| YouTube Channel

लघिमा (laghimA)

 
Wordnet
Sanskrit
Synonyms:
लघिमा
noun
अष्टानां सिद्धीनां चतुर्
"थी।लघिमायाः सिद्धेः अनन्तरं मनुष्यः अतीव लघुः अगुरुः वा भवति।"
शब्दकल्पद्रुमः
Sanskrit
लघिमा, [न्]
पुं,
(लघोर्भावः लघु + “पृथ्वादिभ्यइमनिज्वा ।” १२२ इति इमनिच् ।)लघुत्वम् (यथा, रघुः १३ ३७ ।“घ्रात्वा हविर्गन्धि रजोविमुक्तःसमश्नुते मे लघिमानमात्मा
”)तत्तु शिवस्याष्टैश्वर्य्यान्तर्गत ऐश्वर्य्यविशेषः यथा, “लघिमा वशितेशित्वं प्राकाम्यं महिमाणिमा ।यत्र कामावसायित्वं प्राप्तिरैश्वर्य्यमष्टधा
”इति हेमचन्द्रः
(अबहुमतत्वम् ह्रस्वत्वम् यथा, आर्य्यासप्त-शत्याम् ६० ।“अग्रे लघिमा पश्चात् महतापि विधीयते नहिमहिम्ना ।वामन इति त्रिविक्रममभिदधति दशावतार-विदः
”)