| YouTube Channel

लाजाः (lAjAH)

 
Apte Hindi
Hindi
लाजाः
पुं*
ब* व* - -
"भुना हुआ, या तला हुआ धान"
अभिधानचिन्तामणिः
Sanskrit
--source--
पृथुकश्चिपिटस्तुल्यौ लाजाः स्युः पुनरक्षताः ४०१
-wordlist-
पृथुक (पुं), चिपिट (पुं), लाजाः (पुंस्त्रीब), अक्षत (पुंक्ली), अक्षताः (पुंब)
Tamil
Tamil
லாஜா: : பொரி.
शब्दकल्पद्रुमः
Sanskrit
लाजाः,
पुं,
भूम्नि, (लाञ्ज्यन्ते ये ते लाज् +घञ् ।) भृष्टधान्यम् लाओया इति खै इतिच भाषा (यथा, रामायणे ४३ १३ ।“कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ ।लाजेरवकरिष्यन्ति प्रविशन्तावरिन्दमौ
”)तत्पर्य्यायः अक्षतम् इत्यमरः ४७
लाजा अक्षताः इति भरतः
अस्यगुणाः तृष्णाच्छर्द्द्यतीसारप्रमेहमेदःकफनाशि-त्वम् कासपित्तोपशमनत्वम् अग्निकारित्वम् ।लघुत्वम् शीतलत्वञ्च अस्य मण्डगुणाः ।अग्निकारित्वम् दाहतृष्णाज्वरातीसारनाशि-त्वम् अशेषदोषामपाचनत्वञ्च
तस्य पेया-गुणाः क्षामकण्ठस्य श्रमघ्नत्वम् क्षुधातृष्णा-ग्लानिदौर्ब्बल्यकुक्षिरोगनाशित्वञ्च इति राज-वल्लभः
*
अपि ।“एते व्रीहयो भृष्टास्ते लाजा इतिसंज्ञिताः ।यवादयश्च ये भृष्टास्ते धानाः परिकीर्त्तिताः
लाजाश्च यवधानाश्च तर्पणाः पित्तनाशनाः ।गोधूमयावनालोत्थाः किञ्चिदुष्णाश्च दीपनाः
तृष्णातीसारशमनो धातुशाम्यकरः परः ।मन्दाग्निविषमाग्नीनां बालस्थविरयोषिताम् ।देयश्च सुकुमाराणां लाजमण्डः सुसंस्कृतः
”इति राजनिर्घण्टः
*
तस्य चूर्णगुणाः ।“द्राक्षादाडिमखर्ज्जूरमृदिताम्बुसशर्करम् ।लाजचूर्णं समध्वाज्यं सन्तर्पणमुदाहृतम्
”लाजचूर्णं द्राक्षादिजलशर्करामध्वाज्यसहितंतर्पणमुक्तमित्यर्थः लाजशक्तुगुणाश्च गुणग्रन्थे ।“लाजानां शक्तवः क्षौद्रसितायुक्ता विशेषतः ।छर्द्द्यतीसारतृड्दाहविषमूर्च्छाज्वरापहाः
”चरकश्च ।“तत्र तर्पणमेवादौ प्रदेयं लाजशक्तुभिः ।ज्वरापहैः फलरसैर्युक्तं समधुशर्करम्
”इति भावप्रकाशः