| YouTube Channel

लिङ्गनी (liGganI)

 
शब्दकल्पद्रुमः
Sanskrit
लिङ्गनी,
स्त्री,
(लिङ्गमस्त्यस्या इति लिङ्ग +इनिः ।) लताविशेषः पञ्चगुरिया इति हिन्दीभाषा तत्पर्य्यायः बहुपत्री ईश्वरी ३शिववल्लिका स्वयम्भः लिङ्गसम्भूता ६लैङ्गी चित्रफला चाण्डाली लिङ्गजा १०देवी ११ चण्डा १२ आपस्तम्भिनी १३ शिवजा१४ शिववल्ली १५ अस्या गुणाः कटुत्वम् ।उष्णत्वम् दुर्गन्धत्वम् रसायनत्वम् सर्व्व-सिद्धिकरत्वम् दिव्यत्वम् वश्यत्वम् रस-नियामनत्वञ्च इति राजनिर्घण्टः
(सन्न्या-सादिलिङ्गधारिणी यथा, सुश्रुते २४ ।“लिङ्गिनीं गुरुपत्नीञ्च सगोत्रामथ पर्व्वसु ।वृद्धाञ्च सन्ध्ययोश्चापि गच्छतो जीवितक्षयः
”)