| YouTube Channel

लघिष्ठः (laghiSThaH)

 
शब्दकल्पद्रुमः
Sanskrit
लघिष्ठः, त्रि, अयमनयोरेषां वा अतिशयेन लघुःइत्यर्थे इष्ठप्रत्ययेन निष्पन्नः अतिशयलघुत्व-युक्तः इति व्याकरणम्
(यथा, विदग्धमुख-मण्डने ।“भवित्री रम्भोरु त्रिदशवदनम्लानिरधुनास रामोऽपि स्थाता युधि पुरतो लक्षणयुतः ।गमिष्यत्येवोच्चैर्व्विपदमधुना वानरचमू-र्लघिष्ठेदं षष्ठाक्षरपरविलोपात् पठ पुनः
”सीतारावणयोरुक्तिप्रत्युक्तिरियम् सप्तमाक्षर-लोपे त्वेवं वाक्यम् यथा “दशवदनम्लानिः ।”“स्थाता युधि ।” “उच्चैः पदम्
”)