| YouTube Channel

लष्यमाणः (laSyamANaH)

 
Kridanta Forms
Sanskrit
लष् (ल꣡षँ॑ कान्तौ - भ्वादिः - सेट्)
ल्युट् = लषणम्
अनीयर् = लषणीयः - लषणीया
ण्वुल् = लाषकः - लाषिका
तुमुँन् = लषितुम्
तव्य = लषितव्यः - लषितव्या
तृच् = लषिता - लषित्री
क्त्वा = लषित्वा
ल्यप् = प्रलष्य
क्तवतुँ = लषितवान् - लषितवती
क्त = लषितः - लषिता
शतृँ = लष्यन् / लषन् - लष्यन्ती / लषन्ती
शानच् = लष्यमाणः / लषमाणः - लष्यमाणा / लषमाणा
कृदन्तरूपमाला
Sanskrit
1 {@“लष कान्तौ”@} 2 ‘कान्तौ लष्यति लष्येत श्यनि वा लषते लषेत्।।’ 3 इति देवः।
कान्तिः = इच्छा।
लाषकः-षिका, लाषकः-षिका, लिलषिषकः-षिका, लालषकः-षिका
लषिता-त्री, लाषयिता-त्री, लिलषिषिता-त्री, लालषिता-त्री
4 लष्यन् 5 -लषन्-न्ती, लाषयन्-न्ती, लिलषिषन्-न्ती
-- लषिष्यन्-न्ती, लाषयिष्यन्-न्ती-ती, लिलषिषिष्यन्-न्ती-ती
-- लषमाणः, लष्यमाणः, लाषयमाणः, लिलषिषमाणः, लालष्यमाणः
लषिष्यमाणः, लाषयिष्यमाणः, लिलषिषिष्यमाणः, लालषिष्यमाणः
इत्यादीनि रूपाणि सर्वाणि भौवादिककाशतिवत् 6 बोध्यानि।
7 अभि- लाषुकः, 8 9 लषणः, विलाषी 10 11 अपलाषिणः, 12 लशुनम्, लिष्वः 13
इमानि रूपाण्यधिकान्यत्रेति विशेषः।
14
प्रासङ्गिक्यः
01
=>
(१४७४)
02
=>
(१-भ्वादिः-८८८। अक। सेट्। उभ।)
03
=>
(श्लो। १७७)
04
=>
[[३। शतरि ‘वा भ्राशभ्लाशभ्रमुक्लमुत्रसित्रुटिलषः’ (३-१-७०) इति श्यन् विकल्पेन भवति। तेन रूपद्वयम्।]]
05
=>
[[B। ‘मानुषानभिलष्यन्ती रोचिष्णुर्दिव्यधर्मिणी।’ भ। का। ४-२२।]]
06
=>
(१८६)
07
=>
[[C। ‘रभसादुदस्थुरथ युद्धमनुचितभियोऽभिलाषुकाः।’ शि। व। १५-५९।]]
08
=>
[[४। ‘लषपतपद--’ (३-२-१५४) इत्यादिना तच्छीलादिषु कर्तृषु उकञ्प्रत्यये एवं रूपम्।]]
09
=>
[[५। ‘जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलष--’ (३-२-१५०) इति तच्छीलादिषु कर्तृषु युच्प्रत्यये रूपमेवम्।]]
10
=>
[[६। ‘वि, अप’ इत्युपसर्गयोः उपपदयोः ‘अपे लषः’ (३-२-१४४) इति घिनुण् प्रत्यये रूपमेवम्।]]
11
=>
[[ड्। ‘प्रलापिनो भबिष्यन्ति कदा न्वेतेऽपलाषिणः।’ भ। का। ७-१२।]]
12
=>
[[७। ‘लषेः च’ (द। उ। ५-५४) इति उनन्प्रत्ययो भवति। शश्चान्तादेशः। लशुनम् = पलाण्डुजातिः।]]
13
=>
[[८। औणादिके (द। उ। ८-१२७) वन्प्रत्यये, उपधाया इत्वं निपात्यतेऽगुणत्वं च। तेन लिष्वः इति रूपम्। कान्तिरित्यर्थः।]]
14
=>
[पृष्ठम्११५६+ २८]