लशुनं (lazunaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritलशुनं, (अश्यते भुज्यते इति । अश् +“अशेर्लश च ।” उणा० ३ । ५७ इति उनन् ।लशादेशश्च धातोः ।) रसुनः । तत्पर्य्यायः ।महौषधम् २ गृञ्जनः ३ अरिष्टः ४ महा-कन्दः ५ रसोनकः ६ । इत्यमरः ॥
रसोनः ७म्लेच्छकन्दः ८ भूतघ्नः ९ उग्रगन्धः १० । अस्यगुणाः । अम्लरसेन ऊनत्वम् । गुरुत्वम् ।उष्णत्वम् । कफवातनाशित्वम् । अशुचित्वम् ।क्रिमिहृद्रोगशोफघ्नत्वम् । रसायनत्वञ्च । इतिराजनिर्घण्टः ॥
* ॥
अपि च ।“लशुनस्तु रसोनः स्यादुग्रगन्धो महौषधम् ।अरिष्टो म्लेच्छकन्दश्च यवनेष्टो रसोनकः ॥
यदामृतं वैनतेयो जहार सुरसत्तमात् ।तदा ततोऽपतद्विन्दुः सुरसोनोऽपतद्भुवि ॥
पञ्चभिश्च रसैर्युक्तो रसेनाम्लेन वर्ज्जितः ।तस्माद्रसोन इत्युक्तो द्रव्याणां गुणवेदिभिः ॥
कटुकश्चापि मूलेषु तिक्तः पत्रेषु संस्थितः ।नाले कषाय उद्दिष्टो नालाग्रे लवणः स्मृतः ॥
बीजे तु मधुरः प्रोक्तो रसस्तद्गुणवेदिभिः ।रसोनो बृंहणो वृष्यो स्निग्धोष्णः पाचनःसरः ॥
रसे पाके च कटुकस्तीक्ष्णो मधुरको मतः ।भग्नसन्धानकृत् कण्ठ्यो गुरुः पित्तास्रवृद्धिदः ।बलवर्णकरो मेधाहितो नेत्र्यो रसायनः ॥
हृद्रोगजीर्णज्वरकुक्षिशूलंविबन्धगुल्मारुचिकासशोफान् ।दुर्नामकुष्ठानलसादजन्तु-समीरणश्वासकफांश्च हन्ति ॥
मद्यं मांसं तथाम्लञ्च हितं लशुनसेविनाम् ॥
व्यायाममातपं रोषमतिनीरं पयो गुडम् ।रसोनमश्नन् पुरुषस्त्यजेदेतन्निरन्तरम् ॥
”इति भावप्रकाशः ॥
* ॥
अन्यच्च ।“लशुनः क्षारमधुरः कण्ठ्यो वृष्यो गुरुः सरः ।भग्नसन्धानकृद्बल्यो रक्तपित्तप्रदूषणः ॥
”इति राजवल्लभः ॥
(तथाचास्य गुणादिविषयो यथा, --“कट्वम्लवीर्य्यो लशुनो हितश्चस्निग्धो गुरुः स्वादुरसोऽथ बल्यः ।वृद्धस्य मेधास्वरवर्णचक्षु-र्भग्नास्थिसन्धानकरः सुतीक्षणः ॥
हृद्रोगजीर्णज्वरकुक्षिशूल-प्रमेहहिक्कारुचिगुल्मशोफान् ।दुर्नामकुष्ठानलमान्द्यजन्तु-समीरणं श्वासकफान्निहन्ति ॥
”इति हारीते कल्पस्थाने तृतीयाध्याये ॥
“शीतवातहिमदग्धतनूनांस्तब्धभुग्नकुटिलव्यथितास्थ्नाम् ।भेषजस्य पवनोपहतानांवक्ष्यते विधिरतो लशुनस्य ॥
”“शीलयेल्लशुनं शीते वसन्तेऽपि कफोल्वणः ।घनोदयेऽपि वातार्त्तः सदा वा ग्रीष्मलीलया ॥
”इति वाग्भटे उत्तरस्थाने ३९ अध्यायः ॥
“क्रिमिकुष्ठकिलासघ्नो वातघ्नो गुल्मनाशनः ।स्निग्धश्चोष्णश्च वृष्यश्च लशुनः कटुको गुरुः ॥
”इति चरके सूत्रस्थाने २७ अध्यायः ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
