| YouTube Channel

लवणः (lavaNaH)

 
Apte Hindi
Hindi
लवणः
पुं*
- -
खारी स्वाद
लवणः
पुं*
- -
नमकीन पानी का समुद्र
लवणः
पुं*
- -
"एक राक्षस का नाम, मधु का पुत्र, "
लवणः
पुं*
- -
एक नरक का नाम
लवणः
पुं*
- "लू+ल्यूट्, पृषो*णत्वम्"
नमकींन स्वाद
लवणः
पुं*
- "लू+ल्यूट्, पृषो*णत्वम्"
एक राक्षस का नाम
लवणः
पुं*
- "लू+ल्यूट्, पृषो*णत्वम्"
एक नरक का नाम
Wordnet
Sanskrit
Synonyms:
कोपलता, अर्धचन्द्रिका, अनलप्रभा, कटभी, कनकप्रभा, कुकुन्दनी, कैडर्यः, गीर्लता, ज्योतिष्का, ज्योतिर्लता, तीक्तका, तीक्ष्णा, दीप्तः, निफला, पण्या, परापतपदी, पीततैला, पिण्या, पूतितैला, बहुरसा, मतिदा, लगणा, लता, लतापुटकी, लवणः, वायसादनी, शृङ्गिन्, श्लेष्मघ्नी, सरस्वती, सुपिङ्गला, सुवेगा, सुवर्णलता, स्वर्णलता, सुमेधस्, स्फुटवल्कली, स्फुटरङ्गिणी
noun
एका लता।
"कोपलता ओषध्यां प्रयुज्यते।"
Synonyms:
लवणासुरः, लवणः
noun
मधुनामकस्य दैत्यस्य पुत्रः।
"शत्रुघ्नः लवणासुरं जघान।"
Synonyms:
लवणः
noun
एकः राजा
"लवणः हरिश्चन्द्रस्य कुले अजायत्"
Synonyms:
लवणः
noun
एकः नरकः
"लवणस्य उल्लेखः विष्णुपुराणे वर्तते"
Synonyms:
कटभी, अनलप्रभा, कुकुन्दनी, पारापतपदी, पीततैला, कनकप्रभा, गीर्लता, ज्योतिर्लता, ज्योतिष्का, तेजस्विनी, तेजोह्वा, तिक्तका, निफला, पण्या, पारावतपदी, पिण्या, पूतितैला, बहुरसा, लगणा, नगणा, लता, लतापुटकी, लवणकिंशुका, श्लेष्मघ्नी, सारस्वती, सुपिङ्गला, स्फुटरङ्गिणी, स्फुटवल्कली, सुमेधा, सुवर्णलता, सुवेगा, स्वर्णलता, दीप्तः, लवणः, शृङ्गी, नग्नः
noun
क्षुपविशेषः
"कटभ्याः वर्णनं सुश्रुतेन कृतम्"
शब्दकल्पद्रुमः
Sanskrit
लवणः,
पुं,
(लुनातीति लू + ल्युः ।) सिन्धु-भेदः (यथा, महाभारते १५ ।“लवणेन समुद्रेण समन्तात् परिबारितः
”)राक्षसविशेषः रसविशेषः इति मेदिनी ।णे, ७४
(यथा, भागवते ३१ ।“कटुतीक्ष्णोष्णलवणक्षाराम्लादिभिरुल्वणैः ।मातृभुक्तैरुपस्पृष्टः सर्व्वाङ्गोत्थितवेदनः
”)पृथिव्यग्निगुणबाहुल्याल्लवणः इति चक्रपाणि-दत्तकृतद्रव्यगुणोपरि शिवदासीयटीका
तत्-पर्य्यायः पटुः तस्य गुणाः ।“लवणो रुचिकृद्रसोऽग्निदायीपचनः स्वादुकरश्च सारकश्च ।रसितो नितरां जराञ्च पित्तंशितिमानञ्च ददात्रि कुष्ठकारी
”इति राजनिर्घण्टः
अपि ।“लवणः क्लेदनस्तीक्ष्णः पाचनो दीपनः सरः ।स्निग्धो रुचिकरः स्यन्दी दृष्टिशुक्रहरो लघुः
”अन्यच्च ।“लवणः शोधनो रुच्यः पाचनः कफपित्तदः ।पुंस्त्ववातहरः कायशैथिल्यमृदुताकरः ।सोऽतियुक्तोऽक्षिपाकास्रपित्तकुष्ठक्षयापकृत्
”इति राजवल्लभः
*
(“लवणः स्यन्दयत्यास्यं कपोलगलदाहकृत् ।”“लवणः स्तम्भसङ्घातबन्धविध्मापनोऽग्निकृत्
स्नेहनः स्वेदनस्तीक्ष्णो रोचनश्छेदभेदकृत् ।सोऽतियुक्तोऽस्रवपनं खलतिं पलितं वलिम्
तृट्कुष्ठविषवीसर्पान् जनयेत् क्षपयेद्बलम्
”इति वाग्भटे सूत्रस्थाने दशमेऽध्याये
“लवणो रसः पाचनः क्लेदनः दीपनः च्यावनःछेदनः भेदनस्तीक्ष्णः सरो विकास्यधःस्रं स्यव-काशकरो वातहरः स्तम्भबन्धसङ्घातविधमनःसर्व्वरसप्रत्यनीकभूत आस्यं विस्रावयति कफंविस्यन्दयति मार्गान् शोधयति सर्व्वशरीरा-वयवान् मृदूकरोति रोचयत्याहारमाहार-योगी नात्यर्थगुरुः स्निग्ध उष्णश्च ।स एवं गुणोऽप्येक एवात्यर्थमुपयुज्यमानःपित्तं कोपयति रक्तं वर्द्धयति तर्पयति मूर्च्छ-यति तापयति दाहयति कुष्णाति मांसानिप्रगालयति कुष्ठानि विषं वर्द्धयति शोफान्स्फोटयति दन्तान् श्यावयति पुंस्त्वमुपहन्तिइन्द्रियाण्युपरुणद्धि वलीपलित्यखालित्यमापा-दयति लोहितपित्ताम्लपित्तवीसर्पवातरक्त-विचर्च्चिकेन्द्रलुमप्रभृतीन् विकारानुपजनयति ।”“प्रलीयन् क्लेशविष्यन्दलाघवं कुरुते मुखे ।यः शीघ्रं लवणो ज्ञेयः सविदाहन्मुखस्य
”इति चरके सूत्रस्थाने २६ अध्यायः
“लवणः संशोधनः पाचनो विश्लेषणः क्लेदनःशैथिल्यकृदुष्णः सर्व्वरसप्रत्यनीको मार्गविशो-धनः सर्व्वशरीरावयवमार्द्दवकरश्चेति एवं-गुणोऽप्येकत्र वात्यर्थमासेव्यमानो गात्रकण्डूकोठ-शोफवैवर्ण्यपुंस्त्वोपघातेन्द्रियोपतापान् तथा-मुखाक्षिपाकं रक्तपित्तवातशोणिताम्लीका-प्रभृतीनापादयति
”“यो भक्तरुचिमुत्पादयति कफप्रसेकं जनयतिमार्द्दवञ्चापादयति लवणः ।” इति सुश्रुतेसूत्रस्थाने ४२ अध्यायः
*
)लवणासुरस्य विवरणं यथा, --“पूर्व्वं कृतयुगे राजन् ! दैतेयः सुमहामतिः ।लोलापुत्त्रोऽभवज्ज्येष्ठो मधुर्नाम महासुरः
मधुर्व्वीर्य्यसम्पन्नो धर्म्मे सुसमाहितः ।बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः
शूलं शूलाद्विनिष्कृष्य महावीर्य्यं महाप्रभम् ।ददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच
यावत् सुरैश्च विप्रैश्च विरुध्येर्म्महासुर ! ।तावच्छूलं तवेदं स्यादन्यथा नाशमेष्यति
यश्च त्वामभियुञ्जीत युद्धाग विगतज्वरः ।तं शूलो भस्मसात् कृत्वा पुनरेष्यति ते करम्
एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः ।प्रणिपत्य महादेवं वाक्यमेतदुवाच
भगवन्मम वंशस्य शूलमेतदनुत्तमम् ।भवेत्तु सततं देव सुराणामीश्वरो ह्यसि
तं ब्रुवाणं मधुं देवः सर्व्वभूतपतिः शिवः ।प्रत्युवाच महादेवो नैतदेवं भविष्यसि
माभूत्ते विफला वाणी मत्प्रसादकृता शुभा ।भवतः पुत्त्रमेकन्तु शूलमेतद्भविष्यति
यावत् करस्थः शूलोऽयं भविष्यति सुतस्य ते ।अवध्यः सर्व्वभूतानां शूलहस्तो भविष्यति
एवं मधुर्व्वरं लब्ध्वा देवात् सुमहदद्भुतम् ।भवनं सोऽसुरश्रेष्ठः कारयामास सुप्रभम्
तस्य पत्नी महाभागा प्रिया कुम्भीनसीति या ।विश्वावसोरपत्यं साप्यनलायां महाप्रभा
तस्याः पुत्त्रो महावीर्य्यो लवणो नाम दारुणः ।वाल्यात् प्रभृति दुष्टात्मा पापान्येव समाचरत्
तं पुत्त्रं दुर्व्विनीतन्तु दृष्ट्वा क्रोधसमन्वितः ।मधुः शोकमापेदे चैनं किञ्चिदब्रवीत्
विहाय इमं लोकं प्रविष्टो वरुणालयम् ।शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत्
प्रभावेण शूलस्य दौरात्म्येनात्मनस्तथा ।सन्तापयति लोकांस्त्रीन् विशेषेण तापसान्
आहारः सर्व्वसत्त्वानि विशेषेण तापसाः ।आचारो रौद्रता नित्यं वासो मधुवने तथा
हत्वा बहुसहस्राणि सिंहव्याघ्रमृगाण्डजान् ।मानुषांश्चैव कुरुते नित्यमाहारमाह्निकम्
तच्छ्रुत्वा राघवो वाक्यमुवाच महामुनीन् ।घातयिष्यामि तद्रक्षो व्यपगच्छतु वो भयम्
प्रतिज्ञाय तदा तेषां मुनीनामुग्रतेजसाम् ।स भ्रातॄन् सहितान् सर्व्वानुवाच रघुनन्दनः
को हन्ता लवणं वीरः कस्यांशः विधी-यताम् ।भरतस्य महाबाहो शत्रुघ्नस्य धीमतः
राघवेणैवमुक्तस्तु भरतो वाक्यमब्रवीत् ।अहमेनं वधिष्यामि ममांशः विधीयताम्
भरतस्य वचः श्रुत्वा धैर्य्यशौर्य्यसमन्वितम् ।लक्ष्मणावरजस्तस्थौ हित्वा सौवर्णमासनम्
शत्रुघ्नस्त्वब्रवीद्बाक्यं प्रणिपत्य नराधिपम् ।कृतकर्म्मा महाबाहुर्मध्यमो रघुनन्दन !
आर्य्येण हि पुरा शून्या त्वयोध्या परिपालिता ।सन्तापं हृदये कृत्वा आर्य्यस्यागमनं प्रति ।प्रेष्ये मयि स्थिते राजन्न भूयः क्लेशमाप्नुयात्
तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत् ।एवं भवतु काकुत्स्थ क्रियतां मम शासनम्
त्वं हत्वा मधुसुतं लवणं पापनिश्चयम् ।राज्यं प्रशाधि धर्म्मेण वाक्यं मे यद्यवेक्षसे
यदा तु युद्धमाकाङ्क्षन् यदि कश्चित् समाह्वयेत् ।तदा शूलं गृहीत्वा तु भस्म रक्षः करोति हि
त्वं पुरुषशार्द्दूल ! तमायुधविनाकृतम् ।अप्रविष्टं पुरं पूर्व्वं द्बारि तिष्ठ धृतायुधः ।अन्यथा क्रियमाणे तु अवध्यः भविष्यति
ततः प्रभाते विमले तस्मिन् काले राक्षसः ।निर्गतस्तु पुराद्वीरो भक्ष्याहारप्रचोदितः
एतस्मिन्नन्तरे वीर उत्तीर्य्य यमुनां नदीम् ।तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत
ततोऽर्द्धदिवसे प्राप्ते क्रूरधर्म्मा राक्षसः ।आगच्छद्बहुसाहस्रं प्राणिनां भारमुद्वहन्
ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् ।तमुवाच ततो रक्षः किमनेन करिष्यसि
तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः ।शत्रुघ्नो वीर्य्यसम्पन्नो रोषादश्रूण्यवासृजत्
उवाच सुसंक्रुद्धः शत्रुघ्नः निशाचरम् ।योद्धुमिच्छामि दुर्ब्बुद्धे द्वन्द्वयुद्धं त्वया सह
तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः ।क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत्
आहूतस्तु पुनस्तेन शत्रुघ्नेन महात्मना ।लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः
आकर्णात् विकृष्याथ तद्धनुर्धन्विनां वरः ।स मुमोच महावाणं लवणस्य महोरसि
उरस्तस्य विदार्य्याशु प्रविवेश रसातलम् ।पुनरेवागमत्तूर्णमिक्ष्वाकुकुलनन्दनम्
शत्रुघ्नशरनिर्भिन्नो लवणः निशाचरः ।पपात सहसा भूमौ वज्राहत इवाचलः
तच्च शूलं महद्दिव्यं हते लवणराक्षसे ।पश्यतां सर्व्वदेवानां रुद्रस्य वशमन्वगात्
हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः ।ऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम्
वरदास्तु महाबाहो सर्व्व एव समागताः ।विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः
देवानां भाषितं श्रुत्वा शूरो मूर्द्ध्नि कृताञ्जलिः
प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान्
इयं मधुपुरी रम्या मधुरा देवनिर्म्मिता ।निवेशं प्राप्नुयाच्छीघ्रमेव मेऽस्तु वरः परः
तं देवाः प्रीतमनसो वाढमित्येव राघवम् ।भविष्यति पुरी रम्या शूरसेना संशयः
ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा ।शत्रुघ्नोऽपि महातेजास्तां सेनां समुपानयेत्
सा सेना शीघ्रमागच्छत् श्रुत्वा शत्रुघ्नशासनम् ।निवेशनञ्च शत्रुघ्नः श्रावणेन समारभत्
तां पुरीं दिव्यसङ्काशां नानापण्योपशोभिताम् ।निरीक्ष्य परमप्रीतः परं हर्षमुपागमत्
तस्य बुद्धिः समुत्पन्ना निवेश्य मधुरां पुरीम् ।रामपादौ निरीक्ष्येऽहं वर्षे द्वादश आगते
”इति श्रीरामायणे उत्तरकाण्डे एकषष्ट्यादिसप्त-त्यन्ताध्यायेभ्यः सङ्कलितम्
*
लवणसमुद्र-स्योत्पत्तिर्यथा, --“विरजा सा रजोयुक्ता धृत्वा वीर्य्यममोघकम् ।सद्यो बभूव तत्रैव धन्या गर्भवती सती ।तस्थौ तत्र सुखासीना सार्द्धं पुत्त्रैश्च सप्तभिः
एकदा हरिणा सार्द्धं वृन्दारण्ये सुनिर्जने ।विजहार पुनः साध्वी शृङ्गारासक्तमानसा
एतस्मिन्नन्तरे तत्र मातुः क्रोडं जगाम ।कनिष्ठपुत्त्रस्तस्याश्च भ्रातृभिः पीडितो भिया
भीतं स्वतनयं दृष्ट्वा तत्याज तां कृपानिधिः ।क्रोडे चकार बालं सा कृष्णो राधागृहं ययौ
प्रबोध्य बालं सा साध्वी ददर्शान्तिके प्रियम् ।विललाप भृशं तत्र शृङ्गारातृप्तमानसा
शशाप स्वसुतं कोपात् लवणोदो भविष्यति
कदापि ते जलं केचित् खादिष्यन्ति जीविनः
शशाप सर्व्वान् बालांश्च यान्तु मूढा मही-तलम् ।गच्छध्वं महीं मूढा जम्बुद्बीपं मनोहरम्
स्थितिर्नैकत्र युष्माकं भविष्यति पृथक् पृथक् ।द्वीपे द्वीपे स्थितिं कृत्वा तिष्ठन्तु सुखिनः सुताः
द्वीपस्थाभिर्नदीभिश्च सह क्रीडन्तु निर्जने ।कनिष्ठो मातृशापाच्च लवणोदो बभूव
कनिष्ठः कथयामास मातृशापञ्च बालकान् ।आजग्मुर्दुःखिताः सर्व्वे मातृस्थानञ्च बालकाः
श्रुत्वा विवरणं सर्व्वे प्रजग्मुर्धरणीतलम् ।प्रणम्य मातुश्चरणं भक्तिनम्रात्मकन्धराः
सप्तद्वीपे समुद्राश्च सप्त तस्थुर्विभागशः ।कनिष्ठाद्वृद्धपर्य्यन्तं द्विगुणं द्विगुणं मुने
लवणेक्षुसुरासर्पिर्दधिदुग्धजलार्णवाः ।एतेषाञ्च जलं पृथ्य्वां शस्यार्थञ्च भविष्यति ।व्याप्ताः समुद्राः सप्तैव सप्तद्वीपां वसुन्धराम्
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे अध्यायः
लवणः, त्रि, (लवणेन संसृष्टः लवण + ठक् ।“लवणात् लुक् ।” २४ इति ठकोलुक् यद्वा, लवणो रसोऽस्त्यस्मिन्निति अर्शआद्यच् ।) लवणरसयुक्तः इति मेदिनी ।णे, ७५
(यथा, सुश्रुते २१ ।“मधुरस्त्वविदग्धः स्याद्विदग्धो लवणः स्मृतः
”)लावण्ययुक्तश्च
कृदन्तरूपमाला
Sanskrit
1 {@“लूञ् छेदने”@} 2 प्वादिः, ल्वादिश्च।
लावकः-विका, लावकः-विका, लुलूषकः-षिका, लोलूयकः-यिका
लविता-त्री, लावयिता-त्री, लुलूषिता-त्री, लोलूयिता-त्री
लुनन्-ती, लावयन्-न्ती, लुलूषन्-न्ती
-- लविष्यन्-न्ती-ती, लावयिष्यन्-न्ती-ती, लुलूषिष्यन्-न्ती-ती
-- लुनानः, लावयमानः, लुलूषमाणः, लोलूयमानः
लविष्यमाणः, लावयिष्यमाणः, लुलूषिष्यमाणः, लोलूयिष्यमाणः
कंसलूः-ल्वौ-ल्वः
-- -- -- 3 विपक्षलावः, 4 5 सकृल्लूः, 6 लुलुवुषः पश्य, लुलविवान्, 7 शत्रुलावो व्रजति, 8 लोलूया 9, 10 लवकः, 11 12 लूत्वा, 13 लूनः, 14 लूनिः, 15 अभिलावः, 16 17 खङ्गलावं 18 19 खङ्गेन लावं वा, 20 लवित्रम् 21 22 लवः, 23 लवणः, 24 लिलावयिषुः, लिलावयिषा, 25 लवाणकम्, 26 लुवा, 27 लोम, 28 त्रप्रत्यये रूपमेवम्
छन्दसि विषये।
लुनाति लूयते वा लोत्रम् = शरीरम्।]] लोत्रम्, इत्यादीनि सर्वाण्यपि रूपाणि क्रैयादिकपुनातिवत् 29 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१५१६)
02
=>
(९-क्र्यादिः-१४८३। सक। सेट्। उभ।)
03
=>
[[आ। ‘विपक्षलावस्य निजस्य शत्रोः अह्नाय भूत्वा लवको बहूनि।’ वा। वि। २-३९।]]
04
=>
[[१। ‘कर्मण्यण्’ (३-२-१) इत्यण्प्रत्ययः।]]
05
=>
[[२। ‘क्विप् च’ (३-२-७६) इति सोपपदात् कर्तरि क्विप्।]]
06
=>
[[३। कर्तरि क्वसुप्रत्ययः। काशिकायां (६-४-२२) प्रत्युदाहृतत्वात् भाषायामपि धातोरस्मात् क्वसुरिति ज्ञेयम्। अत्र ‘न शसदद--’ (६-४-१२६) इत्यादिना एत्वाभ्यासलोपौ न।]]
07
=>
[[४। क्रियार्थक्रियायामुपपदे ‘अण् कर्मणि च’ (३-३-१२) इति भविष्यत्यर्थेऽण्प्रत्ययः।]]
08
=>
[[B। ‘तस्याः सासद्यमानाया लोलूयावान् रघूत्तमः।’ भ। का। ४-३१।]]
09
=>
[[५। यङन्तात् ‘अ प्रत्ययात्’ (३-३-१०२) इत्यकारप्रत्ययः। स्त्रियां टाप् भवति।]]
10
=>
[[६। ‘प्रुसृल्वः समभिहारे वुन्’ (३-१-१४९) इति कर्तरि वुन्प्रत्ययः। समभिहारो नाम (लक्षणया) साधुकारित्वम्
\n\n अतश्च यः सकृदपि सुष्ठु करोति उच्यते लवक इति।]]
11
=>
[[C। ‘लवकौ शत्रुशक्त्रीनामृष्यमूकमगच्छताम्।।’ भ। का। ६-८६।]]
12
=>
[[७। ‘श्रयुकः क्किति’ (७-२-११) इतीण्निषेधः। एवमेव क्तक्तिन्प्रभृतिष्वपि इण्निषेधो बोध्यः।]]
13
=>
[[८। ‘ल्वादिभ्यः’ (८-२-४४) इति निष्ठातकारस्य नकारः।]]
14
=>
[[९। ‘ॠल्वादिभ्यः क्तिन् निष्ठावद् वक्तव्यः’ (वा। ३-३-१०८) इति तकारस्य नकारः।]]
15
=>
[[१०। ‘निरभ्योः पूल्वोः’ (३-३-२८) इति अभिपूर्वकात् भावे घञ्। अप्प्रत्ययापवादः।]]
16
=>
[[ड्। ‘वनाभिलावान् कुर्वन्तः स्वेच्छया चारुविक्रमाः।।’ भ। का। ३-७७।]]
17
=>
[[११। ‘हिंसार्थानां समानकर्मकाणाम्’ (३-४-४८) इति तृतीयान्त उपपदे णमुल्।]]
18
=>
[पृष्ठम्११७७+ ३३]
19
=>
(रिपुं मारयति)
20
=>
[[१। ‘अर्तिलूधू--’ (३-२-१८४) इति करणे इत्रप्रत्ययः। केचित्तु लुवित्रमिति रूपमाहुः। तन्मते गुणाभावश्चिन्त्यः। कल्पसूत्रप्रयोगास्तु छान्दसत्वेन साधवः।]]
21
=>
[[आ। ‘वयं शत्रुलवित्रेषोर्दूता रामस्य भूपतेः।।’ भ। का। ७-८७।]]
22
=>
[[२। ‘ऋदोरप्’ (३-३-५७) इति अप्प्रत्ययः। घञोऽपवादः।]]
23
=>
[[३। नन्द्यादित्वात् शुद्धादपि धातोः कर्तरि ल्युप्रत्यये, तत्रैव (३-१-१३४) गणे पाठात् णत्वमिति ज्ञेयम्। लवणः--एतन्नामकोऽसुरः। लवणम् इति तु अविवक्षित- प्रकृतिप्रत्ययार्थः शब्दः रसविशेषे रूढो लुडन्तः।]]
24
=>
[[B। ‘दुर्जयो लवणः शूली विशूलः प्रार्थ्यतामिति।।’ रघुवंशे १५-५।]]
25
=>
[[४। ‘आणको लूञ्--’ (द। उ। ३-२७) इति आणकप्रत्ययः। लवाणकम् = दात्रम्।]]
26
=>
[[५। औणादिके (द। उ। ६-५१) कनिन्प्रत्यये रूपमेवम्।]]
27
=>
[[६। औणादिके (द। उ। ६-७९) मनिन्प्रत्यये लकारस्य रत्वं विकल्पेन निपात्यते
\n\n लो(रो)म = केशाः। ‘रुहे रुचेश्च रौतेश्च रुदिरुध्यो रुषेरपि। षण्णामेव धातूनां रोमशब्दं निपातयेत्।।’ इति (क्वाचित्कः) श्वेतवनवासिग्रन्थः।]]
28
=>
[[७। औणादिके [द। उ। ८-९०]
29
=>
(१०३५)