| YouTube Channel

लम्भयिता-त्री (lambhayitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“डु लभष् प्राप्तौ”@} 2 ‘प्रेरणे लाभयेत् लाभेः, प्राप्त्यर्थे लभते शपि।’ 3 इति देवः।
4 लम्भकः-म्भिका, लम्भकः-म्भिका, 5 लिप्सकः-प्सिका, लालभकः-भिका
लब्धा-ब्ध्री, लम्भयिता-त्री, लिप्सिता-त्री, लालभिता-त्री
इत्यादीनि रूपाणि सर्वाणि प्रातिस्विकरूपाणि विना भौवादिकरभतिवत् 6 बोध्यानि।
7 लब्ध्रिमम् 8।
9 आलम्भ्या गौः।
10 उपलम्भ्या विद्या।
उपलभ्य- 11 मस्मान्नीचात्।
12 ईषत्प्रलम्भः-दुष्प्रलम्भः-सुप्रलम्भः।
ईषल्लभः।
13 सुलभम्- दुर्लभम्।
सुलाभो दुर्लाभः।
सुप्रलम्भः।
14 लाभम्-लाभम्-लम्भम्-लम्भम्।
प्रलम्भम्-प्रलम्भम्।
15 लभा दुरालभा।
उपलब्धिः।
प्रासङ्गिक्यः
01
=>
(१४७१)
02
=>
(१-भ्वादिः-९७५। सक। अनि। आत्म।)
03
=>
(श्लो। १४६)
04
=>
[[३। ‘लभेश्च’ (७-१-६४) इति अजादौ प्रत्यये (शपं लिटं वर्जयित्वा) नुमागमः सर्वत्र बोध्यः।]]
05
=>
[[४। ‘सनि मीमाघुरभलभ--’ (७-४-५४) इत्यादिना अच इस्। ‘स्कोः--’ (८-२-२९) इति सलोपः। ‘अत्र लोपोऽभ्यासस्य’ (७-४-५८) इत्यभ्यासलोपः।]]
06
=>
(१३७८)
07
=>
[[५। लाभेन निर्वृत्तं लब्ध्रिमम्। ‘ड्वितः क्त्रिः’ (३-३-८८) इति क्त्रिप्रत्यये, तस्य ‘क्त्रेर्मप्--’ (४-४-२०) इति नित्यं मप्प्रत्ययः।]]
08
=>
[[आ। ‘निघानिघतरुच्छन्ने तस्मिस्ते लब्ध्रिमैः फलैः।’ भ। का। ७-६५।]]
09
=>
[[६। ‘आङो यि’ (७-१-६५) इति आङ्पूर्वाल्लभेः यकारादौ प्रत्यये नुम्। अत्र सूत्रे ‘यि’ इत्यस्य विषयसप्तम्याश्रयणात् प्रत्ययोत्पत्तेः प्रागेव नुमागमः
\n\n तेन अदुपधत्वा- भावात् यत्प्रत्ययो
\n\n किन्तु ण्यदेव इति बोध्यम्।]]
10
=>
[[७। ‘उपात् प्रशंसायाम्’ (७-१-६६) इति यकारादौ प्रत्यये विवक्षिते नुम्। प्रशंसायाः अविवक्षायां तु ‘उपलभ्यमस्मान्नीचात्’ इत्यत्र यत्प्रत्यय एव।]]
11
=>
[पृष्ठम्११५४+ ३१]
12
=>
[[१। ‘उपसर्गात् खल्घञोः’ (७-१-६७) इति नुम्। ‘लभेश्च’ (७-१-६४) इत्येव खल्प्रत्यये घञि नुमः सिद्धत्वात् यतः पुनरारम्भः ततो ज्ञायते--नियमार्थ- मिति। नियमस्वरूपं तु अजाद्योः खल्घञोः प्रत्यययोर्नुम् भवति चेत्--उपसर्गात् परयोरेव--इति। तेन ईषल्लभः, लाभः इत्यादिषु निरुपसृष्टेषु नुम् भवति।]]
13
=>
[[२। ‘उपसर्गात् खल्घञोः’ (७-१-६७) इत्यस्यापवादभूतेन ‘न सुदुर्भ्यां केवलाभ्याम्’ (७-१-६८) इत्यनेन नुम्निषेधः। अत्र वदन्ति--सूत्रे केवलशब्दः शब्दोपात्ताभ्यां सुदुर्भ्यामन्यस्य सजातीयस्योपसर्गस्याभावमाह। तेन सुदुर्भ्यामन्योपसर्गंरहितस्य लभेः खल्घञोर्नुम् भवतीति सूत्रार्थः सम्पन्नः। उपसर्गान्तरयोगे तु अति- सुलम्भः इति नुम् भवत्येव--इति। यदा तु ‘सुः पूजायाम्’ (१-४-९४) ‘अतिरतिक्रमणे च’ (१-४-९५) इत्याभ्यां सुश्चातिश्च कर्मप्रवचनीयसंज्ञके भवतः-- तदानीं अतिसुलभम् अतिदुर्लभम् इत्यादयोऽपि प्रयोगाः साधव एवेति ज्ञेयम्। विस्तरस्तु बृहच्छब्देन्दुशेखरादिषु द्रष्टव्यः।]]
14
=>
[[३। ‘विभाषा चिण्णमुलोः’ (७-१-६९) इति चिणि णमुलि नुम्विकल्पः। ‘विभाषा चिण्णमुलोरुपसर्गान्न’ इति भाष्ये (७-१-६९) व्याख्यातत्वात् प्राप्तविभाषेत्याश्रित्य व्याख्यातृभिर्व्यवस्थितविभाषेयमित्याश्रितम्। तेनायं फलितोऽर्थः--सोपसर्गस्य नित्यं नुम्
\n\n निरुपसृष्टात् तु विभाषेति। तेनैवं रूपाणि बोध्यानि।]]
15
=>
[[४। धातोः षित्त्वात् ‘षिद्भिदादिभ्यः--’ (३-३-१०४) इत्यङ्। यदा तु ‘क्तिन् आबादिभ्यः’ (वा। ३-३-९४) इत्याश्रीयते, तदानीम् क्तिन् अपि साधुः-- ‘अभि- धानलक्षणाः कृत्तद्धितसमासान्ताः’ इत्यादिप्रामाण्यात्।]]