| YouTube Channel

लज्जकः-ज्जिका (lajjakaH-jjikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“ओ लस्जी व्रीडायाम्”@} 2 “अयं तवर्गपञ्चमादिः 3 इति चान्द्राः” इति मा।
धा।
वृत्तौ।
“आत्रेयमैत्रेयस्वामिसंमताकारशाकटायनादयः सर्वे यणादिमेवाहुः।
4 ‘नग्नशब्दस्तु पृषोदरादित्वाद्व्यत्ययेन’ इति मैत्रेयः” इति धातुवृत्तौ दर्शनाज्ज्ञायते।
क्षीरस्वामी नग्ननग्निकाशब्दव्याख्याने ‘ओ णजी’ इति पठति।
द्रष्टव्या अमरटीका 5।
6 लज्जकः-ज्जिका, लज्जकः-ज्जिका, लिलज्जिषकः-षिका, लालज्जकः-ज्जिका
लज्जिता-त्री, लज्जयिता-त्री, लिलज्जिषिता-त्री, लालज्जिता-त्री
इत्यादीनि रूपाणि सर्वाणि सन्नन्तरूपाणि विना प्रायः तौदादिकमज्जतिवत् 7 ऊह्यानि।
8 लज्जितम्, शुद्धात् शानचि-- 9 लज्जमानः, लज्जिष्यमाणः, शत्रन्तात् सनि लिलज्जिषन्, लिलज्जिषिष्यन्, इमानि रूपाणि भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१४७७)
02
=>
(६-तुदादिः-१२९१। अक। सेट्। आत्म।)
03
=>
[नस्जी]
04
=>
[पृष्ठम्११५७+ २६]
05
=>
(३-१-३९, २-६-९)
06
=>
[[१। अत्र धातुसकारस्य ‘झलां जश् झशि’ (८-४-५३) इति जश्त्वेन दकारः। तस्य श्चुत्वेन जकारः इति केचित्। श्चुत्वे कर्तव्ये सति जश्त्वनिष्पन्नस्य दकारस्या- सिद्धत्वात् नैतत् सारम्। वस्तुतः जश्त्वस्यासिद्धत्वात् सकारस्य श्चुत्वेन शकारः। तस्य ‘झलां जश् झशि’ (८-४-५३) इति जश्त्वेन जकार इत्येव न्याय्यम्।]]
07
=>
(१२३५)
08
=>
[[२। लज्जितम् इत्यस्योपपत्तिस्तु लज्जाशब्दात् ‘तदस्य संजातं तारकादिभ्य इतच्’ (५-२-३६) इति इतच्प्रत्यये।]]
09
=>
[[आ। ‘…अलग्नमनसः खलानवशलज्जमानाङ्गनम्।।’ धा। का। २-७२।]]