| YouTube Channel

लड (laDa)

 
Wilson
English
लड r. 1st and 10th cls. (लडति लडयति)
1 To frolic, to sport or dally.
2 To loll (the tongue.)
3 To use the tongue.
4 To stir with the tongue.
5 To stir, to agitate.
6 To pain. r. 10th cl. (-लाडयति)
1 To nurse, to foster, to attend closely.
2 To shake.
3 To feel desire. (औ इ) औलडि r. 1st and 10th cls. (लंडति
लंडयति)
1 To shine.
2 To toss or throw up.
3 To speak.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
लड्
मूलधातुः:
लड
धात्वर्थः:
विलासे
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
लडति
धातुः:
लड्
मूलधातुः:
लड
धात्वर्थः:
उपसेवायाम्
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
लाडयति-ते
धातुप्रदीपः
Sanskrit
लडँ लड विकाशे
- लडति ललति लालयति लालनम् डलयोरैक्यात् ।। 360 ।।
लडँ लड उपसेवायाम्
- लाडयति लाडयाञ्चकार 7
शब्दकल्पद्रुमः
Sanskrit
लड, विलासे इति कविकल्पद्रुमः
(भ्वा०-पर०-अक०-सेट् ।) लडति बाला इति दुर्गा-दासः
लड, कि भाषणे इति कविकल्पद्रुमः
(चुरा०-पक्षे भ्वा०-पर०-सक०-सेट् ।) इ, लण्ड्यते ।कि, लण्डयति लण्डति भाषणं कथनम् अयंकैश्चिन्न मन्यते इति दुर्गादासः
लड, कि उत्क्षेपणे इति कविकल्पद्रुमः
(चुरा०-पक्षे भ्वा०-पर०-सक०-सेट् ।) ओ, लण्डिनः अनुबन्धबलादिम्व्यवधानेऽपि निष्ठा-तस्य नत्वम् अस्मात् निष्ठायामिम् स्यादि-त्येके लड्न इति इ, लण्ड्यते कि, लण्डयतिलण्डति तण्डुलं लोकः इति दुर्गादासः
लड, उपसेवे इति कविकल्पद्रुमः
(चुरा०-पर०-सक०-सेट् ।) उपसेव इह अत्यन्तपाल-नम् क, लालयेत् पञ्चवर्षाणि पुत्त्रमिति अत्रडलयोरेकत्वाल्लत्वम् कल्पनायामस्य प्रयोगः ।इति रमानाथः लाडयति लतां वायुः इतिदुर्गादासः
लड, वीप्से इति कविकल्पद्रुमः
(चुरा०-आत्म०-सक०-सेट् ङ, लाडयते लाभएव इत्यन्य विशेषेण आप्तुमिच्छा व्रीप्सा ।इति दुर्गादासः
लड, त् क्षेपे इति कविकल्पद्रुमः
(अदन्त-चुरा०-पर०-सक०-सेट् ।) लडयति अल-लाडत् इति दुर्गादासः
लड, उन्मन्थनजिह्वयोः इति कविकल्पद्रुमः
(भ्वा०-पर०-अक०-क्वचित् पीडनादौ सक०-सेट् ।) उन्मन्थनं पीडितीभावः उत्क्षिप्ती-भावश्च लडति लता वायुना पीडिता उत्-क्षिप्ता वा स्यादित्यर्थः जिह्वा तद्बिषयक्रिया ।लडति जिह्वा स्पन्दनवती स्यादित्यर्थः म, लडयति लडयति त्वचमुल्ललयत्यमूनितिश्रीहर्षः पीडयतीत्यर्थः कवाटघ्नीमिन्दुःकिरणलहरीमुल्ललयतीति मुरारिः उत्-क्षिपतीत्यर्थः उभयत्र डलयोरेकत्वाल्लत्वम् ।केचित्तु जिह्वोन्मन्थने इति पठित्वा जिह्वायाउन्मन्थनं उत्क्षेपणमिति व्याख्याय लडतिजिह्वां सर्प इत्येवोदाहरन्ति इति दुर्गा-दासः
वाचस्पत्यम्
Sanskrit
लड विलासे
भ्वा०
पर०
अक० सेट् लडति अला(ड)डीत्
लड उत्पीडने
सक०
जिह्वाचालने अक०
भ्वा०
पर०
सेट् ।लडति अलाडीत्--अलडीत् घटा० लडयति
लड अत्यन्तपालने
चु०
लभ०
सक०
सेट् लाडयति--ते अलील-डत्
लड व्याप्तौ
चु०
उभ०
सक०
सट् लाडयति--ते अलीलडत्
लड भाषणे द्विक० वा
चु०
उभ०
पक्षे
भ्वा०
पर०
सेट् इदित् ।लण्डयति--ते लण्डति अललण्डत्--त अलण्डीत्
लड उत्क्षेपणे वा चुरा०
उभ०
पक्षे
भ्वा०
पर०
सक०
सेट् इदित् ।लण्डयति--ते लण्डति अललण्डत्--त अलण्डीत्
लड क्षेपणे अद०
चु०
उभ०
सक०
सेट् लडयति ते अललडत्
क्षीरतरङ्गिणी
Sanskrit
लडँ लड विलासे
-लडति लडन्नपि दशन्नपि लडना ललना प्रमदा लाडयति लडयोरेकत्वाल् लालयति बालम् लल ईप्सायाम् (10135) वा ललितः परिललललने ललितम्? जिह्वोन्मथनयोः (1551) इति मित्-लडयति चुरादौ लड उपसेवायाम् (107) उपलाडयति 350
लडँ लड उपसेवायाम्
- लाडयति, उपलालयति पुत्रम् लालना नान्ये मितोऽहेतौ (1080) इति मित्त्वं नास्ति भ्वादौ लड विलासे (1250) त्वनेकार्थत्वाज् जिह्वोन्मथनयोर्लडिः (1551) इति मित्-लडयति 7
धातुवृत्तिः
Sanskrit
लडँ लड (अर्थः) विलासे
लडतीत्यादि जिह्वोन्मथने घटादौ अनन्तरे लल ईप्सायामिति क्वचित्पठ्यते तत् क्षीरस्वामिपुरुषकारादयो नानुमन्यते, यत् रलयोर्डलयोर्श्चैकत्व स्मरणात् ललयति ललनेत्याहुः लड उपसेवायामिति चुरादौ 355
लडँ लड (अर्थः) उपसेवायाम्
( लाडयति ) इत्यादि लडतीति विलासे शपि 7
कृदन्तरूपमाला
Sanskrit
1 {@“लड विलासे”@} 2 ‘लाडयत्युपसेवायां विलासे तु लडेच्छपि।’ 3 इति देवः।
‘-- विकासे इति मैत्रेयः’ इति मा।
धा।
वृत्तौ।
टिप्पन्याम्।
4 ‘लल ईप्सायाम्’ इति केचित् भ्वादावेव पठन्ति।
तत्तु क्षीरस्वामि- पुरुषकारादयः नानुमन्यन्ते।
लाडकः-डिका, लाडकः-डिका, लिलडिषकः-षिका, लालडकः-डिका
लडिता-त्री, लाडयिता-त्री, लिलडिषिता-त्री, लालडिता-त्री
इत्यादीनि रूपाणि सर्वाणि भौवादिककणतिवत् 5 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१४६३-आ)
02
=>
(१-भ्वादिः-३५९। अक। सेट्। पर।)
03
=>
(श्लो। ८७)
04
=>
[पृष्ठम्११५१+ २६]
05
=>
(१५७)
1 {@“लड जिह्वोन्मथने”@} 2 घटादिः।
जिह्वया उन्मथनम् 3 जिह्वोन्मथनम् इति केचित्।
जिह्वायाः उन्मथनम् 4 इति मैत्रेयः।
जिह्वा च, उन्मथनं द्वावर्थौ, जिह्वा = जिह्वाव्यापारः इति केचित्।
निरुक्तेषु त्रयेष्वर्थेषु भ्वादिरयं मित्संज्ञक इति समुदितार्थः।
लडयोरेकत्वस्मरणात् ण्यन्तात् युचि-ललना इति रूपम्।
अत्र पदे यथासम्भवमर्थो बोध्यः।
लडकः-डिका, लडकः-डिका, लिलडिषकः-षिका, लालडकः-डिका
लडिता-त्री, लडयिता-त्री, लिलडिषिता-त्री, लालडिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककणतिवत् 5 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१४६४)
02
=>
(१-भ्वादिः-८१४। सक। सेट्। पर।)
03
=>
(= क्लेशकरणं)
04
=>
(=क्षोभणम्)
05
=>
(१५७, १५८)
1 {@“लड उपसेवायाम्”@} 2 ‘लाडयत्युपसेवायां विलासे तु लडेच्छपि।’ 3 इति देवः।
लाडकः-डिका, लिलाडयिषकः-षिका
लाडयिता-त्री, लिलाडयिषिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि चौरादिकगालयतिवत् 4 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१४६५)
02
=>
(१०-चुरादिः-१५४०। सक। सेट्। उभ।)
03
=>
(श्लो। ८७)
04
=>
(३८८)