| YouTube Channel

लाक्षादितैल (lAkSAditaila)

 
वाचस्पत्यम्
Sanskrit
लाक्षादितैल
न०
लाक्षादिभिः पक्वं तैलम् शा० त० वैद्यकप्र-सिद्धे तैलभेदे तच्च द्विविधं स्वल्पं वृहच्चेतिभेदात् तत्र स्वल्पंयथा “लाक्षा हरिद्रा मञ्जिष्ठाकल्कैस्तैलं विपाचितम् ।तद्गुणेनारनालेन दाहशीतज्वरापहम्” वृहत् यथा“लाक्षारसाढके प्रस्थं तैलस्य विपचेत् भिषक् मस्त्वा-ढकसमायुक्तं पिष्ट्वा चात्र समावपेत् शतपुष्पांहरिद्राञ्च मूर्वां कुष्ठं हरेणुकाम् कटुकां मधुकांरास्नामश्वगन्धाञ्च दारु मुस्तकं चन्दनं चैव पृथगक्ष-समानकैः द्रव्यैरेतैश्च संसिद्धमभ्यङ्गात् मारुतापहम् ।विषमाख्यान् ज्वरान् सर्वानाश्वेवं प्रशमं नयेत् कासंश्वासं प्रतिश्यायं कण्डूं दौर्गन्ध्यगौरवम् त्रिकपृष्ठ-ग्रहं शूलं गात्राणां स्फुटनं तथा पापालक्ष्मीप्रशमनंसर्वग्रहनिवारणम् अश्विभ्यां निर्मितं सम्यक् तैलंलाक्षादिकं महत्” मुखबोधः