| YouTube Channel

लाजयिता-त्री (lAjayitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“लज भर्त्सने”@} 2 ‘-- भर्जने’ इति मा।
धा।
वृत्तिः।
पुरुषकारोऽप्यत्र अनुकूलः।
‘भर्जने चेति लीलाशुकः’ इति धा।
का।
१-३२। ‘लञ्जेत् लाञ्जेत् लजेत् लाजेत् इत्येते भर्त्सने शपि।’ 3 इति देवः।
लाजकः-जिका, लाजकः-जिका, लिलजिषकः-षिका, लालजकः-जिका
लजिता-त्री, लाजयिता-त्री, लिलजिषिता-त्री, लालजिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकखदतिवत् 4 बोध्यानि।
‘लजु--’ 5 इत्यपि शाकटायनः।
तन्मते क्त्वायां इड्विकल्पात् लजित्वा-लक्त्वा इति रूपद्वयमिति विशेषः।
यदा तु भर्जनार्थकत्वम्, तदानीं संज्ञायां घञि लाजाः इति भवति।
‘लाजाः पुंभूम्नि चाक्षताः’ 6 इत्यनुशासनात् नित्यं बहुवचनान्तत्वं इति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(१४५६)
02
=>
(१-भ्वादिः-२३८। सक। सेट्। पर।)
03
=>
(श्लो। ६९)
04
=>
(३३८)
05
=>
[पृष्ठम्११४८+ २६]
06
=>
(अमरः २-९-४७)
1 {@“लज अपवारणे”@} 2 3 ‘जल--’ इति नन्दिसम्मताकारयोः पाठ इति क्षीरतरङ्गिणी-माधवधा- तुवृत्तितो ज्ञायते।
चान्द्रा अपि ‘जल--’ इत्येव पठन्तीति क्षीर- स्वामी।]] ‘प्रकाशे लजयेद् व्रीडे लज्जते लजते पदे।।’ 4 इति देवः।
लाजकः-जिका, लिलाजयिषकः-षिका, लाजयिता-त्री, लिलाजयिषिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि चौरादिकचाटयतिवत् 5 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१४५७)
02
=>
(१०-चुरादिः-१५४३। सक। सेट्। उभ।)
03
=>
[[[अ]
04
=>
(श्लो। ६८)
05
=>
(४८८)
1 {@“ओ लजी व्रीडायाम्”@} 2 ‘प्रकाशे लजयेद् व्रीळे3लज्जते लजते पदे।।’ 4 इति देवः।
“अयं तवर्गपञ्चमादिः इति चान्द्राः” इति मा।
धा।
वृत्तिः।
लाजकः-जिका, लाजकः-जिका, लिलजिषकः-षिका, लालजकः-जिका
लजिता-त्री, लाजयिता-त्री, लिलजिषिता-त्री, लालजिता-त्री
-- लाजयन्-न्ती, लाजयिष्यन्-न्ती-ती
-- -- लजमानः, लाजयमानः, लिलजिषमाणः, लालज्यमानः
लजिष्यमाणः, लाजयिष्यमाणः, लिलजिषिष्यमाणः, लालजिष्यमाणः
लक्-लजौ-लजः
-- -- -- 5 6 लग्नम्-लग्नः-लग्नवान्, लाजितः, लिलजिषितः, लालजितः-तवान्
लजः, लाजः, लिलजिषुः, लालजः
लजितव्यम्, लाजयितव्यम्, लिलजिषितव्यम्, लालजितव्यम्
लजनीयम्, लाजनीयम्, लिलजिषणीयम्, लालजनीयम्
लाज्यम्, लाज्यम्, लिलजिष्यम्, लालज्यम्
ईषल्लजः-दुर्लजः-सुलजः
-- -- लज्यमानः, लाज्यमानः, लिलजिष्यमाणः, लालज्यमानः
लाजः, लाजः, लिलजिषः, लालजः
लजितुम्, लाजयितुम्, लिलजिषितुम्, लालजितुम्
लक्तिः, लाजना, लिलजिषा, लालजा
लजनम्, लाजनम्, लिलजिषणम्, लालजनम्
प्रलज्य, प्रलाज्य, प्रलिलजिष्य, प्रलालज्य
लाजम् २, लजित्वा २, लाजम् २, लाजयित्वा २, लिलजिषम् २, लिलजिषित्वा २, लालजम्
लालजित्वा २।
प्रासङ्गिक्यः
01
=>
(१४६२)
02
=>
(६-तुदादिः-१२९०। अक। सेट्। आत्म।)
03
=>
[डे]
04
=>
(श्लो। ६८)
05
=>
[पृष्ठम्११५०+ २५]
06
=>
[[१। ईदित्त्वान्निष्ठायामिण्निषेधे, ओदित्त्वात् निष्ठानत्वे कुत्वे रूपमेवम्।]]
1 {@“लाज भर्त्सने च”@} 2 ‘लञ्जेत् लाञ्जेत् लजेल्लाजेदित्येते भर्त्सने शपि।’ 3 इति देवः।
चकारो भिन्नक्रमः।
तेन पूर्वधात्वर्थं भर्जनमपि संगृह्णाति इति मैत्रेयरक्षितः।
‘भ4? र्त्सनग्रहणं भर्जनस्यापि काममुपलक्षणम्’ इति पुरुषकारः।
‘भर्जने च’ इति क्षीरस्वामी।
शाकटायनोऽप्यत्रैवानुकूलः।
लाजकः-जिका, लाजकः-जिका, लिलाजिषकः-षिका, लालाजकः-जिका
लाजिता-त्री, लाजयिता-त्री, लिलाजिषिता-त्री, लालाजिता-त्री
इत्यादिकानि समस्तान्यपि रूपाणि भौवादिककासतिवत् 5 बोध्यानि।
6 लाजः इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१४८२)
02
=>
(१-भ्वादिः-२४०। सक। सेट्। पर।)
03
=>
(श्लो। ६९)
04
=>
[र्ज]
05
=>
(१८८)
06
=>
[[१। अजादौ प्रत्यये ‘अजिव्रज्योश्च’ (७-३-६०) इत्यत्र चकारात् कुत्वाभावः इति क्षीरस्वामी। लाजाः इति नित्यबहुवचनान्तत्वमभिप्रयन्ति। वस्तुतः धातोरस्य निष्ठायां सेट्त्वात्, निष्ठायामनिट एव धातोः कुत्वविधानात् कुत्वस्यैवाप्रसक्तेश्चि- न्त्यमिदम्।]]