| YouTube Channel

लघुः (laghuH)

 
Hindi
Hindi
प्रकाश
शब्दकल्पद्रुमः
Sanskrit
लघुः,
स्त्री,
पृक्का नाम औषधिः इति मेदिनी ।घे,
(तथास्याः पर्य्यायः ।“स्पृक्कासृग्ब्राह्मणी देवी मरुन्माला लता लघुः ।समुद्रान्ता वधूः कोटिवर्षालङ्कोपिकेत्यपि
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)
लघुः, त्रि, (लङ्घ + कुः नलोपश्च ।) अगुरुः ।(यथा, --“तृणादपि लघुस्तूलस्तूलादपि भिक्षुकः ।न नीतो वायुना कस्मादर्थप्रार्थनशङ्कया
”इत्युद्भटः
)मनोज्ञः (इष्टः इत्यमरः
यथा, रघुः ।११ १२ ।“नाम्भसां कमलशोभिनां तथाशाखिनाश्च परिश्रमच्छिदाम् ।दर्शनेन लघुना यथा तयोःप्रीतिमापुरुभयोस्तपस्विनः
”)निःसारः इति मेदिनी घे,
(यथा, रघुः १२ ६६ ।“श्रुत्वा रामः प्रियोदन्तं मेने तत्सङ्गमोत्सुकः ।महार्णवपरिक्षेपं लङ्कायाः परिखालघुम्
”)ह्रस्वः इति हेमचन्द्रः
*
द्याकरणोक्त-लघुसंज्ञा यथा ह्रस्वो लघुः दीर्घो गुरुरित्यु-च्चारणवशाद्गम्यते तथा संयोगे सति ह्रस्वो-ऽपि गुरुर्गुरुमतोऽनृच्छ इति वर्ज्जनाच्च इतिदुर्गसिंहकृतकलापवृत्तिः
*
छन्दःशास्त्रोक्तंलघुलक्षणं यथा, --“मस्त्रिगुरुस्त्रिलघुश्च नकारोभादिगुरुः पुनरादिलघुर्यः ।जो गुरुमध्यगतो रलमध्यःसोऽन्तगुरुः कथितोऽन्तलघुस्तः
गुरुरेको गकारस्तु लकारो लघुरेककः
”इति छन्दोमञ्जरी