| YouTube Channel

लालसिता-त्री (lAlasitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“लस श्लेषणक्रीडनयोः”@} 2 “अयं शोभायां प्रसिद्धः” इति धा।
का।
व्याख्यायाम् 3।
‘लासयेत् शिल्पयोगेऽर्थे, श्लेषणे क्रीडने लसेत्।।’ 4 इति देवः।
लासकः-सिका, लासकः-सिका, लिलसिषकः-षिका, लालसकः-सिका
लसिता-त्री, लासयिता-त्री, लिलसिषिता-त्री, लालसिता-त्री
इत्यादिकानि रूपाणि सर्वाणि 5 भौवादिककसतिवत् 6 बोध्यानि।
7 अलसः-आलस्यम्, 8 विलासी, 9 हृल्लासः, 10 उल्लसन्-न्ती, लसिका, इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१४७५)
02
=>
(१-भ्वादिः-७१४। अक। सेट्। पर।)
03
=>
(१-८९)
04
=>
(श्लो। १९०)
05
=>
[प्रातिस्विकरूपाणि विना]
06
=>
(१८०)
07
=>
[[१। लसः--अलसः। तस्य भावः इत्यर्थे आलस्यम् इति रूपं भवति।]]
08
=>
[[२। विशब्द उपपदे ‘वौ कषलस--’ (३-२-१४३) इति घिनुण्प्रत्यये विलासी इति रूपम्।]]
09
=>
[[३। हृदयस्य लासः इति व्युत्पत्तौ ‘हृदयस्य हृल्लेखयदण्लासेषु’ (६-३-५०) इति हृदा- देशे रूपमेवम्। हृल्लासः = हिक्कारोगः।]]
10
=>
[[आ। ‘ज्वालाकणारुणरुचा निकरेण रेणोः शेषेण तेजस इवोल्लसना रराज।।’ शि। व। ५-५५।]]