ललितासप्तमी (lalitAsaptamI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiललितासप्तमी
ललिता-सप्तमी -
भाद्रपद के शुक्लपक्ष का सातवाँ दिन
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
Kannadaललितासप्तमी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಭಾದ್ರಪದ ಶುಕ್ಲ ಪಂಚಮಿ
Wordnet
Sanskrit ललितासप्तमी
भाद्रपदमासस्य शुक्लपक्षस्य सप्तमी।
"केचन जनाः ललितासप्तम्यां व्रतं कुर्वन्ति।"
शब्दकल्पद्रुमः
Sanskritललितासप्तमी, (ललिताख्या सप्तमी ।)भाद्रशुक्लसप्तमी । तत्र कुक्कुटीव्रतं कार्य्यम् ।यथा भविष्ये ।“भाद्रे मासि सिते पक्षे सप्तम्यां नियमेन या ।स्नात्वा शिवं लेस्वयित्वा मण्डले च सहाम्बिकम् ।पूजयेच्च तदा तस्यां दुष्प्रापं नैव विद्यते ॥
”इति कुक्कुटीव्रतत्वेन ख्यातम् । इति तिथ्यादि-तत्त्वम् ॥
* ॥
तद्विधिर्यथा । तत्रादौ स्वस्तिवाचनपूर्व्वकंसङ्कल्पं कुर्य्यात् । ओँ अद्येत्यादि भाद्रे मासिशुक्ले पक्षे सप्तम्यान्तिथौ यावज्जीवनपर्य्यन्तंअमुकगोत्रा श्रीमदमुकी शिवदुर्गाप्रीतिकामाप्रतिवर्षीयभाद्रशुक्लसप्तम्यां गणेशादिदेवता-पूजापूर्व्वकशिवपार्व्वतीपूजायावज्जीवनडोरक-धारणभविष्यपुराणोक्तव्रतकथाश्रवणरूपललि-तासप्तमीव्रतमहं करिष्ये । ततः सङ्कल्प-सूक्तं पठित्वा सामान्यार्घ्यं विधाय गणेशादीन्संपूज्य भूतशुद्ध्यादिकं विधाय मण्डलादिषुपूजामारभेत । ततो ध्यात्वा स्वशिरसि पुष्पंदत्त्वा मानसोपचारैः संपूज्य अर्घ्यं संस्थाप्यपुनर्ध्यात्वा आवाहयेत् । शिवपूजाविधिनाशिवं दुर्गापूजाविधिना दुर्गाञ्च यथाशक्त्युप-चारैः संपूज्य आवरणदेवान् पूजयेत् । ततोऽष्टग्रन्थियुक्तडोरकं दुग्धेन सिक्तं शिवदुर्गाभ्यांअर्पयित्वा तत् डोरकं वामकरे बद्ध्वा भोज्य-मुत्सृज्य कथां शृणुयात् । अष्टफलानि दद्यात् ।ततो दक्षिणां दद्यात् ॥
* ॥
अथ कथा ।श्रीकृष्ण उवाच ।“लोमशो नांम देवर्षिर्मथुरामागतः पुरा ।सोऽर्च्चितो वसुदेवेन देवक्या च युधिष्ठिर ! ॥
उपविष्टः कथाः पुण्याः कथयामास वै तदा ।ततः कथयितुं भूयः कथामेतां प्रचक्रमे ॥
कंसेन निहताः पुत्त्रा जाता जाताः पुनः पुनः ।मृतवत्सा देवकि ! त्वं पुत्त्रदुःखेन दुःखिता ॥
यथा चन्द्रमुखी दीना बभूव नहुषप्रिया ।तथा त्वं देवकी भद्रे पुत्त्रदुःखेन दुःखिता ॥
पश्चाच्चीर्णव्रता सा तु बभूवाक्षयपुत्त्रिका ।त्वमेव देवकी देवि ! भविष्यसि न संशयः ॥
देवक्युवाच ।का सा चन्द्रमुखी दीना बभूव नहुषप्रिया ।कथं चीर्णव्रतं सम्यक् तस्याः सन्ततिकारणम् ॥
लोमश उवाच ।अयोध्यायां पुरा राजा नहुषो नाम विश्रुतः ।तस्य राज्ञो महादेवी नाम्ना चन्द्रमुखी प्रिया ॥
पुरोहितस्य तस्यैव पत्नी माला च नामिका ।तयोरासीद्दृढप्रीतिः स्पृहणीया परस्परम् ॥
अथ तेऽपि च मित्रिण्यौ स्नानार्थं सरयूजले ।प्राप्ते प्राप्तास्तु तत्रैव बहुशो नगराङ्गनाः ॥
स्नातास्ता मण्डलं चक्रुस्तन्मध्ये व्यक्तरूपिणम् ।लेखयित्वा शिवं शान्तमुमया सह शङ्करम् ॥
गन्धपुष्पाक्षतैर्भक्त्या पूजयित्वा यथाविधि ।प्रणन्य शिरसा भक्त्या दृष्टास्ताभ्यां वरस्त्रियः ॥
किमिदं क्रियते साध्व्यः कथ्यतां यदि रोचते ।कदा वा क्रियते किं वा फलं सम्यक् तदुच्यताम् ॥
स्त्रिय ऊचुः ।पूजितोऽस्माभिरेतल्तिन् पार्व्वत्या सह शङ्करः ।बद्ध्वा सूत्रमिदं शुभ्रं शिवस्यात्मा निवेदितः ॥
धारणीयमिदं तावद्यावत् प्राणस्य धारणम् ।तासान्तु तद्वचः श्रुत्वा ते कृत्वा मानसं तथा ॥
कृत्वा च सम्मतिं तत्र बद्ध्वा दोर्भ्यां सुडोरकम् ।ततस्ताः स्वगृहं जग्मुः सखीभिः परिवारिताः ॥
कालेन महता तत्र विस्मृतं तद्व्रतं नृप ! ।प्रमत्तया चन्द्रमुख्या विस्मृतञ्च सुडोरकम् ॥
मृता कैश्चिदहोरात्रैः सा बभूव प्लवङ्गमी ।माला च कुक्कुटी जाता त्वसम्यग्व्रतपालनात् ॥
तथैव ते च मित्रिण्यौ जाते जातिस्मरे कुले ।सम्भूय भूयस्तत्रैव प्राप्तश्च समयः पुनः ॥
तद्दिने तद्दिने प्राप्ते पुनः काले च ते मृते ।अदैवमातृके देशे जाते गोकुलसङ्कुले ॥
राज्ञो जाया बभूवाथ पृथ्वीनाथस्य सा पुनः ।ईश्वरी नाम विख्याता सा तु राज्ञोऽतिवल्लभा ॥
अग्निमीलद्विजस्यासीद्भार्य्या भूषणनामिका ।पुरोहितस्य कालेन कुक्कुटी बहुपुत्त्रिणी ॥
जातिस्मरा चाष्टपुत्त्रा तथैव चामृतप्रजा ।पुनर्निरन्तरा प्रीतिर्बभूवाथ तयोर्द्विज ॥
तत्रेश्वरी पुत्त्रमेकं प्रसूता तञ्च रोगिणम् ।नववर्षे तु पञ्चत्वमगात्तत्र युधिष्ठिर ! ॥
तत्र तां भूषणा द्रष्टुमाजगामातिदुःखिता ।सखीभावादतिस्नेहादष्टपुत्त्रसमन्विता ॥
अयुक्ताभरणा नित्यं स्वभावेनैव भूषिता ।तां दृष्ट्वा पुत्त्रिणीं भव्यां प्रजज्वालेश्वरी रुषा ॥
ततो गृहं प्रेषयित्वा तां सखीं तीव्रमत्सरा ।चिन्तयामास सा राज्ञी तस्याः पुत्त्रवधं प्रति ॥
हता हताश्च ये पुत्त्राः पुनर्ज्जीवन्त्यनामयाः ।बहुपुत्त्रा जीववत्सा प्रयुक्ताभरणा कथम् ।शोभसे ह्यधिकं भद्रे तडित् सौदामिनी यथा ॥
भूषणोवाच ।भाद्रे मासि सिते पक्षे सप्तम्यां ललितालये ।स्नात्वा शिवं लेखयित्वा मण्डले च सहाम्बि-कम् ॥
संपूज्य विधिवत् प्राप्तं त्रैलोक्ये यच्च विद्यते ।तदेव हि व्रतं पूर्व्वं त्वया सह मया कृतम् ॥
तन्मयाचरितं भक्त्या तेनाहं सुस्थिरा सखि ।त्वया नाचरितं सम्यक् दपैध्मातशरीरया ॥
तेन ते सन्ततिश्छिन्ना राज्येऽपि सति दुःखिता ।प्रभाव एष कथितो ब्रतस्यास्य मया सखि ! ॥
अर्द्धं तुभ्यं प्रदास्यामि तस्य धर्म्मस्य सुव्रते ।सखीभावात् प्रतीच्छ त्वं नात्र कार्य्या विचा-रणा ॥
संपूज्य शङ्करं भक्त्या करे बद्ध्वा सुडोरकम् ।यावज्जीवं मया तावत् शिवस्यात्मा निवेदितः ॥
इत्येवं समयं कृत्वा ततः प्रभृति डोरकम् ।स्वर्णरूप्यमयं वापि करशाखासु धारणम् ॥
शङ्करञ्चोमया सार्द्धं सौवर्णं राजतन्तथा ।ताम्रपात्रे प्रतिष्ठाप्य ब्राह्मणायोपपादयेत् ॥
पायसं पिष्टकञ्चैव भक्ष्यं भोज्यं प्रयत्नतः ।सगोत्रान् भोजयित्वा तु स्वयं भुञ्जीत तत्परम् ॥
मण्डलं सोमसदृशं शिवस्यात्मनिवेदितम् ।इत्येवं प्रतिजग्राह व्रतदानफलं ततः ॥
बभूव सुप्रजा साध्वी ईश्वरी भुवनेश्वरी ।व्रतस्यास्य प्रभावेन सुपुत्त्रा त्वञ्च देवकि ! ॥
भविष्यसि त्रिलोकेशं पुत्त्रञ्च जनयिष्यसि ।इत्येवं श्रावयित्वा च विरराम मुनिस्तदा ॥
जगाम स्वपुरं पार्थ मयाप्येवं तवोदितम् ।याः स्त्रियः स्वाचरिष्यन्ति व्रतमेतद्युधिष्ठिर ॥
कुक्वुटाख्यं प्लवङ्गाख्यं देवक्याचरितं शुभम् ।तासां सन्ततिविच्छेदो न कदाचिद्भविष्यति ॥
स्त्रियश्चैवाचरिष्यन्ति व्रतमेतत् सुखप्रदम् ।अस्मिन् लोके सुखं भुक्त्वा यास्यन्ति शिवमन्दि-रम् ॥
या कुक्कुटीव्रतमिदं प्लवगीसमेतंदेवं विभाव्य हृदये च गुरुं निधाय ।भक्त्या करोति कलुषौधविघातदक्षंसाध्वी सदा भवति शोभनजीववत्सा ॥
”इति भविष्यपुराणे कुक्कुटीव्रतकथा समाप्ता ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
