| YouTube Channel

लालायिता-त्री (lAlAyitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“ला आदाने”@} 2 ‘दाने’ इति चन्द्रः।
3 लायकः-यिका, 4 लापकः-पिका, 5 लालकः 6, लिलासकः-सिका, लालायकः-यिका
लाता-त्री, लापयिता-त्री, विलालयिता-7, लिलासिता-त्री, लालायिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि आदादिकरातिवत् 8 ऊह्यानि।
लालः, 9 लायः, लापः, 10 कृपालुः, स्पर्धालुः, 11 व्यालः, 12 छायालः, 13 14 बहुलम्, इमानि रूपाणि अस्य धातोः विशेषेण भवन्तीति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(१४७८)
02
=>
(२-अदादिः-१०५८ सक। अनि। पर।)
03
=>
[[३। ‘आतो युक्चिण्कृतोः’ (७-३-३३) इति आकारान्तस्याङ्गस्य युगागमे रूपमेवम्। एवं घञ्णमुल्प्रभृतिष्वपि ज्ञेयम्।]]
04
=>
[[४। ‘अत्तिह्री--’ (७-३-३६) इति पुगागमे रूपमेवम्। ण्यन्ते सर्वत्र एवमेव ऊह्यम्।]]
05
=>
[[५। ‘लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने’ (७-३-३९) इति णौ परतः स्नेहविपा- तनेऽर्थे पक्षे लुगागमे रूपमेवम्। स्नेहविपातनादन्यत्र पुगेव। स्नेहविपातनं नाम घनीपूतस्य स्नेहपदार्थस्य विलापनम्।]]
06
=>
[घृतस्य]
07
=>
[घृतम्]
08
=>
(१३९१)
09
=>
[पृष्ठम्११५८+ २९]
10
=>
[[१। कृपां लातीति वृत्तौ मितद्र्वादित्वात् (वा। ३-२-१८०) डप्रत्यये रूपमेवम्। कृप- यालुः इति तु कृपधातोरालुचि निष्पन्नं शब्दान्तरम्।]]
11
=>
[[आ। ‘स गान्दिनीभूरथ गोकुलैधितं स्पर्धालुधीगाधितकार्यबाधिनम्।’ धा। का। १। २।]]
12
=>
[[२। ‘आतश्चोपसर्गे’ (३-१-१३६) इति वि आङ् इति उपसर्गयोः उपपदयोः कप्रत्ययः।]]
13
=>
[[B। ‘अत्र स्थितं श्रान्तिजुषां मुनीनां छायालकृष्णाजिनपल्लवेन।’ या। अ। १८। ५७।]]
14
=>
[[३। बहूनर्थान् लातीति बहुलम्। ‘आतोऽनुपसर्गे कः’ (३-२-३) इति कर्मणि उपपदे कप्रत्ययः। अणोऽपवादः।]]