| YouTube Channel

लगि (lagi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
लङ्ग्
मूलधातुः:
लगि
धात्वर्थः:
गतौ
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
लङ्गति
कृदन्तरूपमाला
Sanskrit
1 {@“लगि गत्यर्थः”@} 2 लङ्गकः-ङ्गिका, लङ्गकः-ङ्गिका, लिलङ्गिषकः-षिका, ललङ्गकः-ङ्गिका
लङ्गिता-त्री, लङ्गयिता-त्री, लिलङ्गिषिता-त्री, लालङ्गिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककङ्कतिवत् 3 ज्ञेयानि।
4 विलगितः-विलङ्गितः।
प्रासङ्गिक्यः
01
=>
(१४५१)
02
=>
(१-भ्वादिः-१४५। सक। सेट्। पर।)
03
=>
(१४०)
04
=>
[[१। ‘लङ्गिकम्प्योरुपतापशरीरविकारयोः--’ (वा। ६-४-२४) इति उपतापार्थे निष्ठायां नलोपः। उपतापो नाम कृच्छ्रप्राप्तिः = मानसं दुःखम्। ‘पीडाव्याध्योः प्रतीपोक्ता लङ्गिकम्प्योर्नलोपिता। निःस्वो विलगितो नित्यं
\n\n वातात् विकपिता तनुः।।’ इति प्रक्रियासर्वस्वम्। एवं क्त्वाप्रत्ययादिषु किन्ङित्प्रत्ययेष्वपि लगित्वा इति उपतापार्थे साधुरिति मन्तव्यम्।]]