| YouTube Channel

लङ्घनं (laGghanaM)

 
शब्दकल्पद्रुमः
Sanskrit
लङ्घनं,
क्ली,
(लङ्घ + ल्युट् ।) उपवासः (यथा, सुश्रुते ४६ ।“तत्रामे लङ्घनं कार्य्यं विदग्धे वमनं हितम् ।विष्टब्धे स्वेदनं पथ्यं रसशेषे शयीत
”यथा ।“लङ्घनं बृंहणं काले रूक्षणं स्नेहनन्तथा ।स्वेदनं स्तम्भनञ्चैव जानीते यः वै भिषक्
”“तदग्निवेशस्य वचो निशम्य गुरुरब्रवीत् ।यत्किञ्चिल्लाघवकरं देहे तल्लङ्घनं स्मृतम्
”“लघूष्णतीक्ष्णविषदं रूक्षं सूक्ष्मं खरं सरम् ।कठिनञ्चैव यद्द्रव्यं प्रायस्तल्लङ्घनं स्मृतम्
”“--पिपासा मारुतातपौ ।पाचनान्युपवासाश्च व्यायामश्चेति लङ्घनम्
”“प्रभूतश्लेष्मपित्तास्रमलाः सन्दुष्टमारुताः ।बृहच्छरीरा बलिनो लङ्घनीया विशुद्धिभिः
”“त्वग्दोषिणां प्रमीढानां स्निग्धाभिष्यन्दिबृंहि-नाम् ।शिशिरे लङ्घनं शस्तमपि वातविकारिणाम्
”इति चरके सूत्रस्थाने द्वाविंशेऽध्याये
“ज्वरे लङ्घनमेवादावुपदिष्टमृते ज्वरात् ।क्षयानिलभयक्रोधकामशोकश्रमोद्भवात्
आमाशयस्थो हत्वाग्निं सामो मार्गान् पिधा-पयन् ।विदधाति ज्वरं दोषस्तदा लङ्घनमाचरेत्
अनवस्थितदोषाग्नेर्लङ्घनं दोषपाचनम् ।ज्वरघ्नं दीपनं काङ्क्षारुचिलाघवकारकम्
प्राणाविरोधिना चैनं लङ्घनेनोपपादयेत् ।बलाधिष्ठानमारोग्यं यदर्थोऽयं क्रियाक्रमः
तत्तु मारुतक्षुत्तृष्णामुखशोषभ्रमान्विते ।कार्य्यं बाले वृद्धे वा गर्भिण्यां दुर्ब्बले
वातमूत्रपुरीषाणां विसर्गे गात्रलाघवे ।हृदयोद्गारकण्ठास्यशुद्धौ तन्द्रा क्लमे गते
स्वेदे जाते रुचौ चापि क्षुत्पिपासासहोदये
कृतं लङ्घनमादेश्यं निर्व्यथे चान्तरात्मनि
पर्व्वभेदोऽङ्गमर्द्दश्च कासः शोषो मुखस्य ।क्षुत्प्रणाशोऽरुचिस्तृष्णा दौर्ब्बल्यं श्रोत्रनेत्रयोः
मनसः सम्भ्रमोऽभीक्ष्णमूर्द्ध्ववातस्तमो हृदि ।देहाग्निबलहानिश्च लङ्घनेऽतिकृते भवेत्
”इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे
)क्रमणम् (यथा, कुमारे ६४ ।“यथा श्रुतं वेदविदांवर त्वयाजनोऽयमुच्चैः पदलङ्घनोत्सुकः ।तपः किलेदं तदवाप्तिसाधनंमनोरथानामगतिर्न विद्यते
”)प्लवनम् इति मेदिनी ने, १२०
अग्नि-लङ्घननिषेधो यथा, --“न चाग्निं लङ्घयेद्धीमान्नोपदध्यादधः क्वचित् ।न चैनं पादतः कुर्य्यात् मुखेन धमेद्वधः
”इति कौर्म्मे उपविभागे १५ अध्यायः
(अतिक्रमः यथा, महाभारते १५९ ।३६ ।“न चाप्यधर्म्मः कल्याण बहुपत्नीकता नृणाम् ।स्त्रीणामधर्म्मः सुमहान् भर्त्तुः पूर्व्वस्य लङ्घने
”)अश्वतृतीयगतिः यथा, --“प्लुतन्तु लङ्घनं पक्षिमृगगत्यनुहारकम् ।”इति हेमचन्द्रः
*
(स्त्री, अवमानना यथा, मार्कण्डेये ।१३५ ३३ ।“अन्यस्यापि स्ववंशस्य लङ्घना क्रियते हि या ।तां नालं क्षत्त्रियः सोढुं किं पुनः पितृमार-णम्
”)