| YouTube Channel

लावणं (lAvaNaM)

 
शब्दकल्पद्रुमः
Sanskrit
लावणं, त्रि, (लवण + अण् ।) लवणेन संस्कृतम् ।यथा, --“सार्पिष्कं दाधिकं सर्पिर्दधिभ्यां संस्कृतं क्रमात् ।लवणोदकाभ्यामुदकं लाषणिकमुदश्विति ।औदश्वितमौदश्वित्कं लवणे स्यात्तु लावणम्
”इति हेमचन्द्रः
लवणसम्बन्धि (यथा, हरिवंशे ५३ २० ।“स मां परिभवन्नेव स्वां वेलां समुपाक्रमन् ।क्लेदयामास चपलैर्लावणैरम्बुविस्रवैः
”)नस्ये, क्ली इति रत्नमाला