| YouTube Channel

लाक्षातैल (lAkSAtaila)

 
Monier Williams Cologne
English
लाक्षा—तैल
n.
a particular medicinal oil,
L.
शब्दकल्पद्रुमः
Sanskrit
लाक्षातैलं
क्ली,
(लाक्षादिभिः पक्वं तैलम् ।)पक्वतैलविशेषः लाक्षादितैलमिति ख्यातम् ।तद्द्विविधं स्वल्पं बृहच्च यथाक्रमं तत्प्रकारंतद्गुणञ्चाह ।“लाक्षाहरिद्रामञ्जिष्ठाकल्कैस्तैलं विपाचितम् ।सद्गुणेनारनालेन दाहशीतज्वरापहम्
”इति स्वल्पलाक्षातैलम्
बृहद्यथा, --“लाक्षारसाढके प्रस्थं तैलस्य विपचेद्भिषक् ।मस्त्वाढकसमायुक्तं पिष्ट्वा चात्र समावपेत्
शतपुष्पां हरिद्राञ्च मूर्व्वां कुष्ठं हरेणुकाम् ।कटुकां मधुकां रास्नामश्वगन्धाञ्च दारु
मुस्तकं चन्दनञ्चैव पृथगक्षसमानकैः ।द्रव्यैरेतैश्च तत् सिद्धं अभ्यङ्गान्मारुतापहम्
विषमाख्यान् ज्वरान् सर्व्वानाश्वेव प्रशमंनयेत् ।कासं श्वासं प्रतिश्यायं कण्डूं दौर्गन्ध्यगौरवम्
त्रिकपृष्ठग्रहं शूलं गात्राणां स्फुटनन्तथा ।पापालक्ष्मीप्रशमनं सर्व्वग्रहनिवारणम् ।अश्विभ्यां निर्म्मितं सम्यक् तैलं लाक्षादिकंमहत
”इति बृहल्लाक्षातैलम् इति मुखबोधः