| YouTube Channel

लिङ्गवर्द्धः (liGgavarddhaH)

 
शब्दकल्पद्रुमः
Sanskrit
लिङ्गवर्द्धः,
पुं,
(लिङ्गं वर्द्धयतीति वृध् + णिच् +अच् ।) कपित्थवृक्षः इति शब्दचन्द्रिका
शिश्नवृद्धिकरणम् तस्यौषधं यथा, --“कटुतैलं भल्लातकं बृहतीफलदाडिमम् ।वल्कलैः साधितं लिप्तं लिङ्गं तेन विवर्द्धते
”अपि ।“कुष्ठमाषमरीचानि तगरं मधुपिप्पली ।अपामार्गाश्वगन्धा वृहती सितसर्षपाः
यवास्तिलं सैन्धवञ्च पाणिकोद्वर्त्तनं शुभम् ।लिङ्गबाहुस्तनानाञ्च कर्णयोरृद्धिकृद्भवेत्
”इति गारुडे १८० अध्यायः