| YouTube Channel

लाङ्गूलं (lAGgUlaM)

 
शब्दकल्पद्रुमः
Sanskrit
लाङ्गूलं,
क्ली,
(लङ्ग + “खर्जिपिञ्जाद्यिभ्य ऊरो-लचौ ।” उणा० ९० इति ऊलच् ।बाहुलकात् वृद्धिश्च ।) पशुपश्चाद्वर्त्तिलम्बमान-लोमाग्रावयवविशेषः ल्याज इति भाषा ।तत्पर्य्यायः पुच्छम् लूम वालहस्तः ४बालधिः इत्यमरः
लङ्गूलम् लाङ्गुलम् ७लुलामः अवालः इति शब्दरत्नावली
लञ्जः १० पिच्छः ११ बालः १२ इति जटा-धरः
(यथा, कुमारे १३ ।“लाङ्गूलविक्षेपविसर्पिशोभै-रितस्ततश्चन्द्रमरीचिगौरैः ।यस्यार्थयुक्तं गिरिराजशब्दंकुर्ब्बन्ति बालव्यजनैश्चमर्य्यः
”)गोलाङ्गूलजलमाहात्म्यं यथा, --“लाङ्गूलेनोद्धृतं तोयं मूर्द्ध्ना गृह्णाति यो नरः ।सर्व्वतीर्थफलं प्राप्य सर्व्वपापैः प्रमुच्यते
”इति वाराहपुराणम्
शेफः इति मेदिनी ले, १२७
कुशूलः इतिसिद्धान्तकौमुद्यामुणादिवृत्तिः