| YouTube Channel

ललितं (lalitaM)

 
शब्दकल्पद्रुमः
Sanskrit
ललितं,
क्ली,
(लल + क्तः ।) शृङ्गारभावजक्रिया-विशेषः इत्यमरः
सुकुमारविधानेन भ्रू-नेत्रादिक्रियासचिवकरचरणाङ्गविन्यासो ललि-तम् तथा ।“सुकुमाराङ्गविन्यासे मसृणा ललितं भवेत्
”तथा, --“सभ्रूभङ्गं करकिशलयावर्त्तनैरापतन्तीसा लिम्पन्ती ललितललिता लोचनस्याञ्जनेन ।विन्यस्यन्ती चरणकमले लीलया स्वैरयातेनिःशङ्का प्रथमवयसा नर्त्तिता पङ्कजाक्षी
भ्रूनेत्रादिक्रियाशालिसुकुमारविधानतः ।हस्तपादाङ्गविन्यासस्तरुण्या ललितं विदुः
”इत्यन्येऽपि
“अनाचार्य्योपदिष्टं स्याल्ललितं रतिचेष्टितम् ।”इत्यन्ये ।ललत् केप्से भावे क्तः लड विलासे इत्यस्यमनीषादित्वात् डस्य लत्वं वा इति भरतः
अपि ।“विन्यासभङ्गिरङ्गानां भ्रूविलासमनोहरा ।सुकुमारा भवेद्यत्र ललितं तदुदीरितम्
”इत्युज्ज्वलनीलमणिः