| YouTube Channel

लिगि (ligi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
लिङ्ग्
मूलधातुः:
लिगि
धात्वर्थः:
गतौ
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
लिङ्गति
धातुः:
लिङ्ग्
मूलधातुः:
लिगि
धात्वर्थः:
चित्रीकरणे
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
लिङ्गयति-ते
धातुप्रदीपः
Sanskrit
लिगिँ लिगि चित्रीकरणे
- लिङ्गयति अन्यत्र लिङ्गति 206
क्षीरतरङ्गिणी
Sanskrit
लिगिँ लिगि चित्रीकरणे
- लिङ्गयति, उल्लिङ्गयति, लिङ्गम् भ्वादौ लिगि गत्यर्थः (191)-आलिङ्गति 209
धातुवृत्तिः
Sanskrit
लिगिँ लिगि (अर्थः) चित्रीकरणे
( लिङ्गयति लिङ्गति ) गतौ शपि लिङ्गति204
कृदन्तरूपमाला
Sanskrit
1 {@“लिगि गत्यर्थः”@} 2 ‘लिङ्गेर्गतौ लिङ्गति, लिङ्गयेद् इत्यस्यैव चित्रीकरणार्थवृत्तेः।।’ 3 इति देवः।
लिङ्गकः-ङ्गिका, लिङ्गकः-ङ्गिका, लिलिङ्गिषकः-षिका, लेलिङ्गकः-ङ्गिका
लिङ्गिता-त्री, लिङ्गयिता-त्री, लिलिङ्गिषिता-त्री, लेलिङ्गिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिककङ्कतिवत् 4 ऊह्यानि।
प्रासङ्गिक्यः
01
=>
(१४८६)
02
=>
(१-भ्वादिः-१५५-सक। सेट् पर।)
03
=>
(श्लो। ४५)
04
=>
(१४०)
1 {@“लिगि चित्रीकरणे”@} 2 ‘…लिङ्गयेद् इत्यस्यैव चित्रीकरणार्थवृत्तेः।।’ 3 इति देवः।
लिङ्गकः-ङ्गिका, लिलिङ्गयिषकः-षिका, लिङ्गकः-ङ्गिका, लिलिङ्गिषकः-षिका, लेलिङ्गकः-ङ्गिका
लिङ्गयिता-त्री, लिलिङ्गयिषिता-त्री, लिङ्गिता-त्री, लिलिङ्गिषिता-त्री, लेलिङ्गिता-त्री
लिङ्गयन्-न्ती, लिलिङ्गयिषन्-न्ती, लिङ्गयिष्यन्-न्ती-ती
लिलिङ्गयिषिष्यन्-न्ती-ती
इत्यादिकानि रूपाणि सर्वाण्यपि चौरादिकचिन्तयतिवत् 4 ज्ञेयानि।
इदित्करणात् णिचो वैकल्पिकत्वम् इति ज्ञेयम्।
आलिङ्गना 5।
प्रासङ्गिक्यः
01
=>
(१४८७)
02
=>
(१०-चुरादिः-१७४०। सक सेट्। उभ।)
03
=>
(श्लो। ४५)
04
=>
(५२३)
05
=>
[[आ। ‘सलीलमालिङ्गनयोपपीडम् अनामयं पृच्छति वासवः त्वाम्।’ नैषधे ६-७८।]]