| YouTube Channel

लडिता-त्री (laDitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“लड विलासे”@} 2 ‘लाडयत्युपसेवायां विलासे तु लडेच्छपि।’ 3 इति देवः।
‘-- विकासे इति मैत्रेयः’ इति मा।
धा।
वृत्तौ।
टिप्पन्याम्।
4 ‘लल ईप्सायाम्’ इति केचित् भ्वादावेव पठन्ति।
तत्तु क्षीरस्वामि- पुरुषकारादयः नानुमन्यन्ते।
लाडकः-डिका, लाडकः-डिका, लिलडिषकः-षिका, लालडकः-डिका
लडिता-त्री, लाडयिता-त्री, लिलडिषिता-त्री, लालडिता-त्री
इत्यादीनि रूपाणि सर्वाणि भौवादिककणतिवत् 5 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१४६३-आ)
02
=>
(१-भ्वादिः-३५९। अक। सेट्। पर।)
03
=>
(श्लो। ८७)
04
=>
[पृष्ठम्११५१+ २६]
05
=>
(१५७)
1 {@“लड जिह्वोन्मथने”@} 2 घटादिः।
जिह्वया उन्मथनम् 3 जिह्वोन्मथनम् इति केचित्।
जिह्वायाः उन्मथनम् 4 इति मैत्रेयः।
जिह्वा च, उन्मथनं द्वावर्थौ, जिह्वा = जिह्वाव्यापारः इति केचित्।
निरुक्तेषु त्रयेष्वर्थेषु भ्वादिरयं मित्संज्ञक इति समुदितार्थः।
लडयोरेकत्वस्मरणात् ण्यन्तात् युचि-ललना इति रूपम्।
अत्र पदे यथासम्भवमर्थो बोध्यः।
लडकः-डिका, लडकः-डिका, लिलडिषकः-षिका, लालडकः-डिका
लडिता-त्री, लडयिता-त्री, लिलडिषिता-त्री, लालडिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककणतिवत् 5 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१४६४)
02
=>
(१-भ्वादिः-८१४। सक। सेट्। पर।)
03
=>
(= क्लेशकरणं)
04
=>
(=क्षोभणम्)
05
=>
(१५७, १५८)