| YouTube Channel

लिङ्गं (liGgaM)

 
Hindi
Hindi
लिंग
शब्दकल्पद्रुमः
Sanskrit
लिङ्गं,
क्ली,
(लिङ्ग्यते अनेन इति लिङ्ग + घञ् ।अभिधानात् क्लीवलिङ्गत्वम् ।) चिह्रम् (यथा, महाभारते १२ ।“येन लिङ्गेन यो देशो युक्तः समुपलक्ष्यते ।तेनैव नाम्ना तं देशं वाच्यमाहुर्मनीषिणः
”)शेफः इत्यमरः
अनुमानम् साङ्ख्योक्त-प्रकृतिः (यथा, सांख्यकारिकायाम् ५५ ।“तत्र जरामरणकृतं दुःखं प्राप्नोति चेतनःपुरुषः ।लिङ्गस्याविनिवृत्तेस्तस्माद्दुःखं स्वभावेन
”प्रकृतिकार्य्यं विकृतिश्च यथा, तत्रैव १० ।“हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितंलिङ्गम् ।सावयबं परतन्त्रं व्यक्तं विपरीतमव्यक्तम्
”विशेषस्तु तत्र द्रष्टव्यः ।) शिवमूर्त्तिविशेषः इतिमेदिनी गे, २३
व्याप्यम् व्यक्तम् पुंस्त्वादिः ।इति त्रिकाण्डशेषः
(यथा, मनुः १३६ ।“एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश ।उभयोः सप्त दातव्या मृदः शुद्धिमभीप्सता
”)सामर्थ्यम् यथा, --“यावतामेव धातूनां लिङ्गं रूढिगतं भवेत् ।अर्थश्चैवाभिधेयस्तु तावद्भिर्गुणविग्रहः
”इति तिथ्यादितत्त्वे एतत्कारिकाव्याख्यायां रघु-नन्दनः
*
अथ शेफार्थस्य लिङ्गस्य पर्य्यायः ।शिश्नः स्वरस्तम्भः उपस्थः मदनाङ्कुशः ५कन्दर्पमुषलः शेफः मेहनम् शेफः [स्] ९मेढ्रः १० लांगुः ११ ध्वजः ११ रागलता १३व्यङ्गः १४ इति शब्दरत्नावली
लाङ्गूलम् १५साधनम् १६ सेफः १७ कामाङ्कुशः १८ इतिजटाधरः
*
लिङ्गमूले वादिलान्तवर्णयुक्त-स्वाधिष्ठाननामकषड् दलपद्ममस्ति यथा, --“मूलाधारे त्रिकोणाख्ये इच्छाज्ञानक्रियात्मके ।मध्ये स्वयम्भूलिङ्गन्तु कोटिसूर्य्यसमप्रभम्
तद्वाद्ये हेमवर्णाभं वर्णचतुर्दलम् ।तदूर्द्ध्वेऽग्निसमप्रख्यं षड्दलं हीरकप्रभम्
वादिलान्तषड्र्णेन युक्तञ्चाधिष्ठानसंज्ञकम् ।स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदुः
”इति तन्त्रम्
*
अस्याधिष्ठातृदेवतादिर्यथा ।“प्रजनः सर्व्वभूतानामुपस्थोऽध्यात्ममुच्यते ।अधिभूतं तथा शुक्रं दैवतञ्च प्रजापतिः
”इति महाभारते आश्वमेधिकपर्व्व
*
अस्य शुभाशुभलक्षणं यथा, --“स्वल्पे लिङ्गे धनवान् स्याच्च पुत्त्रादि-वर्ज्जितः ।स्थूललिङ्गो दरिद्रः स्याद्दःख्येकवृषणी भवेत्
”इति गारुडे ६३ अध्यायः
*
अपि ।“महद्भिरायुराख्यातं ह्यल्पलिङ्गो धनी नरः ।अपत्यरहितश्चैव स्थूललिङ्गो धनोज्झितः
”महद्भिर्जानुभिरिति शेषः ।“मेढ्रे वामनते चैव सुतान्नरहितो भवेत् ।वक्रेऽन्यथापुत्त्रवान् स्यात् दारिद्र्यं विनतेत्वधः
अल्पे तु तनयो लिङ्गे शिरालेऽथ सुखी नरः ।स्थूलग्रन्थियुते लिङ्गे भवेत् पुत्त्रादिसंयुतः
”इति गारुडे ६६ अध्यायः
अन्यच्च ।“दीर्घलिङ्गेन दारिद्र्यं स्थूललिङ्गेन निर्द्धनः ।कृशलिङ्गेन सौभाग्यं ह्रस्वलिङ्गेन भूपतिः
कर्कशैः कठिनैर्लिङ्गैः परदाररतः सदा ।रमते सदा दासीं निर्द्धनो भवति ध्रुवम्
कृशलिङ्गेन सूक्ष्मेण रक्तलिङ्गेन भूपतिः ।परस्त्रीं रमते नित्यं नारीणां वल्लभो भवेत्
कृशलिङ्गेन रक्तेन लभते चोत्तमाङ्गनाम् ।राज्यं सुखञ्च दिव्याङ्ग्याः कन्यकायाः पति-र्भवेत्
”इति सामुद्रकम्
शिवस्य लिङ्गरूपस्य तन्निर्माल्याग्राह्यत्वस्य चकारणं यथा, --दिलीप उवाच ।“वेद्मि स्माहं द्विजश्रेष्ठ ! रुद्रस्त्रिपुरहन्तकः ।कस्माद्विगर्हितं रूपं प्राप्तवान् सह भार्य्यया
योनिलिङ्गस्वरूपञ्च कथं स्यात् सुमहात्मनः ।पञ्चवक्त्रश्चतुर्बाहुः शूलपाणिस्त्रिलोचनः
कथं विगर्हितं रूपं प्राप्तवान् द्विजपुङ्गव ! ।एवं सर्व्वं समाचक्ष्व मित्रावरुणनन्दन
श्रीवशिष्ठ उवाच ।शृणु राजन् प्रवक्ष्यामि यन्मां पृच्छसि गौरवात् ।स्वायम्भुवो मनुः पूर्व्वं मन्दरे पर्व्वतोत्तमे
इयाज मुनिभिः सार्द्धं दीर्घसत्रमनुत्तमम् ।तस्मिन् समागताः सर्व्वे मुनयः शंसितव्रताः
अन्वेष्टुं देवतातत्त्वं मिथः प्रोचुस्तपोधनाः ।विप्राणावेदविदुषां कः पूज्यो देवतावरः
इति तस्य वचः श्रुत्वा सर्व्व एव महर्ययः ।भृगुं तपोनिधिं विप्रं प्रोचुः प्राञ्जलयस्तदा
ऋषय ऊचुः ।अस्माकं संशयं छेत्तुं समर्थोऽसि शुभव्रत ।ब्रह्मविष्णुमहेशानामन्तिकं व्रज सुव्रत
गत्वा तेषां समीपन्तु तथा दृष्ट्वा विग्रहान् ।शुद्धसत्त्वगुणस्तेषां यस्मिन् संविद्यते मुने !
एव पूज्यो विप्राणां नेतरस्तु कदाचन ।तस्मात् त्वं हि मुनिश्रेष्ठ विबुधानां निरासनम्
क्षिप्रं कुरु मुनिश्रेष्ठ सर्व्वलोकहितं प्रभो
एवमुक्तस्ततस्तूर्णं कैलासं मुनिसत्तमः ।जगाम बामदेवेन यत्रास्ते वृषभध्वजः
गृहद्वारमुपागम्य शङ्करस्य महात्मनः ।शूलहस्तं महारौद्रं नन्दिं दृष्ट्वाब्रवीद्द्विजः
संप्राप्तो हि भृगुर्विप्रो हरं द्रष्टुं सुरोत्तमम् ।निवेदयस्व मां शीघ्रं शङ्कराय महात्मने
तस्य तद्वचनं श्रुत्वा नन्दी सर्व्वगणेश्वरः ।उवाच परुषं वाक्यं महर्षिममितौजसम्
असान्निध्यः प्रभोस्तस्य देव्या क्रीडति शङ्करः ।निवर्त्तस्व निवर्त्तस्व यदि जीवितुमिच्छसि
एवं निराकृतस्तेन तत्रातिष्ठन्महातपाः ।बहूनि दिवसान्यस्मिन् गृहद्वारे मुनीश्वरः
ततः क्रोधसमाविष्टो भृगुः प्रोवाच शङ्करम् ।विनष्टस्तमसारूढो मां जानाति शङ्करः
नारीसङ्गममत्तोऽसौ यस्मान्मामवमन्यते ।योनिलिङ्गस्वरूपं वै रूपं तस्माद्भविष्यति
ब्राह्मणं मां जानाति तमसा चाप्युपागतः ।अब्रह्मण्यत्वमापन्नो पूज्योऽसौ द्बिजन्मनाम्
तस्मान्न जलमन्नन्तु तस्मै दत्तं हविस्तथा ।शिवस्यान्नं जलञ्चैव पत्रं पुष्पं फलादिकम्
निर्म्माल्यमस्य चाग्राह्यं भविष्यति संशयः
एवं शप्त्वा महातेजाः शङ्करं लोकपूजितम् ।उवाच गणमत्युग्रं नन्दिं शूलधरं नृप !
रुद्रभक्ताश्च ये लोके भस्मलिङ्गास्थिधारिणः ।ते पाषण्डत्वमापन्ना वेदवाह्या भवन्ति वै
एवं शप्त्वा मुनिस्तत्र रुद्रं त्रिपुरहन्तकम् ।जगाम ब्रह्मलोकं वै सर्व्वलोकनमस्कृतम्
”इति पाद्मोत्तरखण्डीयाष्ठसप्ततितमाध्यायात्सङ्कलितम्
*
शिवलिङ्गस्य पूजाधारत्वं यथा, “पूजास्थानानि वक्ष्यामि यस्मिन् सान्निध्यतांव्रजेत् ।लिङ्गस्थां पूजयेद्देवीं स्थण्डिलस्थां तथैव ।पुस्तकस्थां महादेवीं पादुके प्रतिमासु
तल्लिङ्गमाश्रयेन्मन्त्री शुक्राद्यैर्यत् प्रतिष्ठितम् ।कचाद्यैर्यत् कृतं लिङ्गं वर्ज्जनीयन्तु साधकैः
अल्पसौख्यप्रदं प्रोक्तं वेदमन्त्रैः प्रतिष्ठितम् ।साविकारन्तु सल्लिर्ङ्ग भुक्तभोगं तथेव ।ज्ञातव्यं साधकेन्द्रेण सिद्धिदञ्चाप्यसिद्धिदम्
देव्युवाच ।साविकारन्तु यल्लिङ्गं मन्त्रहीनं प्रतिष्ठितम् ।निर्वर्त्तितविकारञ्च अस्वयम्भु स्वयम्भवम्
कुर्व्वन्ति भक्तिवात्सल्यं लोकानां वासनात्मकम् ।दुर्विज्ञेयमिदं ज्ञानं योगिनामप्यगोचरम्
मर्त्यैर्जडधियैर्नाथ कथं विज्ञायते विभो
ईश्वर उवाच ।साधु साधु महादेवि ! रहस्यमिदमुत्तमम् ।यत्त्वया चोदितं भद्रे ! तत्तथैव चान्यथा
दुर्विज्ञेयं सुरैश्चापि किं पुनर्मनुजन्तुभिः ।आधिष्ठ्य साधकः क्षेत्रं हृदयानन्दकारकम्
इन्द्रियाणाञ्च औत्सुक्यं ददामि लिङ्गदर्शने ।सेव्यमानं ततो लिङ्गं नित्यमानन्ददायकम्
सुस्वप्नान् पश्यते नित्यं विमानस्थां वराङ्गनाम् ।भैरवं पश्यते नित्यं क्रीडन्तं मातृमण्डले
उमामहेश्वरञ्चापि स्वप्ने पश्यति साधकः ।अनिवर्त्तिताधिकारं लिङ्गं त्रिभुवनेश्वरि ! ।आक्रमन्ति महाविघ्नाः सदैत्या राक्षसादयः
शून्यागारं यथा देवि ! आक्रमन्ति नराः प्रिये ।अनर्च्चितन्तु भुञ्जन्ति तथा लिङ्गन्तु कल्पना
प्रेतं यथा सुराध्यक्षे आक्रमन्ति पिशाचकाः ।शून्यञ्च व्यङ्गलिङ्गन्तु आश्रयन्ति तथा प्रिये
”इत्याद्ये देवीपुराणे नन्दाकुण्डप्रवेशाध्यायः
*
अथ लिङ्गलक्षणम् ।तत्र बाणलिङ्गस्य लक्षणं यथा, --“बाणलिङ्गं तथा ज्ञेयं भुक्तिमुक्तिप्रदायकम् ।उत्पत्तिं बाणलिङ्गस्य लक्षणं शेषतः शृणु
नर्म्मदादेविकायाश्च गङ्गायमुनयोस्तथा ।सन्ति पुण्यनदीनाञ्च बाणलिङ्गानि यन्मुखे
इन्द्रादिपूजितान्यत्र तच्चिह्नैर्विहितानि ।सदा सन्निहितस्तत्र शिवः सर्व्वार्थदायकः
इन्द्रलिङ्गानि तान्याहुः साम्राज्यार्थप्रदानिच
”अथाग्नेयलिङ्गलक्षणम् ।“आरुणं हित्यकीलालमुष्णस्पर्शं-करोत्यलम् ।आग्नेयं तत् शक्तिनिभमथवा शक्तिलाञ्छितम्
इदं लिङ्गवरं स्थाप्य तेजसाधिपतिर्भवेत्
*
अथ याम्यलिङ्गलक्षणम् ।“दण्डाकारं भवेद्याम्यमथवा रसनाकृति ।यद्यदुक्तं सह तेर्न निर्निक्तं ज्ञायते तदा ।निषिक्तं निधनं तेन क्रियते स्थापितेन तु
*
अथ नैऋतलिङ्गलक्षणम् ।“राक्षसं खड्गसदृशं ज्ञानयोगफलप्रदम् ।कर्करादिप्रलिप्तन्तु कुण्ठकुक्षियुतं तथा ।राक्षसं निष्कृते लिङ्गं गार्हस्थे सुखप्रदम्
”अथ वारुणलिङ्गलक्षणम् ।“वारुणं वर्त्तुलाकारं पाशाङ्कं चालिवर्च्चसम् ।वृद्धिर्मुखादेः र्ह्रस्वत्वं संभोगाप्तन्तु मध्यगे
”अथ वायुलिङ्गलक्षणम् ।“कृष्णं धूम्रं वारुच्यं ध्वजाभं ध्वजमूषलम् ।मस्तके स्थापितं तस्य न्यूनन्यूनमितस्ततः
*
अथ कुबेरलिङ्गलक्षणम् ।“तूणपाशगदाकारं गुह्यकेशस्य मध्यगम् ।”अथ रौद्रलिङ्गलक्षणम् ।“दिनं वाप्यथवा रात्रिं सशोणं रविवर्च्चसम् ।अस्थिशूलाङ्कितं रौद्रं हेमकुण्डलवर्च्चसम्
”अथ वैष्णवलिङ्गलक्षणम् ।“चतुर्व्वर्णमयं वापि वैष्णवं ज्ञायतेऽग्रतः ।वैष्णवं शङ्खचक्राङ्कगदाब्जादिविभूषितम्
श्रीवत्सं कौस्तुभाङ्कञ्च सर्व्वसिंहासनाङ्कितम् ।वैनतेयसमाङ्कं वा तथा विष्णुपदाङ्कितम्
वैष्णवं नाम तत् प्रोक्तं सर्व्वैश्वर्य्यफलप्रदम् ।शालग्रामादिसंस्थन्तु शशाङ्कं श्रीविवर्द्धनम्
पद्माङ्कं स्वस्तिकाङ्कं वा श्रीवत्साङ्कं विभूतये
”इति वीरमित्रोदयधृतकालोत्तरः
*
नारद उवाच ।“अथ वक्ष्यामि ते विप्र चिह्रमेकादशं परम् ।श्रवणाद्यस्य पापानि नाशमायान्ति तत्-क्षणात्
मधुपिङ्गलवर्णाभं कृष्णकुण्डलिकायुतम् ।स्वयम्भुलिङ्गमाख्यातं सर्व्वसिद्धैर्निषेवितम्
नानावर्णसमाकीण जटाशूलसमन्वितम् ।मृत्युञ्जयाह्वयं लिङ्गं सुरासुरनमस्कृतम्
दीर्घाकारं शुभ्रवर्णं कृष्णबिन्दुसमन्वितम् ।बीलकण्ठं समाख्यातं लिङ्गं पूज्यं सुरासुरैः
शुक्लाभं शुक्लकेशञ्च नेत्रत्रयसमन्वितम् ।त्रिलोचनं महादेवं सर्व्वपापप्रणोदनम्
ज्वलल्लिङ्गं जटाजूटं कृष्णाभं स्थूलविग्रहम् ।कालाग्निरुद्रमाख्यातं सर्व्वसत्त्वैर्निषेवितम्
मधुपिङ्गलवर्णाभं श्वेतयज्ञोपवीतिनम् ।श्वेतपद्मसमासीनं चन्द्ररेखाविभूषितम्
प्रलयास्त्रसमायुक्तं त्रिपुरारिसमाह्वयम् ।शुभ्राभं पिङ्गलजटं मुण्डमालाधरं परम्
त्रिशैलधरमीशानं लिङ्गं सर्व्वार्थसाधनम् ।त्रिशूलडमरुधरं शुभ्ररक्तार्द्धभागतः
अर्द्धनारीश्वराह्वानं सर्व्वदेवैरभिष्टुतम् ।ईषद्रक्तमयं कान्तं स्थूलं लिङ्गं समुज्ज्वलम्
महाकालं समाख्यातं धर्म्मकामार्थमोक्षदम् ।एतत्तु कथितं तुभ्यं लिङ्गचिह्रं महेशितुः ।एकेनैव कृतार्थः स्यात् बहुभिः किमु सुव्रत
”इति हेमाद्रिधृतलक्षणकाण्डम्
*
“उक्ताङ्कं श्रेयसे योज्यं शीर्षमन्त्रं विवर्ज्जयेत् ।यमवर्णन्तु यल्लिङ्गं यमाङ्कं वा कमण्डलुम्
दण्डाङ्कं सूत्रचिह्रं वा ब्रह्मज्ञानान्वितं मतम् ।शशिवर्णं महाकालं नन्दीशं पद्मरागवत्
पद्मरागनिभं सर्व्वं महाभं सिद्धपूजितम् ।मौक्तिकाभं नीलनिभं रुद्रादित्यैः प्रपूजितम्
वसुदैः सेन्द्रयक्षेशं गुह्यकैर्यातुधानकैः ।नानावर्णमयं नीलं शशाङ्कमण्डलप्रभम्
”इति वीरमित्रोदयधृतकालोत्तरः
इति बाणलिङ्गलक्षणम्
*
अथ तस्य परीक्षा ।“इत्येतल्लक्षणं प्रोक्तं परीक्षा तत्त्वकोविदैः ।त्रिः सप्त पञ्च वारं वा तुलासाम्यं जायते ।तदा बाणं समाख्यातं शेषं पाषाणसम्भवम्
”इति वीरमित्रोदयधृतम्
तुलाकरणन्तु तण्डुलेन अपरतुलादिषु तण्डुलायद्यधिकाः स्युस्तदा तल्लिङ्गं गृहिणां पूज्यमव-धार्य्यं लिङ्गञ्चेदधिकं तदोदासीनपूज्यन्तदितिकिं वदन्तीति हेमाद्रिधृतलक्षणकाण्डम्
“सप्तकृत्वस्तुलारूढं वृद्धिमेति हीयते ।बाणलिङ्गमिति ख्यातं शेषं नार्म्मदमुच्यते
त्रिपञ्चवारं यस्यैव तुलासाम्यं जायते ।तदा बाणं समाख्यातं शेषं पाषाणसम्भवम्
”इति सूतसंहिता
“नद्यां वा प्रक्षिपेद्भूयाद्यदा तदुपलभ्यते ।बाणलिङ्गं तदा विद्धि न्यूनं सुखविवर्द्धनम्
”इति वीरमित्रोदयः
*
बाणशब्दव्युत्पत्तिरपि तत्रैव ।“अथ बाणं समाख्यातं यथा वक्ष्य तथादितः ।बाणः सदाशिवो देवो बाणो वाणान्तरोऽपिच
तेन यस्मै कृतं तस्मात् बाणलिङ्गमुदाहृतम् ।सदा सन्निहितस्तत्र शिवः सर्व्वार्थदायकः
कृतप्रतिष्ठं तल्लिङ्गं बाणाख्येन शिवेन ।पङ्कजस्य फलाकारं कुण्डलस्य समाकृति
भुक्तिमुक्तिप्रदञ्चैव बाणलिङ्गमुदाहृतम्
”पङ्कजफलं पद्मबीजम् ।“पक्वजम्बुफलाकारं कुक्कुटाण्डसमाकृति ।”इति हेमाद्रिधृतलक्षणकाण्डे पाठः
*
देवीं प्रति शिववाक्यम् ।“प्रशस्तं नार्म्मदं लिङ्गं पक्वजम्बुफलाकृति ।मधुवर्णं तथा शुक्लं नीलं मरकतप्रभम्
हंसडिम्बाकृति पुनः स्थापनायां प्रशश्यते ।स्वयं संस्रवते लिङ्गं गिरितो नर्म्मदाजले
पुरा बाणासुरेणाहं प्रार्थितो नर्म्मदातटे ।आविरासं गिरौ तत्र लिङ्गरूपी महेश्वरः ।बाणलिङ्गमपि ख्यातमतोऽर्थाज्जगतीतले
अन्येषां कोटिलिङ्गानां पूजने यत् फलंलभेत् ।तत् फलं लभते मर्त्यो बाणलिङ्गैकपूजनात्
”तथा, --“ताम्री वा स्फाटिकी स्वार्णी पाषाणीराजती तथा ।वेदिका प्रकर्त्तव्या तत्र संस्थाप्य पूजयेत्
*
प्रत्यहं योऽर्च्चयेल्लिङ्गं नार्म्मदं भक्तिभावतः ।ऐहिकं किं फलं तस्य मुक्तिस्तस्य करे स्थिता
”इति प्रत्यहबाणलिङ्गपूजायाः फलम् इतियाज्ञवल्क्यसंहिता
*
“संस्थाप्य श्रीबाणलिङ्गं रत्नकोटिगुणं भवेत् ।रसलिङ्गे ततो बाणात् फलं कोटिगुणं स्मृतम्
गुणांस्तु रसलिङ्गस्य वक्तुं शक्नोति शङ्करी ।सिद्धयो रसलिङ्गे स्युरणिमाद्याः सुसंस्थिताः
”इति सूतसंहिता
*
“रत्नधातुमयान्येव लिङ्गानि कथितान्यपि ।पवित्राण्येव पूज्यानि सर्व्वकामप्रदानि
एतेषामपि सर्व्वेषां काश्मीरं हि विशिष्यते ।काश्मीरादपि लिङ्गाच्च बाणलिङ्गं विशिष्यते
वाणलिङ्गात् परं नान्यत् पवित्रमिह दृश्यते ।ऐहिकामुष्मिकं सर्व्वं पूजाकर्त्तुः प्रयच्छति
”इति बाणलिङ्गप्रशंसा इति केदारखण्डम्
*
निन्द्यलिङ्गमाह तत्रैव ।“कर्कशे बाणलिङ्गे तु पुत्त्रदारक्षयो भवेत् ।चिपिटे पूजिते तस्मिन् गृहभङ्गो भवेद्ध्रुवम्
एकपार्श्वस्थिते धेनुपुत्त्रदारधनक्षयः ।शिरसि स्फुटिते बाणे व्याधिर्म्मरणमेव
छिद्रलिङ्गेऽर्च्चिते बाणे विदेशगमनं भवेत् ।लिङ्गे कर्णिकां दृष्ट्वा व्याधिमान् जायतेपुमान् ।अत्युन्नतिं विलाग्रे तु गोधनानां क्षयो भवेत्
*तीक्ष्णाग्रं वक्रशीर्षञ्च त्र्यस्रलिङ्गं विवर्जयेत् ।अतिस्थूलञ्चातिकृशं स्वल्पं वा भूषणान्वितम् ।गृही विवर्ज्जयेत्तादृक् तद्धि मोक्षार्थिनोहितम्
”इति दुष्टबाणलिङ्गलक्षणम् इति हेमाद्रिः
*
शुभलिङ्गमाह ।“अर्थदं कपिलं लिङ्गं घनाभं मोक्षकाङ्क्षिणः ।लघु वा कपिलं स्थूलं गृही नैवार्च्चयेत् क्वचित्
पूजितव्यं गृहस्थेन वर्णेन भ्रमरोपमम् ।तत् सपीठमपीठं वा मन्त्रसंस्कारवर्जितम् ।सिद्धिमुक्तिप्रदं लिङ्गं सर्व्वप्रासादपीठगम्
”इति शुभवाणलिङ्गलक्षणम् इति वीरमित्रो-दयः
*
वाणलिङेष्वावाहनादि कर्त्तव्यंयथा, --“वाणलिङ्गानि राजेन्द्र ! स्थितानि भुवनत्रये ।न प्रतिष्ठा संस्कारस्तेषामावाहनं
”इति भविष्यपुराणम्
“ब्राह्म्ये मुहूर्त्ते चोत्थाय यः स्मरेद्वाणलिङ्गकम् ।सर्व्वत्र जयमाप्नोति सत्यं सत्यं महेश्वर !
”इति योगसारे परिच्छेदः
*
अथ बाणलिङ्गध्यानम् ।“ओँ प्रमत्तं शक्तिसंयुक्तं बाणाख्यञ्च महा-प्रभम् ।कामबांणान्वितं देवं संसारदहनक्षमम्
शृङ्गारादिरसोल्लासं वाणाख्यं परमेश्वरम् ।एवं ध्यात्वा बाणलिङ्गं यजेत्तं परमं शिवम्
मनसा गन्धपुष्पाद्यैः संपूज्यास्य मनुं स्मरेत् ।प्राणायामं ततः कृत्वा वाणलिङ्गन्तु तोषयेत्
तदिष्टदेवयोरैक्यं विभाव्य वाग्भवं जपेत् ।ततो जपं समाप्याथ स्तवेनानेन तोषयेत्
*
अथ स्तवः ।“वाणलिङ्ग महाभाग संसारात्त्राहि मां प्रभोनमस्ते चोग्ररूपाय नमस्तेऽव्यक्तयोनये
संसारकारिणे तुभ्यं नमस्ते सृक्ष्मरूपधृक् ।प्रमत्ताय महेन्द्राय कालरूपाय वै नमः
दहनाय नमस्तुभ्यं नमस्ते योगकारिणे ।भोगिनां भोगकर्त्रे मोक्षदात्रे नमो नमः
नमः कामाङ्गनाशाय नमः कल्मषहारिणे ।नमो विश्वप्रदात्रे नमो विश्वस्वरूपिणे
वाणस्य वरदात्रे रावणस्य क्षयाय ।रामस्यानुग्रहार्थाय राज्याय भरतस्य
मुनीनां योगदात्रे राक्षसानां क्षयाय ।नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमो नमः
ऐं दाहिकाशक्तियुक्ताय महामायाप्रियाय ।भगप्रियाय सर्व्वाय वैरिणां निग्रहाय
परित्राणाय योगिनां कौलिकानां प्रियाय ।कुलाङ्गनानां भक्ताय कुलाचाररताय
कुलभक्ताय योगाय नमो नारायणाय ।मधुपानप्रमत्ताय योगेशाय नमो नमः
कुलनिन्दाप्रणाशाय कौलिकानां सुखाय ।कुलयोगाय निष्ठाय शुद्धाय परमात्मने
परमात्मस्वरूपाय लिङ्गमूलात्मकाय ।सर्व्वेश्वराय सर्व्वाय शिवाय निर्गुणाय
*
इत्येतत् परमं गुह्यं वाणलिङ्गस्य शङ्कर ।यः पठेत् साधकश्रेष्ठो गाणपत्यं लभेत सः
स्तवस्यास्य प्रसादेन योगी योगित्वमाप्नुयात् ।राज्यार्थिनां भवेद्राज्यं भोगिनां भोग एव
साधूनां साधनं देव कौलिकानां कुलं भवेत् ।यं यं कामयते मन्त्री तं तमाप्नोति लीलया
वाणलिङ्गप्रसादेन सर्व्वमाप्नोति सत्वरम् ।किमन्यत् कथयामीह सर्व्वं वेत्सि कुलेश्वर !
महाभये समुत्पन्ने राजद्वारे कुलेश्वर ! ।देशान्तरभये प्राप्ते दस्युचौरादिसङ्कुले ।पथनात् स्तवराजस्य भयं लभते क्वचित्
बाणलिङ्गस्य माहात्म्यं संक्षेपात् कथितंमया ।तस्य श्रवणमात्रेण नरो मोक्षमवाप्नुयात्
बाणलिङ्गं सदाराध्यं योगिनां योगसाधने ।कौलिकानां कुलाचारे पशूनां शत्रुनिग्रहे
वेदज्ञानां वेदपाठे रोगिणां रोगनाशने ।यो यो नाराधयेदेनं सर्व्वं तन्निष्फलं भवेत्
”इति श्रीयोगसारे सर्व्वागमोत्तमे पार्व्वतीशिव-संवादे बाणलिङ्गस्तोत्रं समाप्तम्
*
अथ रौद्रलिङ्गलक्षणम् ।“नदीसमुद्भवं रौद्रमन्योन्यस्य विघर्षणात् ।नदीवेगात् समं स्निग्धं संजातं रौद्रमुच्यते
”इति वीरमित्रोदयः
“सरित्प्रवाहसंस्थानं वाणलिङ्गसमाकृति ।तदन्यदपि बोद्धव्यं रौद्रलिङ्गं सुखावहम्
नदीसारनर्म्मदाया वाणलिङ्गसमाकृति ।तदन्यदपि बोद्धव्यं लिङ्गं रौद्रं भविष्यति
रौद्रलिङ्गं तथाख्यातं वाणलिङ्गसमाकृति ।श्वेतं रक्तं तथा पीतं कृष्णं विप्रादिपूजितम्
स्वभावात् कृष्णवर्णं वा सर्व्वजातिषु सिद्धिदम् ।नर्म्मदासम्भवं रौद्रं वाणालङ्गवदीरितम्
”इति रौद्रलिङ्गलक्षणम् इति लक्षणसमुच्चयोऽपि
अथ शिवनाभिलिङ्गलक्षणम् ।“उत्तमं मध्यमधमं त्रिविधं लिङ्गमीरितम् ।चतुरङ्गुलमुत्सेधे रम्यवेदिकमुत्तमम्
उत्तमं लिङ्गमाख्यातं मुनिभिः शास्त्रकोविदैः ।तदर्द्धं मध्यमं प्रोक्तं तदर्द्धमधमं स्मृतम्
”तस्य महिमा ।“शिवनाभिमयं लिङ्ग प्रतिपूज्य महषिभिः ।श्रेष्ठञ्च सर्व्वलिङ्गभ्यस्तस्मात् पूज्यं विशेषतः
”इति शिवनाभिलिङ्गलक्षणम् इति वीरमित्रो-दयधृतशिवनारदसंवादः
*
अथ दैवलिङ्गलक्षणम् सिद्धान्तशेखरे ।“करसंपुटसंस्पर्शं शूलटङ्केन्दुभूषितम् ।रेखाकोटरसंयुक्तं निम्नोन्नतसमन्वितम्
दीर्घाकारञ्च यल्लिङ्गं ब्रह्मभागादिवर्जितम् ।लिङ्गं गोलमिति प्रोक्तं गोलकं प्रोच्यतेऽधुना
कुष्माण्डस्य फलाकारं नागरङ्गफलोपमम् ।काकडिम्बफलाकारं गोललिङ्गमितीरितम्
”इति गोललिङ्गलक्षणम्
अथार्षलिङ्गलक्षणं तत्रैव ।“नानाकौलफलाकारं ब्रह्मसूत्रविवर्त्तनम् ।मूले स्थूलञ्च यल्लिङ्गं कपित्थफलसन्निभम्
नालस्य वा फलाकारं मध्ये स्थूलञ्च यद्भवेत् ।मध्ये स्थूलं वरं लिङ्गमृषिबाणमुदाहृतम्
”इत्यार्षलिङ्गलक्षणम्
*
अथ लिङ्गलक्षणम् ।“लिङ्गं हि द्विविधं प्रोक्तं कृत्रिमाकृत्रिमञ्चतत् ।तल्लिङ्गं द्विविधं ज्ञेयमचलञ्च चलन्तथा ।प्रत्येकं त्रिविधं ज्ञेयं लिङ्गं तदुभयात्मकम्
प्रासादे स्थापितं लिङ्गमचलं तच्छिलादिजम् ।स्थापितं सचलं गेहे स्थिरं लिङ्गमयोजिते
पञ्चधा तत् स्थितं लिङ्गं स्वयम्भु दैवपालकम् ।आर्षञ्च मानसं लिङ्गं तेषां लक्षणमुच्यते
”इति सिद्धान्तशेखरः
“आचार्य्यमुनये स्वैरं स्वयम्भूतो महेश्वरः ।यत्र चैव स्वयं व्यक्तं लिङ्गमस्तु स्वयम्भु तत्
धमनी यस्य संस्पर्शात् दहति क्षिप्रमेव तु
”इति षट्कर्म्मदीपिका
*
“नानाच्छिद्रसुसंयुक्तं नानावर्णसमन्वितम् ।अदष्टमूलं यल्लिङ्गं कर्कशं भुवि दृश्यते
तल्लिङ्गन्तु स्वयम्भूतमपरं लक्षणच्युतम् ।स्वयम्भु लिङ्गमित्युक्तं तच्च नानाविधं मतम्
शङ्खाभमस्तकं लिङ्गं वैष्णवं तदुदाहृतम् ।पद्माभमस्तकं ब्राह्म्यं छत्राभं शाक्रमुच्यते
शिरोयुग्मं तदाग्नेयं त्रिपदं याम्यमीरितम् ।खड्गाभं नैरृतं लिङ्गं वारुणं कलसाकृति
वायव्यं ध्वजवल्लिङ्गं कौबेरन्तु गदान्वितम् ।ईशानस्य त्रिशूलाभं लोकपालादिनिःसृतम् ।सयम्भु लिङ्गमाख्यातं सर्व्वशास्त्रविशारदैः
”इति स्वयम्मुलिङ्गलक्षणम्
इति सिद्धान्तशेखरः
*
“दृष्ट्वा लिङ्गं महेशस्य स्वयम्भू तस्य पार्व्वति ! ।सर्व्वपापविनिर्मुक्तः परे ब्रह्मणि लीयते
”एतेषां पूजाफलं तत्रैव ।“विशेषाच्छैलजं मुक्त्यै भुक्तये चानुषङ्गतः ।पार्थिवं भुक्तये शस्तं मुक्तये चानुषङ्गतः
एवं वै दारुजं ज्ञेयं चिह्रलिङ्गं तथा पुनः ।स्थिरलक्ष्मीप्रदं ज्ञेयं हैमं राज्यप्रदञ्च तत्
पुत्त्रवृद्धिकरं ताम्रं राङ्गमायुःप्रवर्द्धनम्
”इति मत्स्यसूक्तमहातन्त्रम्
*
“पारदञ्च महाभूत्यै सौभाग्याय मौक्तिकम् ।चन्द्रकाभ्तं मृत्युजित् स्याद्धाटकं सर्व्वकामदम्
”इति पद्मपुराणम्
*
“सर्व्वफलप्रदा भूमिर्मणयस्तद्बदेव हि ।अनन्ताद्याः स्मृता ह्यष्टौ मणयो विद्युदुज्ज्वलाः
रात्रौ प्रकाशकाः सर्व्वविषाद्याघातकारिणः ।नानावर्णास्तु विज्ञेया रसैर्गन्धैश्च रूपतः
वज्राद्याः स्फाटिकाद्याश्च गुडान्नादिविनि-र्म्मितम् ।सर्व्वकामप्रदं पुंसां लिङ्गं तात्कालिकं मतम्
”इति वीरमित्रोदयधृतकालोत्तरः
*
“गांन्धं सौभाग्यदं लिङ्गं पौष्पं मुक्तिप्रदायकम् ।नानाशूनोद्भवं लिङ्गं नानाकामप्रदायकम्
सैकतं गुणदं लिङ्गं सौभाग्याय लावणम् ।उच्चाटने तु पाशाप्तं मौलं शत्रुक्षयावहम् ।तात्कालिकं दरिद्रश्च कृत्वा भक्त्या समर्च्चयेत्
”इति लक्षणसमुच्चयः
अथ गन्धलिङ्गम् गरुडपुराणे ।“कस्तूरिकाया द्वौ भागौ चत्वारश्चन्दनस्य ।कुङ्कुमस्य त्रयश्चैव शशिना चतुः समम्
एतद्वै गन्धलिङ्गन्तु कृत्वा संपूज्य भक्तितः ।शिवसायुज्यमाप्नोति बन्धुभिः सहितो नरः
”पुष्पमयलिङ्गं यथा, --“कार्य्यं पुष्पमयं लिङ्गं हयगन्धसमन्वितम् ।नवखण्डां धरां भुक्त्वा गणेशोऽधिपतिर्भवेत्
”अथ रजोमयलिङ्गम् ।“रजोभिर्निर्म्मितं लिङ्गं यः पूजयति भक्तितः ।विद्याधरपदं प्राप्य पश्चाच्छिवसमो भवेत्
”अथ गोशकृल्लिङ्गम् ।“श्रीकामो गोशकृल्लिङ्गं कृत्वा भक्त्यां प्रपू-जयेत् ।स्वच्छेन कापिलेनैव गोमयेन प्रकल्पयेत्
”स्वच्छेन भूमिपतनरहितेन शून्योद्धृतेनेतियावत्
*
अथ यवगोधूमशालिजलिङ्गम् ।“कार्य्यं यष्टिक्रमं लिङ्गं यवगोधूमशालिजम् ।श्रीकामः पुष्टिकामश्च पुत्त्रकामस्तदर्च्चयेत्
”अथ सिताखण्डमयलिङ्गम् ।“सिताखण्डमयं लिङ्गं कार्य्यमारोग्यवर्द्धनम् ।वश्ये लवणजं लिङ्गं तालत्रिकटुकान्वितम्
”तालं हरितालम् त्रिकटुकं शुण्ठीपिप्पली-मरीचं इति प्रसिद्धम् ।“गव्यघृतमयं लिङ्गं संपूज्य बुद्धिवर्द्धनम् ।”तथा ।“लवणेन सौभाग्यं पार्थिवं सर्व्वकामदम् ।कामदं तिलपिष्टोत्थं तुषोत्थं मारणे स्मृतम्
भस्मोत्थं सर्व्वफलदं गुडोत्थं प्रीतिवर्द्धनम् ।गन्धोत्थं गुणदं भूरि शर्करोत्थं सुखप्रदम्
वंशाङ्कुरोत्थं वंशकरं गोमयं सर्व्वरोगदम् ।केशास्थिसम्भवं लिङ्गं सर्व्वशत्रुविनाशनम्
क्षोभणे मारणे पिष्टसम्भवं लिङ्गमुत्तमम् ।दारिद्र्यदं द्रुमोद्भूतं पिष्टं सारस्वतप्रदम्
दधिदुग्धोद्भवं लिङ्गं कीर्त्तिलक्ष्मीसुखप्रदम् ।धान्यदं धान्यजं लिङ्गं फलोत्थं फलदं भवेत्
पुष्पोत्थं दिव्यभोगायुर्मुक्त्यै धात्रीफलोद्भवम् ।नवनीतोद्भवं लिङ्गं कीर्त्तिसौभाग्यवर्द्धनम्
दूर्व्वाकाण्डसमुद्भूतमपमृत्युनिवारणम् ।कर्पूरसम्भवं लिङ्गं चलं वै भुक्तिमुक्तिदम्
अयस्कान्तं चतुर्धा तु ज्ञेयं सामान्यसिद्धिषु
सर्व्वं नवभवं श्रेष्ठं तत्र वज्रमरिच्छिदि ।यमलिङ्गं महाभूत्यै सौभाग्याय मौक्तिकम् ।पुष्टिमूलं महानीलं ज्योतिश्चीरसमुद्भवम्
स्पर्शकं कुलसन्नत्यै तैजसं सूर्य्यकान्तजम् ।चन्द्रापीडं मृत्युजितं स्फाटिकं सर्व्वकामदम्
”चन्द्रापीडं चन्द्रकान्तमित्यर्थः ।“शूलाख्यमणिजं शत्रुक्षयार्थं मौक्तिकं तथा ।”यत्सन्निधानात् शूलरोगनाशः शूलमणिः
“आपुत्त्रं हीरकं ज्ञेयं रोगहृन्मौक्तिकोद्भवम् ।शुभकृत् पुष्कलं तीर्थे वैदूर्य्यं शत्रुदर्पहृत् ।नीलं लक्ष्मीप्रदं ज्ञेयं स्फाटिकं सर्व्वकामदम्
”इति सारसंग्रहे
“महाभुक्तिप्रदं हैमं राजतं भूतिवर्द्धनम् ।आरकूटं तथा कांस्यं शृणु सामान्यमुक्तिदम्
”आरकूटं पित्तलम् ।“त्रषु सीसायसं लिङ्गं शत्रूणां नाशने हितम् ।कीर्त्तिदं कांस्यजं लिङ्गं राजतं पुष्टिवर्द्धनम् ।पैत्तलं भुक्तिमुक्त्यर्थं मिश्रजं सर्व्वसिद्धिदम्
”मिश्रजमष्टधातुनिर्म्मितम्
इति कालोत्तरः
“पितॄणां मुक्तये लिङ्गं पूज्यं रजतसम्भवम् ।हैमजं सत्यलोकस्य प्राप्तये पूजयेत् पुमान्
पूजयेत्ताम्रजं लिङ्गं पुष्टिकामो हि मानवः
”इति शिवनारदसंवादः
ताम्रादिलिङ्गपुजनन्तु कलीतरपरम् ।“ताम्रलिङ्गं कलौ नार्च्चेत् रैत्यस्य सीसकस्य ।रक्तचन्दनलिङ्गञ्च शङ्खकांस्यायसं तथा
तुष्टिकामस्तु सततं लिङ्गं पित्तलसम्भवम् ।कीर्त्तिकामो यजेन्नित्यं लिङ्गं कांस्यसमुद्भवम्
शत्रुमारणकामस्तु लिङ्गं लौहमयं सदा ।सदा सीसमयं लिङ्गमायुष्कामोऽर्च्चयेत् नरः
”इति मत्स्यसूक्तमहातन्त्रम्
“स्थिरलक्ष्मीप्रदं हैमं राजतं चैव राज्यदम् ।प्रजावृद्धिकरं राङ्गं ताम्रमायुःप्रवर्द्धनम्
विद्वेषकारणं कांस्यं रीतिजं शत्रुनाशनम् ।रोगघ्नं सैसकं लिङ्गमायसं शत्रुनाशनम्
अष्टलौहमयं लिङ्गं कुष्ठरोगक्षयावहम् ।त्रिलौहसम्भवं लिङ्गं विज्ञानं प्रति सिद्धिदम्
”इति लक्षणसमुच्चयः
“श्रीप्रदं वज्रजं लिङ्गं शिलाजं सर्व्वसिद्धिदम् ।धातुजं धनदं साक्षाद्दारुजं भोगसिद्धिदम्
”इति लिङ्गपुराणम्
“गन्धपुष्पमयं लिङ्गं तथान्नादिविनिर्म्मितम् ।कस्तूरीसम्भवं लिङ्गं धनाकाङ्क्षी प्रपूजयेत्
लिङ्गं गोरोचनोत्थञ्च रूपकामस्तु पूजयेत् ।कान्तिकामस्तु सततं लिङ्गं कुङ्कुमसम्भवम्
श्वेतागुरुसमुद्भूतं महाबुद्धिविवंर्द्धनम् ।धारणाशक्तिदं लिङ्गं कृष्णागुरुसमुद्भवम्
यक्षकर्दमसम्भू तम् ।” इति कालोत्तरः
“पार्थिवे शिवपूजायां सर्व्वसिद्धियुतो भवेत् ।पाषाणे शिवपूजायां द्विगुणं फलमीरितम्
स्वर्णलिङ्गे पूजायां शत्रूणां नाशनं मतम् ।सर्व्वसिद्धीश्वरो रौप्ये फलं तस्माच्चतुर्गुणम्
ताम्रे पुष्टिं विजानीयात् कांस्ये धनसंक्षयः ।गङ्गायाञ्च लक्षगुणं लाक्षायां रोगवान् भवेत्
स्फाटिके सर्व्वसिद्धिः स्यात्तथा मरकते प्रिये ।लौहलिङ्गे रिपोर्नाशः कामदं भस्मलिङ्गकम् ।बालुकायां काम्यसिद्धिर्गोमये रिपुहिंसनम् ।सर्व्वलिङ्गस्य माहात्म्यं धर्म्मकामार्थमोक्षदम्
”इति मातृकाभेदतन्त्रे १२ पटलः
“ब्रह्मा संपूजयेन्नित्यं लिङ्गं शैलमयं शुभम् ।तस्य संपूजनात्तेन प्राप्तं ब्रह्मत्वमुत्तमम्
इन्द्रनीलमयं लिङ्गं विष्णुः समर्च्चयेत् सदा ।विष्णुत्वं प्राप्तवान् तेन सोऽभूद्भूतैकपालकः
स्फाटिकं निर्मलं लिङ्गं वरुणोऽभ्यर्च्चयेत् सदा ।तेन तद्वरुणैत्वं हि प्राप्तं तेजोबलान्वितम्
”इति षट्कर्म्मदीपिकाधृतशिवधर्म्मः
“पूजयेत् पार्थिवे लिङ्गे पाषाणलिङ्गकेऽथवा ।स्वर्णलिङ्गेऽथवा देवि रौप्ये ताम्रे कांस्यके
पारदे वाथ गङ्गायां स्फाटिके मरकतेऽपि वा ।कार्य्यभेदे लौहलिङ्गे भस्मनिर्म्मितलिङ्गके
बालुकानिर्म्मिते लिङ्गे गोमये वाथ पूजयेत् ।संस्कारेण विना देवि पाषाणादौ पूजयेत्
”इति मातृकाभेदतन्त्रे पटलः
इति शिवलिङ्गनिर्म्माणद्रव्याणि
*
अथशिवलिङ्गसं स्कारः ।“संस्कारञ्च प्रवक्ष्यामि विशेष इह यद्भवेत्
रौप्यञ्च स्वर्णलिङ्गञ्च स्वर्णपात्रे निधाय ।तस्मादुत्तोल्य तल्लिङ्गं दुग्धमध्ये दिनत्रयम् ।त्र्यम्बकेन स्नापयित्वा कालरुद्रं प्रपूजयेत्
षोडशेनोपचारेण वेद्यान्तु पार्व्वतीं यजेत् ।तस्मादुत्तोल्य तल्लिङ्गं गङ्गातोये दिनत्रयम् ।ततो वेदोक्तविधिना संस्कारमाचरेत् सुधीः
”पूर्व्वोक्तवचनैः फलविशेषकामनया नानाविध-लिङ्गपूजोक्ता सा पूजा ।“लिङ्गं सुलक्षणं कुर्य्यात्त्यजेल्लिङ्गमलक्षणम् ।दैर्घ्यहीने भवेद्व्याधिरधिके शत्रुवर्द्धनम्
मानहीने विनाशः स्यादधिके शिशुक्षयः ।विस्तारे चाधिके हीने राष्ट्रनाशो भवेद्ध्रुवम्
पीठहीने तु दारिद्र्यं शिरोहीने कुलक्षयः ।ब्रह्मसूत्रविहीने राज्ञां राष्ट्रञ्च नश्यति ।तस्मात् सर्व्वप्रयत्नेन लिङ्गं कुर्य्यात् सुलक्षणम्
”इत्यादिना सुलक्षणलिङ्गस्यैव फलदातृत्वमुक्तम् ।इति मातृकाभेदतन्त्रे पटलः
देव्युवाच ।“इन्द्रियै रहितो देवः शून्यरूपः सदाशिवः ।आकारो नास्ति देवस्य किं तस्य पूजने फलम्
शिव उवाच ।प्रेते पूजा महेशानि कदाचिन्नास्ति पार्व्वती ।रुद्रस्य परमेशानि रौद्री शक्तिरितीरिता
रौद्री तु परमेशानि आद्या कुण्डलिनी भवेत् ।वर्त्तते परमेशानि ब्रह्मविष्णुशिवात्मिका
सार्द्धत्रिवलयाकारैः शिवं वेष्ट्य सदा स्थिता ।शक्तिं विना महेशानि प्रेतत्वं तस्य निश्चितम्
शक्तिसंयोगमात्रेण कर्म्मकर्त्ता सदाशिवः ।अतएव महेशानि पूजयेच्छिवलिङ्गकम्
”इति सशक्तिकशिवलिङ्गपूजनफलम्
इति लिङ्गार्च्चनतन्त्रे पटलः
*
देव्युवाच ।“लिङ्गप्रमाणं देवेश कथयस्व मयि प्रभो ।पार्थिवे शिलादौ विशेषो यत्र यो भवेत्
श्रीशिव उवाच ।मृत्तिकातोलकं ग्राह्यमथवा तोलकद्बयम् ।एतदन्यन्न कुर्व्वीत कदाचिदपि पार्व्वति
”इति मातृकाभेदतन्त्रे पटलः
अपि ।“मृत्तिकातोलकं ग्राह्यमथवा तोलकद्बयम् ।त्रिसूत्रस्य प्रमाणेन घटनं कारयेद्बुधः
स्वाङ्गुष्ठपर्व्वमानन्तु कृत्वा लिङ्गं प्रपूजयेत् ।मृदादिलिङ्गघटने प्रमाणं परिकीर्त्तितम् ।फलमुक्तमवाप्नोति अन्यथा चेत्तदन्यथा
”इति षट्कर्म्मदीपिकाधृतविश्वसारतन्त्रम्
“लिङ्गे वेद्यां तथा पीठे समसूत्रनिपातनात् ।समञ्चैव विजानीयात्त्रिसूत्रीकरणन्त्विदम्
”इति कालोत्तरः
मृत्तिकाभेदेन ब्राह्मणादीनां पूजाफलस्य प्रश-स्तत्वं यथा, --“चतुर्धा पार्थिवं लिङ्गं मृत्स्नाभेदेन पार्व्वति ।शुक्लं रक्तं तथा पीतं कृष्णञ्च परमेश्वरि
शुक्लन्तु ब्राह्मणे शस्तं क्षत्त्रिये रक्तमिष्यते ।पीतन्तु वैश्यजातौ स्यात् कृष्णं शूद्रे प्रकीर्त्ति-तम्
”तथा ।“शुक्लं हि पार्थिवं लिङ्गं निर्म्माय यस्तु पूजयेत् ।स एव परमेशानि त्रिवर्गफलभाग्भवेत्
क्षत्त्रियस्तु वरारोहे रक्तं निर्म्माय पार्थिवम् ।पूजयेत् सततं यस्तु त्रिवर्गफलमाप्नुयात्
हरितं पार्थिवं देवि ! निर्म्माय यस्तु पूजयेत् ।स वैश्यो महेशानि ! त्रिवर्गफलभाग्भवेत्
कृष्णं हि पार्थिवं लिङ्गं निर्म्माय यस्तु पूजयेत् ।स शूद्रः परमेशानि ! त्रिवर्गफलभाग्भवेत्
”इति लिङ्गार्च्चनतन्त्रे पटलः
*
“शिलादौ महेशानि ! स्थूलञ्च फलदायकम् ।अङ्गुष्ठमानं देवेशि ! यद्बा हेमाद्रिमानकम्
क्रमेण देवदेवेशि ! फलं बहुविधं लभेत् ।स्थूलात् स्थूलतरं लिङ्गं रुद्राक्षं परमेश्वरि !
पूजनाद्धारणाद्देवि ! फलं बहुविधं स्मृतम्
”स्थूलात् स्थूलमिति पार्थिवलिङ्गेतरपरम् ।मृत्तिकातोलकमिति विशेषवचनात् शिला-स्फाटिकमरकतादीनां पञ्चसूत्रीकरणमुक्तंयथा, --“शिवलिङ्गस्य यन्मानं तन्मानं दक्षसव्ययोः ।योन्यग्रमपि यन्मानं तदधोऽपि तथा भवेत्
”इति लिङ्गपुराणम्
“लिङ्गस्य यादृग्विस्तारः परिणाहोऽपि तादृशः ।लिङ्गस्य द्विगुणा देवी योनिस्तदर्द्धसम्मिता
कुर्व्वीताङ्गुष्ठतो ह्रस्वं कदाचिदपि क्वचित् ।रत्नादिशिवनिर्म्माणे मानमिच्छावशाद्भवे
”इति तन्त्रान्तरम्
लिङ्गव्युत्पत्तिर्यथा, --“आकाशं लिङ्गमित्याहुः पृथिवी तस्य पीठिका ।आलयः सर्व्वदेवानां लयनाल्लिङ्गमुच्यते
”इति स्कन्दपुराणम्
लिङ्गमहिमा यथा, --शिव उवाच ।“न तुष्याम्यर्च्चितोऽर्च्चायां पुष्पधूपनिवेदनैः ।लिङ्गेऽर्च्चिते तथात्यर्थं परं तुष्यामि पार्व्वति !
एष देवि ! पुरा कृत्ये जीनोऽहं सर्व्वदैवतैः ।लिङ्गत्वाल्लिङ्गमित्युक्तं सदेवासुरकिन्नरैः
प्रयच्छामि दिवं देवि ! यो मल्लिङ्गार्च्चने रतः ।त्यक्त्वा सर्व्वाणि पांपानि निर्गदो न्दग्धकल्मषः
मन्मना मन्नमस्कारो मामेव प्रतिपद्यते
”इति वीरमित्रोदयधृतस्कन्दपुराणम्
द्रव्यविशेषेण पूजादिफलं यथा, --“वस्त्रपूतजलैर्लिङ्गं स्नपित्वा मम मानवाः ।लक्षाणाञ्चाश्वमेधानां फलमाप्नोति सत्तमः
सुगन्धिचन्दनरसैर्लिङ्गमालिप्य भक्तितः ।आलिप्यते सुरस्त्रीभिः सुगन्धैर्यक्षकद्दमैः
”इति तत्रैव
*
लिङ्गपूजाया अकरणे दोषः तत्पूजाफलञ्च यथा, “विना लिङ्गार्च्चनं यस्य कालो गच्छति नित्यशः ।महाहानिर्भवेत्तस्य दुर्गतस्य दुरात्मनः ।एकतः सर्व्वदानानि व्रतानि विविधानि ।तीर्थानि नियमा यज्ञा लिङ्गाराधनमेकतः
लिङ्गाराधनादन्यत् पुरा वेदे चतुर्ष्वपि ।विद्यते सर्व्वशास्त्राणामेष एव सुनिश्चितः
भुक्तिमुक्तिप्रदं लिङ्गं विविधापन्निवारणम् ।पूजयित्वा नरो नित्यं शिवसायुज्यमाप्नुयात्
सर्व्वमन्यत् परित्यज्य क्रियाजालमशेषतः ।मक्त्या परमया विद्वान् लिङ्गमेकं प्रपूजयेत्
”इति स्कन्दपुराणम्
*
“अश्वमेधसहस्राणि वाजपेयशतानि ।महेशार्च्चनपुण्यस्य कलां नार्हन्ति षोडशीम्
”इति मत्स्यसूक्त १६ पटलः
“बहुनात्र किमुक्तेन चराचरमिदं जगत् ।शिवलिङ्गं समभ्यर्च्च्य स्थितमत्र संशयः
”इति लिङ्गपुराणम्
*
“शिवस्य पूजनाद्देवि चतुर्व्वर्गाधिपो भवेत् ।अष्टैश्वर्य्ययुतो मर्त्यः शम्भुनाथस्य पूजनात् ।स्वयं नारायणेनोक्तं यदि शम्भुं प्रपूजयेत्
स्वर्गे मर्त्ये पाताले ये देवाः संस्थिताः सदा ।तेषां पूजा भवेद्देवि शम्भुनाथस्य पूजनात्
”इति लिङ्गपुराणम्
*
“असारे खलु संसारे सारमेतच्चतुष्टयम् ।काश्यां वासः सतां सङ्गो गङ्गाम्भः शम्भु-पूजनम्
”इति षट्कर्म्मदीपिकाधृतकालोत्तरे नारद-वाक्यम्
*
“अग्निहोत्रास्त्रिवेदाश्च यज्ञाश्च बहुदक्षिणाः ।शिवलिङ्गार्च्चनस्यैते कोट्यंशेनापि ते समाः
छित्त्वा भित्त्वा भूतानि हित्वा सर्व्वमिदंजगत् ।यजेद्देवं विरूपाक्षं पापेन लिप्यते
अनेकजन्मसाहस्रं भ्राम्यमाणश्च योनिषु ।कः समाप्नोति वै मुक्तिं विना लिङ्गार्च्चनं नरः
”इति स्कन्दपुराणम्
*
“ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रो वाप्यनुलोमजः ।पूजयेत् सततं लिङ्गं तत्तन्मन्त्रेण सादरम्
”तत्तन्मन्त्रेणेति यथायोग्यं वैदिकतान्त्रिकनाम-मन्त्रेणेत्यर्थः इति वीरमित्रोदयधृतस्कन्द-पुराणम्
*
“मूले ब्रह्मा तथा मध्ये विष्णुस्त्रिभुवनेश्वरः ।रुद्रोपरि महादेवः प्रणवाख्यः सदाशिवः
लिङ्गवेदी महादेवी लिङ्गं साक्षान्महेश्वरः
तयोः प्रपूजनान्नित्यं देवी देवश्च पूजितौ
”इति लिङ्गपुराणम्
*
अथ पारदशिवलिङ्गमाहात्म्यम् ।“ज्योतिर्म्मयं महालिङ्गं कैलासनगरे प्रिये ।तस्यैव षोडशांशैकः काश्यां विश्वेश्वरः स्थितः
पूर्णलिङ्गं महेशानि शिवबाज चान्यथा ।शिलामध्ये यथा चक्रं लक्ष्मीनारायणः परम् ।पारदस्य शतांशैको लक्ष्मीनारायणो हि
पकारं विष्णुरूपञ्च आकारं कालिका स्वयम् ।रेफं शिवं दकारञ्च ब्रह्मरूपं चान्यथा
पारदं परमेशानि ब्रह्मविष्णुशिवात्मकम् ।यो यजेत् पारदं लिङ्गं एव शम्भुरव्ययः
आजन्ममध्ये यो देवि एकदा यदि पूजयेत् ।स एव धन्यो देवेशि ज्ञानी तत्त्ववित्
ब्रह्मवेत्ता धनी राजा भुवि पूज्यते ।अणिमादिविभूतीनामीश्वरः साधकोत्तमः
*
अथ पारदशिवलिङ्गनिर्म्माणविधिः ।“पारदे शिवनिर्म्माणे नानाविघ्नं यतः प्रिये ।अतएव महेशानि शान्तिस्वस्त्ययनं चरेत्
पारदं शिवबीजं हि ताडनं हि कारयेत् ।ताडनाद्वित्तनाशः स्यात्ताडनाद्वित्तहीनता ।ताडनाद्रोगयुक्तत्वं ताडनान्मरणं भवेत्
”इति मातृकाभेदतन्त्रे पटलः
*
अथ शिवलिङ्गोत्पत्तिः ।ब्रह्मोवाच ।“पुरा त्वां चञ्चलं ज्ञात्वा त्वदग्रे प्रकाशितम् ।इदानीं योगिनं ज्ञात्वा कथयामि संशयः
अतिगुह्यमतिगुह्यमतिगुह्यं संशयः ।गोपितव्यं गोपितव्यं गोपितव्यं त्वयापि
शम्भुना गोपितं तन्त्रे तन्त्रान्तरे प्रकाशितम् ।शृणु तत् कथयाम्यद्य सावधानोऽवधारय
सर्गादौ विविधाः सर्गा मया सृष्टा हि नारद ।देवदानवदैत्याश्च गन्धर्व्वयक्षराक्षसाः
सर्व्वे स्त्रीवशगाः श्रेष्ठा मैथुनाज्जायते प्रजा ।केवलं हि शिवः शम्भुर्दारग्रहणकर्म्मणि
कदापि मनश्चक्रे दृष्ट्वा चिन्तापराः सुराः ।मामेव शरणं जग्मुः सेन्द्रा देवासुरादयः
प्रणिपत्य स्तुतिं कृत्वा उपतस्थुः समाहितः ।प्रोचुः प्राञ्जलयः सर्व्वे भयाद्गद्गदमानसाः
देवाद्या ऊचुः ।उद्वाहिता वयं सर्व्वे भवानपि जनार्द्दनः ।केवलं हि महादेवो देवदेवो जगत्पतिः
विवाहे मनश्चक्रे कया वा मोह्यते शिवः ।उपायं चिन्तय विभो सदारः कथमीश्वरः ।येन स्याज्जगतां नाथस्तत् कुरुष्व दयानिधे
इति श्रुत्वा वचस्तेषां ततो ब्रह्मा प्रजापतिः ।सह तैर्गरुडारूढं जगाम कमलासनः ।उवाच तं जगन्नाथं विष्णुं कमललोचनम्
ब्रह्मोवाच ।सृष्टा मया सुरश्रेष्ठ मानुषा मैथुनोद्भवाः ।सर्व्वे स्त्रैणा विना शम्भुं यत् कर्त्तव्यं वदस्व मे
श्रीभगवानुवाच ।एभिः सह महाबाहो गच्छामस्त्वमहं शिवम् ।कर्त्तव्यं सूचितं तेन अनुज्ञातैर्यथाविधि ।किन्तु तद्योग्यनारीन्तु विवाहार्थं प्रकल्पय
ब्रह्मोवाच ।दक्षं गच्छामहे सर्व्वे अनुज्ञापय तं हरे ।आद्याशक्तिं महामायां प्रसादयतु वै लघु
कन्या भूत्वा महाशम्भुं मोहयिष्यति शङ्करम् ।एवमुक्त्वा तु तैः सार्द्धं जग्मतुर्विधिकेशवौ ।यत्र दक्षो महातेजाः प्रोचतुः कार्य्यमात्मनः
उवाच दक्षं तद्युक्तं तपस्तप्तुं प्रजापतिः ।ब्रह्मा विष्णुश्च सर्व्वे ते तपसा तोषयेच्छिवाम्
आविर्ब्बभूव सा देवी कालिका जगदीश्वरी ।प्राह मांवः किमर्थन्तु समुत्कण्ठाः सुरासुराः
देव्युवाच ।शीघ्रं रूपं यथाकामं भवतां प्रार्थने फलम् ।अचिरात् तत्प्रदास्यामि सत्यं सत्यं संशयः
देवाद्या ऊचुः ।भूत्वा तु दक्षकन्या त्वं शङ्करं परिमोहय ।अस्माकं वाञ्छितञ्चैतत् कुरु सिद्धिं सदा शिवे
एतत् श्रुत्वा वचस्तेषां निरीक्ष्य कमलासनम् ।उवाच विस्मयाविष्टा कालिका जगदीश्वरी
देव्युवाच ।शम्भुरद्यतनो बालः किं मां सन्तोषयिष्यति ।मम योग्यं पुमांसन्तु अन्यं वै परिकल्पय
ब्रह्मोवाच ।शम्भुः सर्व्वगुरुर्देवो ह्यस्माकं परमेश्वरः ।महासत्त्वो महातेजाः ते तोषं करिष्यति
शम्भुतुल्यः पुमान्नास्ति कदाचिदपि कुत्रचित् ।इत्युक्त्वा ब्रह्मणा देवी वाढमित्याह चेश्वरी ।दक्षाय दर्शनं दत्त्वा उवाच उच्यतां वरः
दक्षोऽपि दृष्ट्वा तां देवीं खड्गकर्त्तृधरां पराम् ।खर्व्वां लम्बोदरीं व्याघ्रचर्म्मावृतकटिस्थलीम्
नीलोत्पलकपालाढ्यकरयुग्मां वरप्रदाम् ।कृतकृत्यमिवात्मानं मेने दक्षः प्रजापतिः
दक्ष उवाच ।यदि मे वरदासि त्वं देवानामपि वाञ्छितम् ।मदीयतनया भूत्वा शङ्करं किल मोहय
तथेत्युक्त्रा जगद्धात्री अन्तर्द्धानं गता तदा ।देबताश्च ततो नत्वा यत्र तेपे तपो हरः
सस्त्रीकाः परमात्मानमुपतस्थुर्जगत्पतिम् ।प्रणेमुस्तुष्टुवुर्भक्त्या प्राहुर्गद्गदभाषिणः
देवाद्या ऊचुः ।भगवन् देवदेवेश लोकनाथ महाशय ।वयं सर्व्वे तु सस्त्रीकाः सृष्ट्यर्थं परमेश्वर ।अतस्त्वं कुरु चोद्वाहं सृष्टिरक्षा यथा भवेत्
दक्षगेहे महाकाली मायेति परिकीर्त्तिता ।जाता ते प्रीतये शम्भो सा ते योग्या नसंशयः
ईश्वर उबाच ।भवतां प्रीतये सम्यक् करिष्ये नात्र संशयः ।उद्योगः क्रियतां क्षिप्रं विवाहाय ममैव हि
इत्युक्तास्तु सुराः सर्व्वे ईश्वरेण महात्मना ।कृतकृत्या गताः सर्व्वे भवनं सर्व्वसुन्दरम्
दक्षाय कथयामासुः शङ्करेणोदितं वचः ।ततो विवाहं निर्व्वर्त्य कृतकृत्या यथा गताः
गताः सर्व्वे महेशोऽपि सत्या सह तदा गृहम् ।जगाम रेमे सत्या चिरं निर्भरमानसः
अथ काले कदाचित्तु सत्या सह महेश्वरः ।रेमे शेके तं सोढुं सती श्रान्ताभवत्तदा
उवाच दीनया वाचा देवदेवं जगद्गुरुम् ।भगवन्नहि शक्नोमि तव भारं सुदुःसहम् ।क्षमस्व मां महादेव कृपां कुरु जगत्पते
निशम्य वचनं तस्या भगवान् वृषभध्वजः ।निर्भरं रमणं चक्रे गाढं निर्द्दयमानस्रः
कृत्वा सम्पूर्णरमणं सती त्यक्तमैथुना ।उत्थानाय मनश्चक्रे उभयोस्तेज उत्तमम् ।पपात धरणीपृष्ठे तैर्व्याप्तमखिलं जगत्
पाताले भूतले स्वर्गे शिवलिङ्गास्तदाभवन् ।तेन भूता भविष्याश्च शिवलिङ्गाः सयोनयः
यत्र लिङ्गं तत्र योनिर्यत्र योनिस्ततः शिवः ।उभयोश्चैव तेजोभिः शिवलिङ्गं व्यजायत
”इति शिवलिङ्गोत्पत्तिकथनमिति नारदपञ्च-रात्रान्तर्गततृतीयरात्रे प्रथमाध्याये नारद-ब्रह्मसंवादः
*
शिवलिङ्गपूजायां सर्व्वेषा-मधिकारो यथा, --“शाक्तो वा वैष्णवो वापि सौरो वा गाणपोऽथवा ।शिवार्च्चनविहीनस्व कुतः सिद्धिर्भवेत् प्रिये
अनाराध्य मां देवि योऽर्च्चयेद्देवतान्तरम् ।न गृह्णाति महादेवि शापं दत्त्वा व्रजेत् पुरम्
पर्व्वताग्रसमं देवि मिष्टान्नादि क्रमेण हि ।फलानि बहुधान्येव पुष्पाण्येव यथाविधि
सुमेरुसदृशं चान्नं नानाविधं महेश्वरी ।सूपादिकं महेशानि यदि स्यात् सागरोपमम्
यद्दत्तं पुष्पनैवेद्यं सर्व्वं विष्ठासमं भवेत् ।शिवार्च्चनविहीनो यः पूजयेद्देवतान्तरम् ।विशेषतः कलियुगे नरः पापभाग्भवेत्
”इति उत्पत्तितन्त्रे ६४ पटलः
*
“सर्व्वपूजासु देवेशि ! लिङ्गपूजापरं पदम् ।लिङ्गपूजां विना देवि अन्यपूजां करोति यः
विफला तस्य पूजा स्यादन्ते नरकमाप्नुयात् ।तस्माल्लिङ्गं महेशानि प्रथमं परिपूजयेत्
यद्राज्यं लिङ्गपूजायां रहितं सततं प्रिये ।तद्राज्यं पतितं मन्ये विष्ठाभूमिसमं स्मृतत्
ब्रह्म विट् क्षत्त्रियो देवि यदि लिङ्गं पूजयेत् ।तत्क्षणात् परमेशानि त्रयश्चण्डालतामियुः ।शूद्रश्च परमेशानि सदा शूकरवद्भवेत्
शिवार्च्चनन्तु देवेशि यस्मिन् गेहे विवर्ज्जितम् ।विष्ठागर्त्तसमं देवि तत्गृहं विद्धि पार्व्वति ।अन्नं विष्ठा पयो मूत्रं तस्मिन् वेश्मनि पार्व्वति
शाक्तो वा वैष्णवो वापि शैवो वा परमेश्वरि ! ।आदौ लिङ्गं प्रपूज्याथ विल्वपत्रैर्व्वरानने !
पश्चादन्यं महेशानि ! लिङ्गं प्रार्थ्य प्रपूजयेत् ।अन्यथा मूत्रवत् सर्व्वं शिवपूजां विना प्रिये !
”इति लिङ्गार्च्चनतन्त्रे पटलः
उपक्रमोपसंहारादि यथा लिङ्गानि तुउपक्रमोपसंहारावभ्यासापूर्व्वताफलार्थवादोप-पत्याख्यानि तदुक्तम् ।“उपक्रमोपसंहारावभ्यासोऽपूर्व्वताफलम् ।अर्थवादोपपत्ती लिङ्गं तात्पर्य्यनिर्णये
”तत्र प्रकरणप्रतिपाद्यस्यार्थस्य तदाद्यन्तयोरुपा-दानं उपक्रमोपसंहारौ यथा छान्दोग्ये षष्ठेप्रपाठके प्रकरणप्रतिपाद्यस्याद्वितीयवस्तुनएकमेवाद्वितीयमित्यादौ ऐतदात्म्यमिदं सर्व्व-मित्यन्तेन प्रतिपादनम्
प्रकरणप्रति-पाद्यस्य वस्तुनः तन्मध्ये पौनःपुन्येन प्रतिपादनंअभ्यासः यथा तत्रैवाद्बितीयवस्तुनो मध्येतत्त्वमसीति नवकृत्वः प्रतिपादनम्
प्रक-रणप्रतिपाद्यस्य वस्तुनः प्रमाणान्तरेणाविषयी-करणं अपूर्व्वत्वम् यथा तत्रैवाद्वितीय-वस्तुनो मानान्तराविषयीकरणम्
फलन्तु ।प्रकरणप्रतिपाद्यस्यात्मज्ञानस्य तदनुष्ठानस्य वातत्र तत्र श्रूयमाणं प्रयोजनम् यथा तत्रैवआचार्य्यवान् पुरुषो वेद तस्य तावदेव चिरंयावन्न विमोक्षे अथ सम्पत्स्ये इत्यद्वितीयवस्तु-ज्ञानस्य तत्प्राप्तिप्रयोजनं श्रूयते
प्रकरण-प्रतिपाद्यस्य तत्र तत्र प्रशंसनं अर्थवादः यथातत्रैव उत तमादेशमप्राक्षो येनाश्रुतं श्रुतंभवत्यमतं मतमविज्ञातं विज्ञातमित्यद्वितीय-वस्तुप्रशंसनम्
प्रकरणप्रतिपाद्यार्थसाधनेतत्र तत्र श्रूयमाणा युक्तिः उपपत्तिः यथातत्र यथा सौम्यैकेन मृत्पिण्डेन सर्व्वं मृण्मयंविज्ञातं स्यात् वाचारम्भणं विकारो नामधेयंमृत्तिकेत्येव सत्यम् इत्यादावद्बितीयवस्तुसाधनेविकारस्य वाचारम्भणमात्रत्वे युक्तिः श्रूयते
इति श्रीपरमहंससदानन्दयोगीन्द्रविरचित-वेदान्तसारः
(पुराणविशेषः यथा, देवी-भागवते १० ।“एकादशसहस्राणि लिङ्गाख्यं चातिविस्तृतम्
”अस्यान्यद्बिवरणं पुराणशब्दे द्रष्टव्यम्
हेतुः ।यथा, तर्ककौमुद्याम् “लिङ्गज्ञानजन्यं लिङ्गि-ज्ञानमनुमितिः
“ज्ञायमानं लिङ्गन्तु करणं नहि ।” इति भाषापरिच्छेदः
सूक्ष्मशरीरम् ।यथा, पञ्चदश्याम् २३ ।“बुद्धिकर्म्मेन्द्रियप्राणपञ्चकैर्म्मनसा धिया ।शरीरं सप्तदशभिः सूक्ष्मं तल्लिङ्गमुच्यते
”)