| YouTube Channel

लछ (lacha)

 
धातुप्रदीपः
Sanskrit
लछँ लछ
मानकरूपान्तरम् - लाछिँ
लाछि लक्षणे
- लच्छति लाञ्छति लाञ्छनम् ल्युट् लाञ्छो जारः मत्वर्थे इनिः-लाञ्छिनी ।। 203, 204 ।।
शब्दकल्पद्रुमः
Sanskrit
लछ, लक्ष्मणि इति कविकल्पद्रुमः
(भ्वा०-पर०-सक०-सेट् ।) लछति वृषं चक्रेण गोपः ।इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
लछ चिह्नकरणे
भ्वा०
पर०
सक०
सेट् लच्छति अलच्छीत्
क्षीरतरङ्गिणी
Sanskrit
लछँ लछ
मानकरूपान्तरम् - लाछिँ
लाछि लक्षणे
-(अर्थविवरणम्) लक्षणं चिह्नम्
लच्छति, लाञ्छति लाञ्छनम् 203, 204
धातुवृत्तिः
Sanskrit
लछँ लछ
मानकरूपान्तरम् - लाछिँ
लाछि (अर्थः) लक्षणे
( लच्छति ललच्छ लच्छितेत्यादि ) ( सूत्रम्) छे (इति सूत्रम्) ह्रस्वस्य छे परतस्तुगिति तुक् अलच्छीदित्यत्रान्तरङ्गत्वात्पूर्वं तुकि अकारस्यालघुत्वाद् "अतो हलादे'' इति वा वृद्धिर्न भवति तथा ललच्छेत्यादौ "अत उपधायाः''इति वृद्धिरनुपधात्वान्न भवति लाञ्छतीत्यादिपूर्ववत्, लालाञ्छ्यत इत्यादाविदित्त्वान्नलोपो भवति ( लाञ्छः ) "क्विप्'' इति सोपपदनिरुपपदसाधरणे क्विपि तस्य लोपे "च्छ्वेः शूडनु'' इत्यत्र द्विच्छारनिर्देशः, एकः सतुक्को ऽपरः केवल इति न्यासपदमञ्जर्यादिषूक्तत्वात् ( लान् लांशौ लांश ) इत्यादि भवति च्छ्वोरिति निर्द्देशः पूर्वं वितुकसतुक्कयोः समाहारद्वन्द्वे पश्चाद् वकारेणेतरेतरयोगे द्विवचनयथासङ्ययोरुपपत्तिः, "द्वन्द्वाच्चुदषहान्तात् इति समासान्तः सौत्रत्वान्न भवति हरदत्तस्तु सतुक्छकारवकारयोः समाहारद्वन्द्वे पश्चाद्वितुक्छेनेतरेतरयोग इति समासान्ताभावो द्विवचनोपपत्तिश्चेति अत्र मते सतुक्कस्यापि च्छुकारस्योठ् स्यादिति तदभावे यत्नः कर्त्तव्यः एवं यङ्कलुक्यपि शत्त्वं ( लालांष्टि लार्लाष्टि लालांष्ट इत्यादि पूर्ववद्भवति ) शूङ्विधौ क्ङ्गिद्ग्रहणानुवृत्तिपक्षे लालांष्टीत्यादौ ब्रश्चादिसूत्रे छग्रहणे षत्वम्, तत्रापि पूर्ववत् केवलोपि छो गृह्यते 205
कृदन्तरूपमाला
Sanskrit
1 {@“लछ लक्षणे”@} 2 लच्छकः-च्छिका, लच्छकः-च्छिका, लिलच्छिषकः-षिका, लालच्छकः-च्छिका
लच्छिता-त्री, लच्छयिता-त्री, लिलच्छिषिता-त्री, लालच्छिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकचलतिवत् 3 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१४५५)
02
=>
(१-भ्वादिः-२०६। अक। सेट्। पर।)
03
=>
(५१०)