| YouTube Channel

लभ्यं (labhyaM)

 
शब्दकल्पद्रुमः
Sanskrit
लभ्यं, त्रि, (लभ्यते इति लभ् + पोरदुपधात् ।”३ ९८ इति यत् ।) न्याय्यम् इत्यमरः
लब्धव्यम् इति मेदिनी ये, ४३
(यथा, मुण्डकोपनिषदि ।“नायमात्मा प्रवचनेन लभ्योन मेधया बहुधा श्रुतेन ।यमेवैष वृणुते तेन लभ्य-स्तस्यैष आत्मा विवृणुते तनूं स्वाम्
”)