| YouTube Channel

लाटकः-टिका (lATakaH-TikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“लट बाल्ये”@} 2 बाल्यम् = बालक्रिया।
लाटकः-टिका, लाटकः-टिका, लिलटिषकः-षिका, लालटकः-टिका
लटिता-त्री, लाटयिता-त्री, लिलटिषिता-त्री, लालटिता-त्री
इत्यादीनि रूपाणि सर्वाणि भौवादिककठतिवत् 3 ज्ञेयानि।
लटकः, 4 इति क्वन्प्रत्यये साधुः।
‘नेड् वशि कृति’ 5 इति इण्निषेधः।
‘सैषा महतो वंशस्तम्भात् लट्वाऽनुकृष्यते’ 6 इति भाष्ये ‘लट्वा = पक्षिविशेषः, फलविशेषो वा।’ इति नागेशः।
ग्रामचटकस्य नाम।]] लट्वा, इमौ रूपौ विशेषेण भवतः।
प्रासङ्गिक्यः
01
=>
(१४६३)
02
=>
(१-भ्वादिः-२९८। अक। सेट्। पर।)
03
=>
(१४८)
04
=>
[[२। ‘अशूप्रुषिप्लुषिलटि--’ [द। उ। ८-१२५]
05
=>
(७-२-८)
06
=>
(‘ऋलृक्’ इत्यत्र भाष्यम्)