| YouTube Channel

लिख (likha)

 
शब्दसागरः
English
लिख
m.
(-खः)
1. Writing.
2. A writer.
E.
लिख् to write,
aff.
Yates
English
लिख (खः) 1.
m.
Writing
writer.
Spoken Sanskrit
English
लिख - likha -
adj.
- scratching
लिख - likha -
adj.
- writer
लिख - likha -
adj.
- writing
काल-लिख - kAla-likha -
m.
- chronograph [ Phys. ]
हृत्स्पन्द - लिख - hRtspanda - likha -
m.
- cardiograph [ Physiol. ]
Wilson
English
लिख r. 6th cl. (लिखति) To write. r. 1st cl. (लेखति) To go.
लिख
m.
(-खः)
1 Writing.
2 A writer.
E.
लिख to write,
aff.
Monier Williams Cologne
English
लिख
mfn.
scratching, writing
a writer
&c.
,
Pāṇ.
iii, 1, 135.
Monier Williams 1872
English
लिख, अस्, आ, अम्, scratching, writing
a writer,
&c.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
लिख्
मूलधातुः:
लिख
धात्वर्थः:
अक्षरविन्यासे
गणः:
तुदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
लिखति
धातुप्रदीपः
Sanskrit
लिखँ लिख अक्षरविन्यासे
- लिखति लिलेख लेखिता अलेखीत् लिखित्वा लेखित्वा (15) हृल्लेखः लेखनम् लेखनी प्रायेण लेखकः लिखनं लिखिष्यति लिखितव्यमिति तु संज्ञापूर्वकोविधिरनित्य इति (प0, 94) गुणाभावं मन्यन्ते 84
शब्दकल्पद्रुमः
Sanskrit
लिख, सृपि इति कविकल्पद्रुमः
(भ्वा०-पर०-सक०-सेट् ।) इ, लिङ्ख्यते सृपि गतौ ।इति दुर्गादासः
लिख, लेखने इति कविकल्पद्रुमः
(तुदा०-पर०-सक०-सेट् ।) श, लिखति पुस्तकं लेखकः ।अयं विभाषया कुटादिरिति केचित् तेनलिखितं विश्वसृजोऽपि शक्तिहानिरिति ।लिखितव्यं लेखितव्यं लिखनं इत्यादि सिद्धम् ।इति दुर्गादासः
लिखः, त्रि, (लिखतीति लेख + “इगुपधज्ञेति ।”३ १३५ इति कः ।) लेखकः इतिलिखधातोः कप्रत्ययेन निष्पन्नम्
वाचस्पत्यम्
Sanskrit
लिख लेखने तुदा०
पर०
सक०
सेट् लिखति अलेखीत् ।कुटादिरप्ययम् तेन लिखनमिति सिद्धम्
लिख गतौ
भ्वा०
पर०
सक०
सेट् इदित् लिङ्खति अलिङ्खीत्
क्षीरतरङ्गिणी
Sanskrit
लिखँ लिख अक्षरविन्यासे
- लिखति आलेख्यम् पचादौ (गण0 31134) लेखः घञ्-लेखः, विलेखः भिदादौ (गण0 33104) लेखा 85
धातुवृत्तिः
Sanskrit
लिखँ लिख (अर्थः) अक्षरविन्यासे
( लिखतिलिलेख लेखिता लेखिष्यतिलिखतुअलिखत्लिखेत्)आशिषि (लिख्यात् अलेखीत् लिलिखिषति लिलेखिषति लिखित्वा लेखित्वा लिखितः लिखितवान् लेखनः लेखनी ) टित्त्वान् ङीप् ( रेखा, लेखा ) भिदादिपाठादङि गुणो लकारस्य वा रेफादेशः ( हृल्लेखः ) कर्मण्यण् "हृदयस्य हृल्लेख''इति हृद्भवः, लेख इत्यणन्तस्य ग्रहणाद्धञन्ते लेखशब्दे उत्तरपदे ( हृदयलेखः ) इति भवति अत्राण्ग्रहणादेवाणन्ते लेखशब्दे उत्तरपदे हृदयस्य हृद्भावे सिद्धे पुनर्लेखो ( 1 ) ( 1 ) शब्देत्यधिकं पुस्तुकान्तरे पादानम् "उत्तरपदाधिकारे प्रत्ययग्रहणपरिभाषा व्याप्रियत'इति ज्ञापनार्थं तु घञन्तस्यापि ग्रहणार्थमिति प्रागप्युक्तम् (दन्तलेखकः) "नित्यं क्रीडाजीविकयोः'' इति समासः अत्र के चित्, कुटादिभ्य इत्यत्र कुटस्यादिः, कुटआदिर्येषामित्येकशेषवृत्त्या बहुव्रीहितत्पुरुषयोर्द्वयोरप्याश्रयणात् लिखितुं विश्वसृजोऽपि शक्तिहानिः, स्वयमेव लिखष्यत इति समर्थयन्ते, तेषां लेखितेत्यादौ सव्रत्राऽञ्णित् प्रत्यये गुणाभावात् लिखितेत्यादि स्यात् तच्च "रलोव्युपधात्'' "ईश्वरेतो सुन्''इत्यत्र वृत्तौ (लेखित्वा लिखित्वा लिलेखिषति लिलिखिषति विलेखितुम् ) इति दर्शनाद्वा ( 2 ) ( 2 ) अपाच्चतुष्पाच्छकुनिष्वालेखने इति पुस्तकान्तरेऽधिकम् लेखने इति निर्देशाच्च नार्हम् हरदत्तश्च तत्पुरुषपक्षस्य दूषणत्वेन क्त्वासनोर्गुणदर्शनं "आलेखने'' इति निर्देशं चाह वर्द्धमानोऽप्यालेखन इति निर्देशात्तत्पुरषपक्षो दुष्ट इत्याह अत एव वृत्त्यादिविरोधात् [ संज्ञापूर्वको विधिरनित्यः ] इति लिखितेत्यादौ सर्वत्र कैश्चिद्गुणाभावस्य कथनमयुक्तम् किञ्च लिखितुं, स्वयमेव लिखिष्यतीति द्वावेव प्रयोगौ प्रस्तुत्य यद्यवश्यमुपपादनीयं [ संज्ञापूर्वको विधिरनित्यः ] इति हरदत्तेनाभिधानाच्च अत्रात्रेयः "अर्थवेदसत्यानामापुग्'' इति दीर्घोच्चारणादन्यत्रापि भवतीति केचिदिति तेन लिखमाचष्टे लिखापयतीति भवति 83
कृदन्तरूपमाला
Sanskrit
1 {@“लिख अक्षरविन्यासे”@} 2 इत्यत्र ‘कुटस्य आदिः कुटादिः, कुटादिश्च कुटादयश्च इति बहुव्रीहितत्पुरुषयोः सह विवक्षां कृत्वा--कुटादेः पूर्वं पठितस्य अस्यापि धातोः ङित्त्वमभ्युपगच्छन्ति।
पक्षोऽयं पदमञ्जर्यां दूषितः
‘अपाच्चतुष्पा- च्छकुनिष्वालेखने’ 3 इति निर्देशात् ‘रलो व्युपधात्--’ 4 इत्यत्र काशिकादिषु लिखित्वा--लेखित्वा लिलिखिषति-लिलेखिषति इत्युदाहरणात्, ‘ईश्वरे तोसुन्--’ 5 इत्यत्र ‘विलिखितुमित्यर्थः’ इति वृत्तौ विवरणात् समञ्जसोऽयं पक्ष इति।
वर्धमानप्रभृतयोऽपि एवमेवाहुरिति धातुवृत्त्यादिषु स्पष्टम्।
लिखितुम्, लिखिष्यते इत्यादि तु ‘संज्ञापूर्वको विधिरनित्यः’ 6 इति कथञ्चित् समर्थनीयम्।
एतेन ‘लिखन- संक्षेपनिर्बन्धवतो दीधितिकारस्य--’ इति गदाधरोक्तिरपि व्याख्याता।
बोपदेवव्याकरणे मुग्धबोधे तु कुटादित्वमेवास्यापि धातोरङ्गीकृतम्।]] लेखकः-खिका, लेखकः-खिका, लिलेखिषकः- 7 लिलिखिषकः-षिका, लेलिखकः-खिका
लेखिता-त्री, लेखयिता-त्री, लिलेखिषिता-लिलिखिषिता-त्री, लेलिखिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि तौदादिकिलतिवत् 8 ज्ञेयानि।
लेखः, विलेखनः 9 लेखनी, 10 हृल्लेखः, विलेखी- 11 व्यावलेखी, 12 लेखा-रेखा, 13 14 दन्तलेखकः इत्यादीनि रूपाण्यस्य धातोः विशेषेण भवन्तीति ज्ञेयम्।
15 लिखापयति।
प्रासङ्गिक्यः
01
=>
(१४८५)
02
=>
(६-तुदादिः-१३६५। सक। सेट्। पर। [[[अ] तुदादिष्वयं धातुः कुटादेः पूर्वं पठितः। ञित्णिद्भिन्नानां प्रत्ययानां ङिद्वद्भावः कुटादीनां विधीयते--कुटितुम्--कुटिता इत्यादिरूपसिद्धये। एवं ‘लिखितुं विश्वसृजोऽपि शक्तिहानिः’, ‘स्वयमेव लिखिष्यते’ इत्यादिषु गुणाभावोपपत्त्यर्थं ‘गाङ्कुटादिभ्यः--’ (१-२-१)
03
=>
(६-१-१४२)
04
=>
(१-२-२६)
05
=>
(३-४-१३)
06
=>
(परि। ९५)
07
=>
[[१। सन्नन्ते ‘रलो व्युपधात्--’ (१-२-२६) इति कित्त्वविकल्पनात् रूपद्वयमिति ज्ञेयम्।]]
08
=>
(१९३)
09
=>
[[२। ल्युडन्तात् स्त्रियां टित्त्वेन ङीपि रूपमेवम्।]]
10
=>
[[३। हृदयं लिखतीति हृल्लेखः। ‘कर्मण्यण्’ (३-२-१) इत्यणि ‘हृदयस्य हृल्लेख--’ (६-३-५०) इति हृदयशब्दस्य ‘हृत्’ इत्यादेशः।]]
11
=>
[[४। कर्मव्यतीहारे णचि, ‘णचस्स्त्रियाम्--’ (५-४-१४) इत्यञि ङीपि रूपमेवम्।]]
12
=>
[[५। भिदादि (३-३-१०४) पाठादङि रूपमेवम्। तत्रेव गणे पाठात् लकारस्य पाक्षिको रेफादेशश्च। तेन रेखा इत्यपि साधुः।]]
13
=>
[पृष्ठम्११६१+ २७]
14
=>
[[१। दन्तस्य लेखकः दन्तलेखकः। ‘नित्यं क्रीडाजीविकयोः’ (२-२-१७) इति षष्ठ्यन्तस्य दन्तशब्दस्य अकारान्तेन लेखकशब्देन तत्पुरुषसमासः। यस्य गजवराहादिदन्तेषु चित्रं विलिख्य तन्मूलिका जीविका तत्रैवायं--जीविकार्थे समास इति बोध्यम्।]]
15
=>
[[२। लिखम् आचष्टे लिखापयतीति निष्पाद्य, ‘अर्थवेदयोरप्यापुग्वक्तव्यः’ (वा। ३-१-२५) इत्यत्र ‘अपुक्’ इति ह्रस्वोच्चारणेनैव सिद्धौ दीर्घोच्चारणात् उपात्तभिन्नेष्वपि आपुग् भवतीति मत्वा अत्रापि आपुग् भवतीति आत्रेयमतं धातुवृत्तौ प्रतिपादितमि- हानुसन्धेयम्।]]
Burnouf
French
लिख लिख
m.
action d'écrire, écriture.
लिखन
n.
action d'écrire, écriture
chose écrite.
लिखित pp. de लिख्। -- S.
n.
un écrit
ce qui est écrit
un manuscrit.