अजाद्योः खल्घञोः प्रत्यययोर्नुम् भवति चेत्--उपसर्गात् परयोरेव--इति। तेन ईषल्लभः, लाभः इत्यादिषु निरुपसृष्टेषु न नुम् भवति।]]
13 [[२। ‘उपसर्गात् खल्घञोः’ (७-१-६७) इत्यस्यापवादभूतेन ‘न सुदुर्भ्यां केवलाभ्याम्’ (७-१-६८) इत्यनेन नुम्निषेधः। अत्र वदन्ति--सूत्रे केवलशब्दः शब्दोपात्ताभ्यां सुदुर्भ्यामन्यस्य सजातीयस्योपसर्गस्याभावमाह। तेन सुदुर्भ्यामन्योपसर्गंरहितस्य लभेः खल्घञोर्नुम् न भवतीति सूत्रार्थः सम्पन्नः। उपसर्गान्तरयोगे तु अति- सुलम्भः इति नुम् भवत्येव--इति। यदा तु ‘सुः पूजायाम्’ (१-४-९४) ‘अतिरतिक्रमणे च’ (१-४-९५) इत्याभ्यां सुश्चातिश्च कर्मप्रवचनीयसंज्ञके भवतः-- तदानीं अतिसुलभम् अतिदुर्लभम् इत्यादयोऽपि प्रयोगाः साधव एवेति ज्ञेयम्। विस्तरस्तु बृहच्छब्देन्दुशेखरादिषु द्रष्टव्यः।]]
14 [[३। ‘विभाषा चिण्णमुलोः’ (७-१-६९) इति चिणि णमुलि च नुम्विकल्पः। ‘विभाषा चिण्णमुलोरुपसर्गान्न’ इति भाष्ये (७-१-६९) व्याख्यातत्वात् प्राप्तविभाषेत्याश्रित्य व्याख्यातृभिर्व्यवस्थितविभाषेयमित्याश्रितम्। तेनायं फलितोऽर्थः--सोपसर्गस्य नित्यं नुम्
\n\n निरुपसृष्टात् तु विभाषेति। तेनैवं रूपाणि बोध्यानि।]]
15 [[४। धातोः षित्त्वात् ‘षिद्भिदादिभ्यः--’ (३-३-१०४) इत्यङ्। यदा तु ‘क्तिन् आबादिभ्यः’ (वा। ३-३-९४) इत्याश्रीयते, तदानीम् क्तिन् अपि साधुः-- ‘अभि- धानलक्षणाः कृत्तद्धितसमासान्ताः’ इत्यादिप्रामाण्यात्।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
