लयः (layaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishलयः [layḥ], [ली-अच्]
Sticking, union, adherence.
Lurking, hiding.
Fusion, melting, solution.
Disappearance, dissolution, extinction, destruction
universal destruction (प्रलय)
लयं या 'to be dissolved or destroyed'.
Absorption of the mind, deep concentration, exclusive devotion (to any one object)
पश्यन्ती शिवरूपिणं लयवशादात्मानमभ्यागता 5.2, 7
ध्यानलयेन 4.
Time in music (of three kinds- द्रुत, मध्य, and विलम्बित)
किसलयैः सलयैरिव पाणिभिः 9.35
पादन्यासो लय- मनुगतः 2.9
मध्यलम्बितपरिच्छिन्नस्त्रिधायं लयः Nāg.1.14.
A pause in music.
Rest, repose.
A place of rest, abode, habitation
अलया 4.57 'having no fixed abode, wandering'.
Slackness of mind, mental inactivity
(also used in adjectival sense
यदा जये- द्रजः सत्त्वं तमो मूढं लयं जडम् 11.25.15.).
An embrace.
The Supreme Being.
The union of song, dance, and instrumental music
गायतं मधुरं गेयं तन्त्रीलयसमन्वितम् 7.93.15.
A swoon.
The quick (downward) movement of an arrow. -अर्कः the sun at the destruction of the universe.-आरम्भः, -आलम्भः an actor, a dancer. -कालः the time of destruction (of the world.). -गत dissolved, melted away. -नालिकः a Buddhist or Jain temple.-पुत्री an actress, a female dancer. -मध्य to be performed in moderate time (a piece of music). -शुद्धa. to be performed in right time. -स्थानम् a place of dissolution.
Apte 1890
Englishलयः [ली-अच्] 1 Sticking, union, adherence.
2 Lurking, hiding.
3 Fusion, melting, solution.
4 Disappearance, dissolution, extinction, destruction
universal destruction (प्रलय)
लयंया ‘to be dissolved or destroyed’.
5 Absorption of the mind, deep concentration, exclusive devotion (to any one object)
पश्यंती शिवरूपिणं लयवशादात्मानमभ्यागता Māl. 5. 2, 7
ध्यानलयेन Gīt. 4.
6 Time in music (of three kinds द्रत, मध्य, and विलंबित)
किसलयैः सलयैरिव पाणिभिः R. 9. 35
पादन्यासो लयमनुगतः M. 2. 9.
7 A pause in music.
8 Rest, repose.
9 A place of rest, abode, habitation
अलया Śi. 4. 57 ‘having no fixed abode, wandering’.
10 Slackness of mind, mental inactivity.
11 An embrace.
12 The supreme being.
13 The union of song, dance, and instrumental music.
Comp.
अर्कः the sun at the destruction of the universe.
आरंभः
आलंभः an actor, a dancer.
कालः the time of destruction (of the world).
गत a. dissolved, melted away.
पुत्री an actress, a female dancer.
Apte Hindi
Hindiलयः
- ली+अच्
"चिपकना, मिलाप, लगाव"
लयः
- -
"प्रच्छन्न, छिपा हुआ"
लयः
- -
"संगलन, पिघलना, घोल"
लयः
- -
"अदर्शन विघटन, बुझाना, विनाश, नष्ट होना"
लयः
- -
मन की लीनता
लयः
- -
"गहन एकाग्रता, अनन्य भक्ति"
लयः
- -
संगीत की लय
लयः
- -
संगीत में विश्राम
लयः
- -
आराम
लयः
- -
"विश्राम स्थान, आवास निवास"
लयः
- -
"मन की शिथिलता, मानसिक अकर्मण्यता"
लयः
- -
आलिंगन
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit लयः
सङ्गीतशास्त्रे स्वरतालयोः समायोजनम्।
"लयस्य त्रयः प्रकाराः सन्ति- द्रुतः मध्यः विलम्बितः इति।"
तालैक्यम्, स्वरैक्यम्, स्वरसङ्गः, स्वरैकता, एकतालः, लयः, एकतानः
गीतगायनस्य विशेषा तथा च शोभनीया पद्धतिः।
"अस्याः गायक्यः तालैक्यं मधुरम् अस्ति।"
प्रलयः, युगान्तः, कल्पः, कल्पान्तः, लयः, प्रतिसर्गः, क्षयः, प्रक्षयः, संवर्तः, संक्षयः, विलयः, प्रत्सञ्चरः
हिन्दूनां जगद्विलयस्य अवधारणाविशेषः। युगानाम् अन्तः यत्र युगानाम् अन्तो वा यस्मिन् जगद् प्रलीयते।
"ज्ञानाद् आत्यन्तिकः प्रोक्तो योगिनः परमात्मनि प्रलयः प्रतिसर्गोऽयं काल-चिन्तापरैर्-द्वजैः।"
Tamil
Tamilலய: : அழிவு, தழுவுதல், ஒட்டிக்கொள்ளல், சேர்க்கை, மறைவு, உலகின் அழிவு, ஆழ்ந்த சிந்தனை, இசையில் தாளம், இருப்பிடம், இளைப்பாறுமிடம்.
शब्दकल्पद्रुमः
Sanskritलयः, (ली + अच् ।) विनाशः । संश्लेषः । तौर्य्य-त्रिकस्य साम्यम् । इति मेदिनी । ये, ५२ ॥
प्रलयः ।इति शब्दरत्नावली ॥
* ॥
अखण्डवस्त्वनवलम्ब-नेन चित्तवृत्तेर्निद्रा । इति श्रीपरमहंससदानन्द-योगीन्द्रकृतवेदान्तसारः ॥
तत्राद्यं विघ्नं लक्ष-यति लयस्तावदिति । लयो द्विविधः । चिरकाल-मुक्ताष्टाङ्गसहितनिर्विकल्पकसमाध्यभ्यासपाटवे-नातितप्तलोहतलक्षिप्तजलबिन्दुवत् तैलरहित-दीपकलिकावच्च प्रत्यगभिन्ने परमानन्दे चित्त-वृत्तेर्लयः प्रथमः । द्बितीयस्तु मूर्च्छावस्थावत् आल-स्येन चित्तवृत्तेर्व्वाह्यशब्दादिविषयग्रहणानादरेसतिप्रत्यगात्मस्वरूपानवभासनात् वृत्तेस्तब्धीभाव-लक्षणनिद्रारूपः । इति श्रीनृसिंहसरस्वतीकृत-सुबोधिन्याख्या तट्टीका ॥
गीतवाद्यपादन्यासानांक्रियाकालयोः परस्परं समता लयः । लीयन्तेश्लिष्यन्तेऽनेनेति लयन्ति व्रजन्ति साम्यं गीता-दयोऽत्रेति वा लयः । ली ङ य ओ श्लिषि लयगत्यां वा अल् । इत्यमरटीकायां भरतः ॥
* ॥
लयस्थानविवर्ज्जणं गायकस्य चतुर्द्दशदोषान्त-र्गतदोषविशेषो यथा, --“लज्जितं भीतमुक्तेषु अव्यक्तमनुनासिकम् ।काकस्वरः शिरःकम्पो लयस्थानविवर्ज्जितम् ॥
विस्वरं विरमञ्चैव विश्लिष्ठं विषमाहतम् ।व्याकुलं तालहीनञ्च गातुर्दोषाश्चतुर्दश ॥
” * ॥
अथ लयाः । हृदि स्थितिः कण्ठस्थितिः कपाल-स्थितिरिति लयत्रयम् । अपरे तु ।“द्विपदी स्याद्वलतिका झल्लिका छिन्नखण्डिका ।वामभ्रुवस्ततश्छिन्ना खण्डधावा फडक्ककः ॥
जम्भट्टिका कलतिकः खण्डकः खुरिकस्तथा ।कथितश्चतुरस्रोऽर्द्धश्चतुरस्रोऽथ नर्त्तकः ॥
त्र्यस्रः षष्ट्युन्दालनावकृष्टा नन्दघटीत्यपि ।कादम्बश्चर्व्वरी घट्टा मिश्रोऽर्द्धवनिता ततः ॥
अतिचित्रः समयश्च वलितोऽर्द्धदलस्तथा ।आविद्धस्तु टङ्कवकस्ततश्चित्रविचित्रकौ ॥
आन्त्री विकृतधावा च मुकुलोऽथ विलोलकः ।रमणीयस्ततश्चैव करकण्टकसंज्ञकः ॥
चत्वारिंशदिमे प्रोक्ता लया लयविशारदैः ।लयेन वश्यो भगवान् लये लीनो जनार्द्दनः ॥
”इति संगीतदामोदरः ॥
(त्रि, आवरणात्सकम् । इति श्रीधरस्वामीयथा, भागवते । ११ । २५ । १५ ।“यदा जयेद्रजः सत्त्वं तमो मूढं लयं जडम् ।युज्येत शोकमोहाभ्यां निद्रया हिंसया शया ॥
”क्ली, लामज्जकम् । यथा, --“लामज्जकं सुनालं स्यादमृणालं लयं लघुः ।इष्टकापथकं सेव्यं नलदञ्चावदातकम् ॥
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥
)
कृदन्तरूपमाला
Sanskrit1 {@“ली श्लेषणे”@} 2 प्वादिः, ल्वादिश्च।
‘यौ द्रवीकरणेऽनात्वे लीनयेत् लाययेत् लयेत्।।
लापयेल्लालयेदात्वे श्लेषणे लीयतेऽलिनात्।’ 3 इति देवः।
4 5 लायकः-यिका, 6 लालकः-लिका, 7 लीनकः-निका, निलापकः-पिका, 8 लिलीषकः- षिका, 9 लेलीयकः-यिका
10 लेता-लेत्री, लाता-त्री, लापयिता-लालयिता-त्री, लीनयिता-त्री, लिलीषिता-त्री, लेलीयिता-त्री
11 लिनन्-ती, लापयन्, लालयन्, लीनयन्-न्ती, लिलीषन्-न्ती
-- लास्यन्-लेस्यन्-न्ती-ती, लापयिष्यन्-लालयन्-लीनयन्-न्ती-ती, लिलीषिष्यन्-न्ती-न्ती
-- -- लापयमानः-लालयमानः-लीनयमानः, -- लेलीयमानः
-- 12 जटाभिर्लापयमानः, वर्त्तिकामुल्लापयमानः, बालमुल्लापयमानः
-- लापयिष्यमाणः-लालयिष्यमाणः-लीनयिष्यमाणः, --लेलीयिष्यमाणः
लीः-लियौ-लियः
-- -- -- 13 लीनम्-नः-नवान्, लापितः-लालितः-लीनितः, लिलीषितः, लेलीतः-तवान्
14 15 लयः, लापः-लालः-लीनः, लिलीषुः, लिलापयिषुः, लेल्यः-लेलियः
लेतव्यम्-लातव्यम्, लापयितव्यम्-लालयितव्यम्-लीनयितव्यम्, लिलीषितव्यम्, लेलीयितव्यम्
लयनीयम्-लानीयम्, लापनीयम्-लालनीयम्-लीननीयम्, लिलीषणीयम्, लेलीयनीयम्
16 ईषल्लयः-दुर्लयः-सुलयः
-- -- -- लीयमानः, लाप्यमानः-लाल्यमानः-लीन्यमानः, लिलीष्यमाणः, लेलीय्यमानः
लयः, लापः-लालः-लीनः, लिलीषः, लेलीयः
लातुम्-लेतुम्, लापयितुम्-लालयितुम्-लीनयितुम्, लेलीयितुम्
17 लीनिः, लापना-लालना-लीनना, लिलीषा, लेलीया
लयनम्, लानम्, लापनम्-लालनम्-लीननम्, लिलीषणम्, लेलीयनम्
लीत्वा, लालयित्वा-लापयित्वा-लीनयित्वा, लिलीषित्वा, लेलीयित्वा
18 विलाय-विलीय, विलाप्य-विलाल्य-विलीन्य, विलिलीष्य, विलेलीय
लायम् २ लीत्वा २, लापम् २ -लालम् २ -लीनम् २, 19 जतुविलायं विलिल्ये, लापयित्वा २ -लालयित्वा २ -लीनयित्वा २, लिलीषम् २, लिलीषित्वा २, लेलीयम् २
लेलीयित्वा २।
01 (१४९२)
02 (९-क्र्यादिः-१५०१। अक। अनि। पर।)
03 (श्लो। १७-१८)
04 [पृष्ठम्११६५+ २६]
05 [[१। ण्वुलि, ‘विभाषा लीयतेः’ (६-१-५१) इत्याकारविकल्पः--एज्विषये। आत्वपक्षे ‘आतो युक्--’ (७-३-३३) इति युगागमे रूपमेवम्। आत्वाभावपक्षे वृद्धौ आया- देशे च लायकः इत्येव रूपमिति ज्ञेयम्। एवमुत्तरत्रापि।]]
06 [[२। ‘लीलोर्लुग्नुकावन्यतरस्यां स्नेहविपातने’ (७-३-३९) इति ण्यन्ते लुगागम- विकल्पः--स्नेहविपातने। स्नेहविपातनं नाम कठिनद्रव्यस्याग्नौ निष्टपनेन द्रबी- करणम्। एतद्भिन्नार्थे तु ‘विभाषा लीयतेः’ (६-१-५१) इत्यात्वे ‘अर्तिह्री--’ (७-३-३६) इति पुगागमे लापकः इत्यादीनि रूपाणि।]]
07 [[३। अनेनैव सूत्रेण (७-३-३९) पाक्षिके नुगागमे लीनकः इत्यादीनि रूपाणि।]]
08 [[४। सन्नन्ते ‘इको झल्’ (१-२-९) इति सनः कित्त्वं सर्वत्र ज्ञेयम्।]]
09 [[५। यङन्ते ‘गुणो यङ्लुकोः’ (७-४-८२) इति गुणोऽभ्यासस्य।]]
10 [[६। धातोरनिट्त्वात् इडागमो न। गुणः। एवं तव्यदादिष्वपि ज्ञेयम्।]]
11 [[७। शतरि ‘क्र्यादिभ्यः--’ (३-१-८१) इति श्ना विकरणप्रत्ययः। ‘प्वादीनां ह्रस्वः’ (७-३-८०) इति धातोरीकारस्य ह्रस्वः। ‘श्नाऽऽभ्यस्तयोः--’ (६-४-११२) इत्याकारलोपः।]]
12 [[८। ‘लियः सम्माननशालीनीकरणयोश्च’ (१-३-७०) इति ण्यन्तात् अकर्त्रभिप्रायेऽपि आत्मनेपदमेव। सम्माननम् = पूजा। शालीनीकरणम् = न्यग्भावनम्। जटाभिः आलापयमानः = जटया हेतुना पूजां समधिगच्छन् इत्यर्थः। वर्तिकामुल्ला- पयमानः = पक्षिविशेषं न्यक्कृत्येत्यर्थः। एतयोरुभयोरेवार्थयोस्तङ्। बालकमुल्ला- पयमानः, वञ्चयन्नित्यर्थः प्रलम्भनार्थेऽपीति वार्त्तिकात् (३४८३)।]]
13 [[९। ‘ल्वादिभ्यः--’ (८-२-४४) इति निष्ठातकारस्य नकारः।]]
14 [पृष्ठम्११६६+ १९]
15 [[१। पचाद्यचि रूपमेवम्। ‘निमिमीलियां खलचोरात्वं न’ (वा। ६-१-५१) इत्यत्र ‘अच्’ इत्यनेन पचाद्यचोऽपि ग्रहणमिति पदमञ्जरी।]]
16 [[२। अत्रापि खल्प्रत्यये आत्वं न।]]
17 [[३। ‘ऋल्वादिभ्यः --’ (वा। ३-३-९४) इति क्तिनस्तकारस्य नकारः।]]
18 [[४। ‘विभाषा लीयतेः’ (६-१-५१) इति ल्यपि आत्वविकल्पः। आत्वपक्षे विलाय इति, आत्वाभावपक्षे विलीय इति च रूपद्वयम्।]]
19 [[५। ‘उपमाने कर्मणि च’ (३-४-४५) इति णमुल्। ‘कषादिषु--’ (३-४-४६) इति यथाविध्यनुप्रयोगः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
