| YouTube Channel

लष (laSa)

 
Wilson
English
लष r. 1st and 4th cls. (लषति-त or -लष्यति-ते) To desire, to
like, to love. (अभि is usually prefixed.) r. 10th cl. (लाषयति) To be
skilful.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
लष्
मूलधातुः:
लष
धात्वर्थः:
कान्तौ (इच्छा)
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
लषति-ते, लष्यति-ते
अनुबन्धादिविशेषः:
श्यन् वा
धातुप्रदीपः
Sanskrit
लषँ लष कान्तौ
- लषति लषते ।अभिलष्यति अभिलष्यते देवदत्तः ललाष लेषे अपलाषी-अपे लषः (7/2/114) इति घिनुण् अभिलाषः ।। 892 ।।
शब्दकल्पद्रुमः
Sanskrit
लष, शिल्पयोगे इति कविकल्पद्रुमः
(चुरा०-पर०-अक०-सेट् ।) क, लाषयतिकुशलो नृत्ये शिल्पं युनक्तीत्यर्थः इति दुर्गा-दासः
लष, स्पृहि इति कविकल्पद्रुमः
(भ्वा०-उभ०-सक०-सेट् ।) ञ, लषति लषते इतिदुर्गादासः
लष, स्पृहि इति कविकल्पद्रुमः
(दिवा०-उभ०-सक०-सेट् ।) ञ, लष्यति लष्यते ।इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
लश(ष)(स) शिल्पयोगे
चु०
उभ०
अक० सेट् लाश(ष)(स)यतिते अलोलश(ष)(स)त्
लष स्पृहायां दिवा०
भ्वा०
उम०
सक०
सट् लव्यति--तेलषति ते अलषीत् अलाषीत् अलषिष्ट ललाष लेषे
क्षीरतरङ्गिणी
Sanskrit
लषँ लष कान्तौ
- (अर्थविवरणम्) कान्तिरिच्छा वा
भ्राशभ्लाश (3170) इति वा श्यन्-अभिलष्यते, अभिलषते, अभिलष्यति अभिलषति जुचङ्क्रम्य (32154) इत्युकञ्- अभिलाषुकः लषेः (दश0 उ0 554) इत्युनन् लशुनम् 859
लषँ लष शिल्पोपयोगे
- लाषयति भ्रमादिना तक्ष्णोतीत्यर्थः अन्यत्र लषति, लष्यति (1627) तालव्यान्त इति कौशिकः लाशयति 194
धातुवृत्तिः
Sanskrit
लषँ लष (अर्थः) कान्तौ
( कान्तिरिच्छा लषति लषति अलषीत् अलाषीत् लिलषिषति लालष्यते लालष्टि लाषयति अलीलषत् लषते लेषे ) इत्यादि "वा भ्राश'' इत्यादिना शब्विषये वा श्यनि ( लष्यति, लष्यते लषणः ) "जुचङ्कम्य'' इत्यादिना युच् ( लाषुकः ) "लषपत'' इत्यादिनोकञ् ( विलाषी "अपे लषः'' इति घिनुण् चशब्दाद्वौ त्रयोपि ताच्छीलिकाः 873
कृदन्तरूपमाला
Sanskrit
1 {@“लष कान्तौ”@} 2 ‘कान्तौ लष्यति लष्येत श्यनि वा लषते लषेत्।।’ 3 इति देवः।
कान्तिः = इच्छा।
लाषकः-षिका, लाषकः-षिका, लिलषिषकः-षिका, लालषकः-षिका
लषिता-त्री, लाषयिता-त्री, लिलषिषिता-त्री, लालषिता-त्री
4 लष्यन् 5 -लषन्-न्ती, लाषयन्-न्ती, लिलषिषन्-न्ती
-- लषिष्यन्-न्ती, लाषयिष्यन्-न्ती-ती, लिलषिषिष्यन्-न्ती-ती
-- लषमाणः, लष्यमाणः, लाषयमाणः, लिलषिषमाणः, लालष्यमाणः
लषिष्यमाणः, लाषयिष्यमाणः, लिलषिषिष्यमाणः, लालषिष्यमाणः
इत्यादीनि रूपाणि सर्वाणि भौवादिककाशतिवत् 6 बोध्यानि।
7 अभि- लाषुकः, 8 9 लषणः, विलाषी 10 11 अपलाषिणः, 12 लशुनम्, लिष्वः 13
इमानि रूपाण्यधिकान्यत्रेति विशेषः।
14
प्रासङ्गिक्यः
01
=>
(१४७४)
02
=>
(१-भ्वादिः-८८८। अक। सेट्। उभ।)
03
=>
(श्लो। १७७)
04
=>
[[३। शतरि ‘वा भ्राशभ्लाशभ्रमुक्लमुत्रसित्रुटिलषः’ (३-१-७०) इति श्यन् विकल्पेन भवति। तेन रूपद्वयम्।]]
05
=>
[[B। ‘मानुषानभिलष्यन्ती रोचिष्णुर्दिव्यधर्मिणी।’ भ। का। ४-२२।]]
06
=>
(१८६)
07
=>
[[C। ‘रभसादुदस्थुरथ युद्धमनुचितभियोऽभिलाषुकाः।’ शि। व। १५-५९।]]
08
=>
[[४। ‘लषपतपद--’ (३-२-१५४) इत्यादिना तच्छीलादिषु कर्तृषु उकञ्प्रत्यये एवं रूपम्।]]
09
=>
[[५। ‘जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलष--’ (३-२-१५०) इति तच्छीलादिषु कर्तृषु युच्प्रत्यये रूपमेवम्।]]
10
=>
[[६। ‘वि, अप’ इत्युपसर्गयोः उपपदयोः ‘अपे लषः’ (३-२-१४४) इति घिनुण् प्रत्यये रूपमेवम्।]]
11
=>
[[ड्। ‘प्रलापिनो भबिष्यन्ति कदा न्वेतेऽपलाषिणः।’ भ। का। ७-१२।]]
12
=>
[[७। ‘लषेः च’ (द। उ। ५-५४) इति उनन्प्रत्ययो भवति। शश्चान्तादेशः। लशुनम् = पलाण्डुजातिः।]]
13
=>
[[८। औणादिके (द। उ। ८-१२७) वन्प्रत्यये, उपधाया इत्वं निपात्यतेऽगुणत्वं च। तेन लिष्वः इति रूपम्। कान्तिरित्यर्थः।]]
14
=>
[पृष्ठम्११५६+ २८]