| YouTube Channel

लक्ष्मीः (lakSmIH)

 
Apte Hindi
Hindi
लक्ष्मीः
स्त्री*
- "लक्ष्+ई , मुट्+च"
"सौभाग्य, समृद्धि, धन दौलत"
लक्ष्मीः
स्त्री*
- -
"सौभाग्य, अच्छी किस्मत"
लक्ष्मीः
स्त्री*
- -
"सफलता, सम्पन्नता"
लक्ष्मीः
स्त्री*
- -
"सौन्दर्य प्रियता, अनुग्रह, लावण्य, आभा, कान्ति"
लक्ष्मीः
स्त्री*
-
"सौभाग्यदेवी, समृद्धि, सौन्दर्य"
लक्ष्मीः
स्त्री*
- -
"राजकीय या प्रभुशक्ति, उपनिवेश, राज्य"
लक्ष्मीः
स्त्री*
- -
नायक की पत्नी
लक्ष्मीः
स्त्री*
- -
मोती
लक्ष्मीः
स्त्री*
-
हल्दी
Wordnet
Sanskrit
Synonyms:
शमी, सक्तुफला, शिवा, शक्तुफला, शक्तुफली, शान्ता, तुङ्गा, कचरिपुफला, केशमथनी, ईशानी, लक्ष्मीः, तपनतनया, इष्टा, शुभकरी, हविर्गन्धा, मेध्या, दुरितदमनी, शक्तुफलिका, समुद्रा, मङ्गल्या, सुरभिः, पापशमनी, भद्रा, शङ्करी, केशहन्त्री, शिवाफला, सुपत्रा, सुखदा, जीवः
noun
वृक्षविशेषः।
"शम्याः काष्ठस्य उपयोगः पूजाकार्येषु भवति।"
Synonyms:
हरिद्रा, हरित्, सुवर्णा, काञ्चनी, पीता, गौरी, स्वर्णवर्णा, कावेरी, उमा, शिवा, दीर्घरागा, हलद्दी, पौञ्जा, पीतवालुका, हेमनाशा, रञ्जनी, भङ्गवासा, घर्षिणी, पीतिका, रजनी, मेहघ्नी, बहुला, वर्णिनी, रात्रिनामिका, निशाह्वा, निशा, शर्वरी, वरवर्णिनी, वर्णदाता, मङ्गलप्रदा, हेमरागिणी, घर्षणी, जनेष्टा, कृमघ्नी, लसा, यामिनी, वराङ्गी, वरा, वर्णदात्री, पवित्रा, हरिता, विषघ्नी, पिङ्गा, मङ्गल्या, मङ्गला, लक्ष्मीः, भद्रा, शिफा, शोभा, शोभना, सुभगाह्वया, श्यामा, जयन्तिका
noun
ओषधिमूलविशेषः। हरिद्रा नाम ओषधेः पीतवर्णीयानि मूलानि ये जनैः पाकादिषु व्यञ्जनत्वेन उपयुज्यन्ते। रक्तशुद्धिकरत्वात् ते भेषजे तथा देहवर्णविधायित्वात् प्रसाधकेषु उपयुज्यन्ते।
"हरिद्रायाः लेपेन त्वक्शुद्धिः भवति।"
Synonyms:
रुक्मिणी, ईः, रमा, सिन्धुजा, सामा, चला, हीरा, चठ्चला, वृषाकपायी, चपला, इन्दिरा, लक्ष्मीः, पदमालया, पद्मा, कमला, श्रीः, हरिप्रिया
noun
कृष्णस्य राज्ञी वैदर्भपुत्री च।
"रुक्मिणेः गर्भात् प्रद्युम्नः जातः।"
Synonyms:
हरिद्रा, हरित्, सुवर्णा, काञ्चनी, पीता, गौरी, स्वर्णवर्णा, कावेरी, उमा, शिवा, दीर्घरागा, हलद्दी, पौञ्जा, पीतवालुका, हेमनाशा, रञ्जनी, भङ्गवासा, घर्षिणी, पीतिका, रजनी, मेहघ्नी, बहुला, वर्णिनी, रात्रिनामिका, निशाह्वा, निशा, शर्वरी, वरवर्णिनी, वर्णदाता, मङ्गलप्रदा, हेमरागिणी, घर्षणी, जनेष्टा, कृमघ्नी, लसा, यामिनी, वराङ्गी, वरा, वर्णदात्री, पवित्रा, हरिता, विषघ्नी, पिङ्गा, मङ्गल्या, मङ्गला, लक्ष्मीः, भद्रा, शिफा, शोभा, शोभना, सुभगाह्वया, श्यामा, जयन्तिका
noun
ओषधिविशेषः अस्य पीतवर्णीयानि मूलानि पाकादिषु व्यञ्जनत्वेन उपयुज्यन्ते रक्तशुद्धिकरत्वात् ते भेषजे तथा देहवर्णविधायित्वात् प्रसाधकेषु अपि उपयुज्यन्ते।
"समये अकृतेन सिंचनेन हरिद्रा शुष्का जाता। / हरिद्रा कफ-पित्तास्त्रशोथ-कण्डुव्रणापहा।"
Synonyms:
धनम्, वित्तम्, विभवः, अर्थः, वैभवम्, सम्पत्तिः, द्रविणम्, द्रव्यम्, राः, रिक्थम्, ऋक्थम्, हिरण्यम्, द्युम्नम्, स्वापतेयम्, भोग्यम्, घसु, स्वापतेयम्, वसु, द्युम्नम्, काञ्चनम्, लक्ष्मीः, सम्पत्, वृद्धिः, श्रीः, व्यवहार्यम्, रैः, भोगः, स्वम्, रेक्णः, वेदः, वरिवः, श्वात्रम्, रत्नम्, रयिः, क्षत्रम्, भगः, मीलुम्, गयः, द्युम्नः, इन्द्रियम्, वसु, रायः, राधः, भोजनम्, तना, नृम्णम्, बन्धुः, मेधाः, यशः, ब्रह्म, श्रंवः, वृत्रम्, वृतम्
noun
सुवर्णरुप्यकादयः।
"साधु कार्यार्थे एव धनस्य वियोगः करणीयः।"
Synonyms:
लक्ष्मीः, रमा, कमला, नारायणी, पद्महस्ता, श्रीः, विष्णुप्रिया, मा, माया, हरिप्रिया, पद्मा, पद्मालया, भार्गवी, चञ्चला, इन्दिरा, अब्जवाहना, अब्जा, अब्धिजा, अम्बुजासना, अमला, ईश्वरी, देवश्री, पद्ममालिनी, पद्मगुणा, पिङ्गला, मङ्गला, श्रिया, श्रीप्रदा, सिन्धुजा, जगन्मयी, अमला, वरवर्णिनी, वृषाकपायी, सिन्धुकन्या, सिन्धुसुता, जलधिजा, क्षीरसागरसुता, दुग्धाब्धितनया, क्षीरसागरकन्यका, क्षीरोदतनया, लोकजननी, लोकमाता
noun
धनस्य अधिष्ठात्री देवता या विष्णुपत्नी अस्ति इति मन्यते।
"धनप्राप्त्यर्थे जनाः लक्ष्मीं पूजयन्ति।"
वैजयन्तीकोषः
Sanskrit
Word: लक्ष्मीः
Root: लक्ष्मी
Gender: स्त्री
Number: all
अर्थः विष्णोः पत्नी
Meaning(s):
Wife of Viṣṇu
Shloka(s):
1|1|36|1 लक्ष्मीः पद्मालया शक्तिर्मा क्षीरोदसुतेन्दिरा। (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|36|2 रमाब्जिधा भार्गवी स्त्रीलिङ्गाश्चाम्बुजाह्वयाः॥ (स्वर्गकाण्डः/आदिदेवाध्यायः)
Synonym(s):
1|1|36|1 लक्ष्मीः (लक्ष्मी) (स्त्री) Wife of Viṣṇu विष्णोः पत्नी
1|1|36|1 पद्मालया (पद्मालया) (स्त्री) Epithet of Lakṣmi विष्णोः पत्नी
1|1|36|1 शक्तिः (शक्ति) (स्त्री) Epithet of Lakṣmi विष्णोः पत्नी
1|1|36|1 मा (मा) (स्त्री) Epithet of Lakṣmi विष्णोः पत्नी
1|1|36|1 क्षीरोदसुता (क्षीरोदसुता) (स्त्री) Epithet of Lakṣmi विष्णोः पत्नी
1|1|36|1 इन्दिरा (इन्दिरा) (स्त्री) Epithet of Lakṣmi विष्णोः पत्नी
1|1|36|2 रमा (रमा) (स्त्री) Epithet of Lakṣmi विष्णोः पत्नी
1|1|36|2 अब्धिजा (अब्धिजा) (स्त्री) Epithet of Lakṣmi विष्णोः पत्नी
1|1|36|2 भार्गवी (भार्गवी) (स्त्री) Epithet of Lakṣmi विष्णोः पत्नी
1|1|36|2 अम्बुजा (अम्बुजा) (स्त्री) Epithet of Lakṣmi विष्णोः पत्नी
Related word(s):
पति_पत्नीसंबन्धः विष्णुः
जातिः देवता
Tamil
Tamil
லக்ஷ்மீ: : லக்ஷ்மீ தேவி, அதிருஷ்டம், செல்வம், செழிப்பு, அழகு, காந்தி, முத்து, மஞ்சள்.
शब्दकल्पद्रुमः
Sanskrit
लक्ष्मीः,
स्त्री,
(लक्षयति पश्यति उद्योगिनमिति ।लक्षि + “लक्षेर्मुट् ।” उणा० १६० इतिईप्रत्ययो मुडागमश्च ।) विष्णुपत्नी तत्पर्य्यायः ।पद्मालया पद्मा कमला श्रीः हरि-प्रिया इन्दिरा लोकमाता मा ९क्षीराब्धितनया १० रमा ११ इत्यमरः
जलधिजा १२ भार्गवी १३ इति शब्दरत्ना-वली
हरिवल्लभा १४ दुग्धाब्धितनया १५क्षीरसागरसुता १६ इति कविकल्पलता
*
अथ लक्ष्मीमन्त्राः ।“वान्तं वह्निसमारूढं वामनेत्रेन्दुसंयुतम् ।बीजमेतत् श्रियः प्रोक्तं सर्व्वकामफलप्रदम्
*
अस्य पूजाप्रयोगः प्रातःकृत्यादिपीठन्यासान्तंकर्म्म विधाय हृत्पद्मस्य पूर्व्वादिकेशरेषु मध्ये चपीठशक्तीः पीठमनुञ्च न्यसेत् ओँ विभूत्यैनमः एवं उन्नत्यै कान्त्यै सृष्ट्यै कीर्त्त्यै सन्नत्यैव्युष्ट्यै उत्कृष्ट्यै ऋद्ध्यै ततः श्रीकमलासनायनमः इत्यासनं विन्यस्य ऋष्यादिन्यासं कुर्य्यात् ।शिरसि भृगुऋषये नमः मुखे निवृच्छन्दसे नमः ।हृदि श्रियै देवतायै नमः ततः कराङ्गन्यासौकुर्य्यात् श्रां अङ्गुष्ठाभ्यां नमः श्रीं तर्जनीभ्यांस्वाहा श्रूं मध्यमाभ्यां वषट् इत्यादि ।एव श्रां हृदयाय नमः इत्यादिना न्यसेत् ।तथा निबन्धे ।“अङ्गानि दीर्घयुक्तेन रमाबीजेन कल्पयेत् ।”ततो ध्यानम् ।“कान्त्या काञ्चनसन्निभां हिमगिरिप्रख्यै-श्चतुर्भिर्गजैर्हस्तोत्क्षिप्तहिरण्मयामृतघटैराषिच्यमानांश्रियम् ।बिभ्राणां वरमब्जयुग्ममभयं हस्तैः किरीटो-ज्ज्वलांक्षौमाबद्धनितम्बविम्बललितां वन्देऽरविन्द-स्थिताम्
”एवं ध्यात्वा मानसैः संपूज्य शङ्खस्थापनं कुर्य्यात् ।ततः पीठपूजां विधाय केशरेषु मध्ये विभू-त्यादिपीठमन्वन्तपूजां विधाय पुनर्ध्यात्वा आवा-हनादिपञ्चपुष्पाञ्जलिदानपर्य्यन्तं विधाय आव-रणपूजामारभेत् अग्न्यादिकेशरेषु मध्ये दिक्षुच श्रां हृदयाय नमः इत्यादिना संपूज्य दिग्-दलेषु पूर्व्वादिषु ओँ वासुदेवाय नमः एवं सङ्क-र्षणाय प्रद्युम्नाय अनिरुद्धाय विदिग्दलेषु ओँदमकाय ओँ सलिलाय ओँ गुग्गुलवे ओँ कुरु-ण्टकाय ततो देव्या दक्षिणे ओँ शङ्खनिधयेनमः एवं वसुधारायै वामे ओँ पद्मनिधयेवसुमत्यै पत्राग्रेषु पूर्व्वादिषु ओँ वलाक्यै नमः ।एवं विमलायै कमलायै वनमालिकायै विभी-षिकायै शाङ्कर्य्यै वसुमालिकायै तद्बहिरिन्द्रा-दीन् वज्रादींश्च पूजयेत् ततो धूपादिविस-र्जनान्तं कर्म्म समापयेत् अस्य पुरश्चरणंद्वादशलक्षजपः तथा ।“भानुलक्षं जपेन्मन्त्रं दीक्षितो विजितेन्द्रियः ।तत्सहस्रञ्च जुहुयात् कमलैर्मधुराप्लुतैः ।जपान्ते जुहुयान्मन्त्री तिलैर्वा मधुराप्लुतैः ।विल्वैः फलैर्व्वा जुहुयात्त्रिभिर्व्वा साधकोत्तमः
वाग्भवं वनिता विष्णोर्माया मकरकेतनः ।चतुर्ब्बीजात्मको मन्त्रश्चतुर्व्वर्गफलप्रदः
”वाग्भवं ऐं विष्णुवनिता श्रीँ माया ह्रीँ ।मकरकेतनः क्लीँ अस्य पूजादिकं पूर्व्ववद्-बोध्यम् तथा ।“रमायाः कल्पिते पीठे तद्बिधानेन पूजयेत् ।कुर्य्यात् प्रयोगान् तत्रस्थाननेन साधकोत्तमः
निधिभिः सेव्यते नित्यं मूर्त्तिमद्भिरुपस्थितैः
”ध्याने तु विशेषः ।“माणिक्यप्रतिभप्रभां हिमनिभैस्तुङ्गैश्चतुर्भिर्गजै-र्हस्तग्राहितरत्नकुम्भसलिलैराषिच्यमानां सदा ।हस्ताब्जैर्वरदानमम्बुजयुगाभीतीर्दधानां हरेःकान्तां काङ्क्षितपारिजातलतिकां वन्दे सरोजा-सनाम्
”अस्य पुरश्चरणं द्वादशलक्षजपः तथा ।“भानुलक्षं हविष्याशी जपेदन्ते सरोरुहैः ।जुहुयादरुणैः पुष्पैस्तत्सहस्रं जितेन्द्रियः
”मन्त्रान्तरम् नमः कमलान्ते वासिन्यै ठद्वय-मिति प्रोक्तो दशाक्षरः तथा निबन्धे ।“दीर्घा यादिर्विसर्गान्तो ब्रह्मा भानुर्व्वसुन्धरा ।वान्तेसिन्यै प्रिया वह्नेर्मनुः प्रोक्तो दशाक्षरः
”“दीर्घा नकारः यादिर्मः ब्रह्मा कः ।भानुर्मः वसुन्धरा लः वान्तेसिन्यै वासिन्यै ।वह्निप्रिया स्वाहा अस्य पूजाप्रयोगः पूर्व्व-वत् पीठमन्वन्तं विन्यस्य ऋष्यादिन्यासंकुर्य्यात् शिरसि दक्षऋषये नमः मुखेविराट्छन्दसे नमः हृदि श्रियै देवतायै नमः ।तथा शारदायाम् ।“ऋषिर्दक्षो विराट्छन्दो देवता श्रीः प्रकीर्त्तिता
”ततः कराङ्गन्यासौ ओँ देव्यै नमोऽङ्गुष्ठाभ्यांनमः ओँ पद्मिन्यै नमस्तर्जनीभ्यां स्वाहा ।ओँ विष्णुपत्न्यै नमो मध्यमाभ्यां वषट् ।ओँ वरदायै नमोऽनामिकाभ्यां हुं ।ओँ कमलरूपायै नमः कनिष्ठाभ्यां फट् एवंहृदयादिषु ओँ देव्यै नमो हृदयाय नमइत्यादि तथा निबन्धे ।“देव्यै हृदयमाख्यातं पद्मिन्यै शिर ईरितम् ।विष्णुपत्न्यै शिखा प्रोक्ता वरदायै तनुच्छदम् ।अस्त्रं कमलरूपायै नमोऽन्ताः प्रणवादिकाः
”ततो ध्यानम् ।“आसीना सरसीरुहे स्मितमुखी हस्ताम्बुजै-र्बिभ्रतीदानं पद्मयुगाभये वपुषा सौदामिनी-सन्निभा ।मुक्ताहारविराजमानपृथुलोत्तुङ्गस्तनोद्भाषिणीपायाद्वः कमला कटाक्षविभवैरानन्दयन्तीहरिम्
”एवं ध्यात्वा मानसैः संपूज्य शङ्खस्थापनंकृत्वा पूर्व्वोक्तपीठशक्तिसहितपीठमन्वन्तां पूजांविधाय पूनर्ध्यात्वावाहनादिपञ्चपुष्पाञ्जलिदान-पर्य्यन्तं विधायावरणपूजामारभेत् अग्न्यादि-चतुष्क दिक्षु ओँ देव्यै नमो हृदयाय नमः ।ओँ पद्मिन्यै नमः शिरसे स्वाहा ओँ विष्णु-पत्न्यै नमः शिखायै वषट् ओँ वरदायै नमःकवचाय हुम् ओँ कमलरूपायै नमोऽस्त्रायफट् ततः पूर्व्वादिदलेषु पूर्व्ववत् वलाक्यादिपूजयेत् तद्बहिरिन्द्रादीन् वज्रादींश्च पूजयेत् ।ततो धूपादिविसर्जनान्तं कर्म्म समापयेत् ।अस्य पुरश्चरणं दशलक्षजपः तथा ।“दशलक्षं जपेन्मन्त्रं मन्त्रविद्बिजितेन्द्रियः ।दशांशं जुहुयान्मन्त्री मधुराक्तैः सरोरुहैः
*
अथ लक्ष्मीस्तोत्रम् ।ईश्वर उवाच ।“त्रैलोक्यपूजिते देवि ! कमले विष्णुवल्लभे ।यथा त्वं सुस्थिरा कृष्णे तथा भव मयि स्थिरा
ईश्वरी कमला लक्ष्मीश्चला भूतिर्हरिप्रिया ।पद्मा पद्मालया सम्पत्सृष्टिः श्रीः पद्मधारिणी
द्बादशैतानि नामानि लक्ष्मीं संपूज्य यः पठेत् ।स्थिरा लक्ष्मीर्भवेत् तस्य पुत्त्रदारादिभिः सह
”इति तन्त्रसारः
विष्णुपुराणोक्तलक्ष्मीस्तोत्रं तत्रैव अंशे९ अध्याये द्रष्टव्यम्
*
अथ लक्ष्मीपूजा-निरूपणम् यथा, स्कन्दपुराणे ।“पौषे चैत्रे तथा भाद्रे पूजयेयुः स्त्रियः श्रियम् ।सिंहे धनुषि मीने स्थिते सप्ततुरङ्गमे
प्रत्यब्दं पूजयेल्लक्ष्मीं शुक्लपक्षे गुरोर्दिने ।नापराह्णे रात्रौ नासिते त्र्यहस्पृशि
द्वादश्याञ्चैव नन्दायां रिक्तायाञ्च निरंशके ।त्रयोदश्यां तथाष्टम्यां कमलां नैव पूजयेत्
पूजयेत् शनौ भौमे बुधे नैव भार्गवे ।पूजयेत्तु गुरोर्वारे चाप्राप्ते रविसोमयोः
गुरुवारे हि पूर्णा यत्नेन यदि लभ्यते ।तत्र पूज्या तु कमला धनपुत्त्रविवर्द्धिनी
कुर्य्यात् प्रथमे मासि नैव कुर्य्याद्बिसर्जनम् ।न घण्टां वादयेत्तत्र नैव झिण्टीं प्रदापयेत्
पौषे दशमी शस्ता चैत्रके पञ्चमी तथा ।नभस्ये पूर्णिमा ज्ञेया गुरुवारे विशेषतः
आढकं धान्यसम्पूर्णं नानाभरणभूषितम् ।सुगन्धिशुक्लपुष्पेण शुक्लपक्षे प्रपूजयेत्
पौषे तु पिष्टकं दद्यात् परमान्नञ्च चैत्रके ।पिष्टकं परमान्नञ्च नभस्ये तु विशेषतः
गुरुवारसमायुक्ता नभस्ये पूर्णिमा शुभा ।कमलां पूजयेत्तत्र पुनर्ज्जन्म विद्यते
एकेन कमलेनैव कमलां पूजयेद् यदि ।इह लोके सुखं प्राप्य परत्र केशवं व्रजेत्
प्राङ्मुखी पूजयेल्लक्ष्मीं पश्चिमाननसंस्थिताम् ।गन्धपुष्पधूपदीपनैवेद्याद्युपचारकैः
गन्धद्वारेतिमन्त्रेण गन्धेनावाहयेदसौ ।श्रिये जात इति द्वाभ्यां पुष्पैरावाहयेत्ततः
”ततो ध्यानम् ।“हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजम् ।चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदसमावहाम्
गौरवर्णान्तु द्बिभुजां सितपद्मोपरिस्थिताम् ।विष्णोर्व्वक्षःस्थलस्थाञ्च जगच्छोभाप्रकाशिनीम्
ध्यायेदाद्यां सदा देवीं पूजाकाले विशेषतः ।ततः पूजादिकं कुर्य्यात् श्रीं लक्ष्मीं नम इत्यृचा
लक्ष्मीः पद्मालया पद्मा कमला श्रीर्धतिः क्षमा ।तुष्टिः पुष्टिस्तथा कान्तिर्मेधा विद्या रमा श्रुतिः
हरिप्रिया तथा विष्णोः प्रिया नारायणस्य ।एताभिः सप्तदशभिर्लक्ष्मीबीजादिनार्च्चयेत्
लक्ष्मीनारायणाभ्याञ्च नमोऽन्तेन प्रपूजयेत् ।धिषणञ्च कुबेरञ्च पूजयेत्तदनन्तरम्
”लक्षीचरित्रे ।“न कृष्णपक्षे रिक्तायां दशमीद्वादशीषु ।श्रवणादिचतुरृक्षे लक्ष्मीपूजां कारयेत्
”इति कालचन्द्रिका
दीपान्वितामावस्यायां लक्ष्मीपूजाविधिर्यथा, --“तुलारासिगते भानौ अमावास्यां नराधिपः ।स्नात्वा देवान् पितॄन् भक्त्या संपूज्याथ प्रणम्य
कृत्वा तु पार्व्वणश्राद्धं दधिक्षीरगुडादिभिः ।ततोऽपराह्णसमये घोषयेन्नगरे नृपः ।लक्ष्मीः संपूज्यतां लोका उल्काभिश्चाभिवेष्ट्य-ताम्
अमावास्या यदा रात्रौ दिवाभागे चतुर्द्दशी ।पूजनीया तदा लक्ष्मीर्विज्ञेया सुखरात्रिका
अमावास्यां यदा देवाः कार्त्तिके मासि केश-वात् ।अभयं प्राप्य सुप्ताश्च क्षीरोदार्णवसानुषु
लक्ष्मीर्दैत्यभयान्मुक्ता सुखं सुप्ताम्बुजोदरे ।चतुर्युगसहस्रान्ते ब्रह्मा स्वपिति पङ्कजे
अतोऽत्र विधिवत् कार्य्या मनुष्यैः सुखसुप्तिका ।दिवा तत्र भोक्तव्यमृते बालातुराज्जनात्
प्रदोषसमये लक्ष्मीं पूजयित्वा यथाक्रमम् ।दीपवृक्षास्तथा कार्य्या भक्त्या देवगृहेष्वपि
चतुष्पथश्मशानेषु नदीपर्व्वतसानुषु ।वृक्षमूलेषु गोष्ठेषु चत्वरेषु गृहेषु
वस्त्रैः पुष्पैः शोभितव्याः क्रयविक्र भूमयः ।दीपमालापरिक्षिप्ते प्रदोषे तदनन्तरम्
ब्राह्मणान् भोजयित्वादौ विभज्य बुभुक्षि-तान् ।अलङ्कृतेन भोक्तव्यं नववस्त्रोपशोभिना ।स्निग्धैर्मुग्धैर्व्विदग्धैश्च बान्धवैर्भृतकैः सह
”अत्र लक्ष्मीपूजायां पुष्पदानकाले ।“नमस्ते सर्व्वदेवानां वरदासि हरिप्रिये ! ।या गतिस्त्वत्प्रपन्नानां सा मे भूयात्त्वदर्च्चनात्
”लक्ष्म्यै नम इत्यनेन वारत्रयं पूजयेत् ।“सुखरात्र्यां प्रदोषे तु कुबेरं पूजयन्ति ये
”इति रुद्रधरधृतात् कुबेरमपि पूजयन्ति ।“धनदाय नमस्तुभ्यं निधिपद्माधिपाय ।भवन्तु त्वत्प्रसादान्मे धनधान्यादिसम्पदः
”इति पठित्वा कुबेराय नम इति त्रिः पूजयेत् ।ततो देवगृहादिषु दीपान् दद्यात् तत्रमन्त्रः ।“अग्निज्योती रविज्योतिश्चन्द्रज्योतिस्तथैव ।उत्तमः सर्व्वज्योतीनां दीपोऽयं प्रतिगृह्यताम्
”ततो ब्राह्मणान् बन्धूंश्च भोजयित्वा स्वयं भुक्त्वासुखं सुप्त्वा प्रत्यूषे भविष्योक्तं कर्म्म कुर्य्यात् ।तथा, --“सुखरात्रेरुषःकाले प्रदीपोज्ज्वलितालये ।बन्धूर्ब्बन्धूनबन्धूंश्च वाचा कुशलयार्च्चयेत्
प्रदीपवन्दनं कार्य्यं लक्ष्मीमङ्गलहेतवे ।गोरोचनाक्षतञ्चैव दद्यादङ्गेषु सर्व्वतः
”लक्ष्मीपूजामन्त्रः ।“विश्वरूपस्य भार्य्यासि पद्मे पद्मालये शुभे ।महालक्ष्मि नमस्तुभ्यं सुखरात्रिं कुरुष्व मे
वर्षाकाले महाघोरे यन्मया दुष्कृतं कृतम् ।सुखरात्रिप्रभातेऽद्य तन्मे लक्ष्मीर्व्यपोहतु
या रात्रिः सर्व्वभूतानां या देवेष्ववस्थिता ।संवत्सरप्रिया या सा ममास्तु सुमङ्गला
माता त्वं सर्व्वभूतानां देवानां सृष्टिसम्भवा ।आख्याता भूतले देवि ! सुखरात्रि नमोऽस्तुते
”लक्ष्म्यै नम इति त्रिः पूजयेत् इति तिथ्यादि-तत्त्वम्
*
तस्या उपाख्यानं यथा, --नारद उवाच ।“श्रीकृष्णस्यात्मनश्चैव निर्गुणस्य निराकृतेः ।सावित्रीयमसंवादे श्रुतं सुनिर्म्मलं यशः
तद्गुणोत्कीर्त्तनं सत्यं मङ्गलानाञ्च मङ्गलम् ।अधुना श्रोतुमिच्छामि लक्ष्म्युपाख्यानमेव
केनादौ पूजिता सापि किम्भूता केन वा पुरा ।तद्गुणोत्कीर्त्तनं सत्यं वद वेदविदांवर
श्रीनारायण उवाच ।सृष्टेरादौ पुरा ब्रह्मन् कृष्णस्य परमात्मनः ।देवी वामांशसम्भूता बभूव रासमण्डले
अतीवसुन्दरी रामा न्यग्रोधपरिमण्डला ।यथा द्बादशवर्षीया शश्वत् सुस्थिरयौवना
श्वेतचम्पकवर्णाभा सुखदृश्या मनोहरा ।शरत्पार्व्वणकोटीन्दुप्रभाप्रच्छादितानना
शरन्मध्याह्नपद्मानां शोभामोचनलोचना ।सा देवी द्विधा भूता सहसैवेश्वरेच्छया
समा रूपेण वर्णेन तेजसा वयसा त्विषा ।यशसा वाससा सूक्त्या भूषणेन गुणेन
स्मितेन वीक्षितेनैव वचसा गमनेन ।मधुरेण स्वरेणैव नयेनानुनयेन
तद्बामांशो महालक्ष्मीर्द्दक्षिणांशश्च राधिका ।राधादौ वरयामास द्विभुजञ्च परात्परम्
महालक्ष्मीश्च तत्पश्चाच्चकमे कमनीयकम् ।कृष्णस्तद्गौरवेणैव द्विधारूपो बभूव
दक्षिणांशश्च द्बिभुजो वामांशश्च चतुर्भुजः ।चतुर्भुजाय द्बिभुजो महालक्ष्मीं ददौ पुरा
लक्ष्यते दृश्यते विश्वं स्निग्धदृष्ट्या ययानिशम् ।देवीषु या महती महालक्ष्मीश्च सास्मृता
द्बिभुजो राधिकाकान्तो लक्ष्मीकान्तश्चतुर्भुजः ।शुद्धसत्त्वस्वरूपैश्च गोपैर्गोपीभिरावृतः
चतुर्भुजश्च वैकुण्ठं प्रययौ पद्मया सह ।सर्व्वांशेन समौ द्बौ तौ कृष्णनारायणौ परौ
महालक्ष्मीश्च योगेन नानारूपा बभूव सा ।वैकुण्ठे महालक्ष्मीः परिपूर्णतमा रमा
शुद्धसत्त्वस्वरूपा सर्व्वसौभाग्यसंयुता ।प्रेम्णा सा प्रधाना सर्व्वासु रमणीषु
स्वर्गे स्वर्गलक्ष्मीश्च शक्रसम्पत्स्वरूपिणी ।पातालेषु मर्त्येषु राजलक्ष्मीश्च राजसु
गृहलक्ष्मीर्गृहेष्वेव गृहिणी कलांशया ।सम्पत्स्वरूपा गृहिणां सर्व्वमङ्गलमङ्गला
गवां प्रसूः सा सुरभी दक्षिणा यज्ञकामिनी ।क्षीरोदसिन्धुकन्या सा श्रीरूपा पद्मिनीषु
शोभास्वरूपा चन्द्रे सूर्य्यमण्डलमण्डिता ।विभूषणेषु रत्नेषु फलेषु जलेषु
नृपेषु नृपपत्नीषु दिव्यस्त्रीषु गृहेषु ।सर्व्वशस्येषु वस्त्रेषु स्थानेषु संस्कृतेषु
प्रतिमासु देवानां मङ्गलेषु घटेषु ।माणिक्येषु मुक्तासु माल्येषु मनोहरा
मणीन्द्रेषु हीरेषु क्षीरेषु चन्दनेषु ।वृक्षशाखासु रम्यासु नवमेधेषु वस्तुषु
वैकुण्ठे पूजिता सादौ देवी नारायणेन ।द्वितीये ब्रह्मणा भक्त्या तृतीये शङ्करेण
विष्णुना पूजिता सा क्षीरोदे भारते मुने !स्वायम्भुवेन मनुना मानवेन्द्रैश्च सर्व्वतः
ऋषीन्द्रैश्च मुनीन्द्रैश्च सद्भिश्च गृहिभिर्भवे ।गन्धर्व्वाद्यैश्च नागाद्यैः पातालेषु पूजिता
शुक्लाष्टम्यां भाद्रपदे कृता पूजा ब्रह्मणा ।भक्त्या पक्षपर्य्यन्तं त्रिषु लोकेषु नारद !
चैत्रे पौषे भाद्रे पुण्ये मङ्गलवासरे ।विष्णुना निर्म्मिता पूजा त्रिषु लोकेषु भक्तितः
वर्षान्ते पौषसंक्रान्त्यां मेध्यामावाह्य प्राङ्गणे ।मनुस्तां पूजयामास सा भूता भुवनत्रये
राजेन्द्रेण पूजिता सा मङ्गलेनैव मङ्गला ।केदारेणैव नीलेन नलेन सुवलेन
ध्रुवेणोत्तानपादेन शक्रेण बलिना तथा ।कश्यपेन दक्षेण कर्द्दमेन विवस्वता
प्रियव्रतेन चन्द्रेण कुबेरेणैव वायुना ।यमेन वह्निना चैव वरुणेनैव पूजिता
एवं सर्व्वत्र सर्व्वैश्च वन्दिता पूजिता सदा ।सर्व्वैश्वर्य्याधिदेवी सा सर्व्वसम्पत्स्वरूपिणी
”अपि ।नारद उवाच ।“बारायणप्रिया सा वरा वैकुण्ठवासिनी ।वैकुण्ठाधिष्ठातृदेवी महालक्ष्मीः सनातनी
कथं बभूव सा देवी पृथिव्यां सिन्धुकन्यका ।किं तद्ध्यानञ्च स्तवनं सर्व्वः पूजाविधिक्रमः ।पुरा केन स्तुतादौ सा तन्मां व्याख्यातुमर्हसि
श्रीनारायण उवाच ।पुरा दुर्व्वाससः शापात् भ्रष्टश्रीश्च पुरन्दरः ।बभूव देवसंघश्च मर्त्यलोकश्च नारद !
लक्ष्मीः स्वर्गादिकं त्यक्त्वा रुष्टा परमदुःखिता ।गत्वा लीना वैकुण्ठे महालक्ष्म्याञ्च नारद
तदा शोकाद्ययुर्देवा दुःखिता ब्रह्मणः सभाम् ।ब्रह्माणञ्च पुरस्कृत्य ययुर्वैकुण्ठमेव
वैकुण्ठे शरणापन्ना देवा नारायणे परे ।अतीवदैन्ययुक्ताश्च शुष्ककण्ठौष्ठतालुकाः
तदा लक्ष्मीश्च कलया पुरा नारायणाज्ञया ।बभूव सिन्धुकन्या सा शक्रसम्पत्स्वरूपिणी
तथा मथित्वा क्षीरोदं देवा दैत्यगणैः सह ।संप्रापुश्च वरं लक्ष्म्या ददृशुस्ताञ्च तत्र हि
सुरादिभ्यो वरं दत्त्वा वरमालाञ्च विष्णवे ।ददौ प्रसन्नवदना तुष्टा क्षीरोदशायिने
देवाश्चाप्यसुरग्रस्तं राज्यं प्रापुश्च तद्वरात् ।तां सम्पूज्य सम्भूय सर्व्वत्र निरापदः
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३५ ३६ अध्यायौ ।लक्ष्म्या अगम्यगृहाणि यथा, --“यं यं रुष्टो गुरुर्द्देवो माता तातश्च बान्धवः ।अतिथिः पितृलोकाश्च यामि तस्य मन्दि-रम्
मिथ्यावादी यः शश्वन्नास्तीति वाचकःसदा ।सत्त्वहीनश्च दुःशीलो गेहं तस्य याम्यहम्
सत्यहीनः स्थाप्यहारी मिथ्यासाक्ष्यप्रदायकः ।विश्वासघ्नः कृतघ्नो यो यामि तस्य मन्दिरम्
चिन्ताग्रस्तो भयग्रस्तः शत्रुग्रस्तोऽतिपातकी ।ऋणग्रस्तोऽतिकृपणो गेहं यामि पापिनाम्
दीक्षाहीनश्च शोकार्त्तो मन्दधीः स्त्रीजितःसदा ।पुंश्चलीपतिपुत्त्रौ यौ तद्गेहं नैव याम्यहम्
पुंश्चल्यन्नञ्चावीरान्नं यो भुङ्क्ते कामतः सदा ।शूद्रान्नभोजी तद्याजी तद्गेहं नैव याम्यहम्
यो दुर्व्वाक् कलहाविष्टः कलिः शश्वदघालये ।स्त्री प्रधाना गृहे यस्य यामि तस्य मन्दि-रम्
यत्र नास्ति हरेः पूजा तदीयगुणकीर्त्तनम् ।नोत्सुकश्च प्रशंसायां यामि तस्य मन्दिरम्
कन्यान्नवेदविक्रेता नरघाती हिंसकः ।नरकागारसदृशं यामि तस्य मन्दिरम्
स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं सुरस्य ।यो हरेद्दानहीनश्च यामि तस्य मन्दिरम्
यत् कर्म्म दक्षिणाहीनं मूढधीः कुरुते शठः ।स पापी पुण्यहीनश्च यामि तस्य मन्दिरम्
मातरं पितरं भार्य्यां गुरुपत्नीं गुरुञ्च तम् ।अनाथां भगिनीं कन्यामनन्याश्रयबान्धवान्
कार्पण्याद्यो पुष्णाति सञ्चयं कुरुते सदा ।तद्गृहान्नरकाकारान्न यामि तान्मुनीश्वराः
मूत्रं पुरीषमुत्सृज्य यस्तत् पश्यति मन्दधीः ।यः शेते स्निग्धपादेन यामि तस्य मन्दिरम्
अधौतपादशायी यो नग्नः शेतेऽतिनिद्रितः ।सन्ध्याशायी दिवाशायी यामि तस्य मन्दि-रम्
मूर्ध्नि तैलं पुरो दत्त्वा योऽन्यदङ्गमुपस्पृशेत् ।ददाति पश्चाद्गात्रे वा यामि तस्य मन्दिरम्
दत्त्वा तैलं मूर्द्ध्नि गात्रे विण्मूत्रं यः समुत्सृजेत् ।प्रणमेदाहरेत् पुष्पं यामि तस्य मन्दिरम्
तृणं छिनत्ति नखरैर्नखरैर्व्विलिखेन्महीम् ।गात्रे पादे मलं यस्य यामि तस्य मन्दिरम्
दशनं वसनं यस्य समलं रूक्षमस्तकम् ।विकृतौ ग्रासहासौ यामि तस्य मन्दिरम्
मन्त्रविद्योपजीवी ग्रामयाजी चिकित्सकः ।सूपकृद्देवलश्चैव यामि तस्य मन्दिरम्
विवाहं धर्म्मकार्य्यं वा यो निहन्ति कोपतः ।दिवामैथुनकारी यो यामि तस्य मन्दिरम्
”इत्यादि ब्रह्मवैवर्त्ते गणेशखण्डे लक्ष्मीचरित-न्नाम २३ अध्यायः
*
अपि ।“कुचेलिनं दन्तमलोपधारिणंबह्वाशिनं निष्ठुरवाक्यभाषिणम् ।सूर्य्योदये चास्तमये शायिनंविमुञ्चति श्रीरपि चक्रपाणिनम्
नित्यं छेदस्तृणानां धरणिविलिखनं पादयो-रल्पमार्ष्टि-र्द्दन्तानामल्पशौचं वसनमलिनता रूक्षतामूर्द्धजानाम् ।द्वे सन्ध्ये चापि निद्रा विवसनशयनं ग्रांसहाति-रेकंस्वाङ्गे पीठे वाद्यं निधनमुपनयेत् केशव-स्यापि लक्ष्मीम्
शिरः सुधौतं चरणौ सुमार्ज्जितौवराङ्गनासेवनमल्पभोजनम् ।अनग्नशायित्वमपर्व्वमैथुनंचिरप्रनष्टां श्रियमानयन्ति षट्
यस्य कस्य तु पुष्पस्य पाण्डरस्य विशेषतः ।शिरसा धार्य्यमाणस्य अलक्ष्मीः प्रतिहन्यते
दीपस्य पश्चिमा च्छाया छाया शय्यासनस्य ।रजकस्य तु यत्तीर्थमलक्ष्मीस्तत्र तिष्ठति
”इत्यादि गारुडे ११४ अध्यायः
*
अङ्गविशेषे तस्याः स्थितिफलं यथा, --देवा ऊचुः ।“कथयस्व जगन्नाथ ! केषु स्थानेष्ववस्थिता ।पुरुषाणां फलं किं वा प्रयच्छत्यथ नश्यति
दत्तात्रेय उवाच ।नृणां पादस्थिता लक्ष्मीर्निलयं संप्रयच्छति ।सक्थिनि संस्थिता वस्त्रं रत्नं नानाविधं वसु
कलत्रदा गुह्यसंस्था क्रोडस्थापत्यदायिनी ।मनोरथान् पूरयति पुरुषाणां हृदि स्थिता
लक्ष्मीर्लक्ष्मीवतां श्रेष्ठं कण्ठस्था कण्ठभूषणम् ।अभीष्टबन्धुदारैश्च तथाश्लेषं प्रवासिभिः
मिष्टान्नं वाक्यलावण्यमाज्ञामवितथान्तथा ।मुखसंस्था कवित्वञ्च यच्छत्युदधिसम्भवा
शिरोगता संत्यजति ततोऽन्यं याति संश्रयम् ।सेयं शिरोगता दैत्यान् परित्यजति साम्प्रतम्
”इति मार्कण्डेयपुराणे दत्तात्रेयचरिताध्यायः
*
अथ लक्ष्मीचरित्रम् ।श्रीसूत उवाच ।“मेरुपृष्ठे सुखासीनां लर्क्ष्मो पृच्छति केशवः ।केनोपायेन देवि त्वं नृणां भवसि निश्चला
श्रीरुवाच ।शुक्लाः पारावता यत्र गृहिणी यत्र चोज्ज्वला ।अकलहा वसतिर्यत्र तत्र कृष्ण वसाम्यहम्
धान्यं सुवर्णसदृशं तण्डुला रजतोपमाः ।अन्नञ्चैवातुषं यत्र तत्र कृष्ण वसाम्यहम्
यः संविभागी प्रियवाक्यभाषीवृद्धोपसेवी प्रियदर्शनश्च ।अल्पप्रलापी दीर्घसूत्रीतस्मिन् सदाहं पुरुषे वसामि
यो धर्म्मशीलो विजितेन्द्रियश्चविद्याविनीतो परोपतापी ।अगर्व्वितो यश्च जनानुरागीतस्मिन् सदाहं पुरुषे वसामि
चिरं स्नाति द्रुतं भुङ्क्ते पुष्पं प्राप्य जिघ्रति ।यो पश्येत् स्त्रियं नग्नां नियतं मे प्रियः
त्यागः सत्यञ्च शौचञ्च यत्र एते महागुणाः ।यः प्राप्नोति गुणानेतान् श्रद्धावान् मे प्रियः
सर्व्वलक्षणमध्ये तु त्याग एव विशिष्यते ।काले देशे पात्रे त्यागः प्रशस्यते
नित्यमामलके लक्ष्मीर्नित्यं वसति गोमये ।नित्यं शङ्खे पद्मे नित्यं श्रीः शुक्लवाससि
वसामि पद्मोत्पलशङ्खमध्येवसामि चन्द्रे महेश्वरे ।नारायणे चैव वसुन्धरायांवसामि नित्योत्सवमन्दिरेषु
”वसुन्धरायामित्यत्र वसौ धरायामिति वा पाठः
“यथोपदिष्टा गुरुभक्तियुक्तापत्युर्व्वचो नाक्रमते नित्यम् ।नित्यञ्च भुङ्क्ते पतिभुक्तशेषंतस्याः शरीरे नियतं वसामि
तुष्टा धीरा प्रियवादिनी चसौभाग्ययुक्ता सुशोभना ।लावण्ययुक्ता प्रियदर्शना यापतिव्रता या वसामि तासु
श्यामा मृगाक्षी कृशमध्यभागासुभ्रूः सुकेशी सुगतिः सुशीला ।गभीरनाभिः समदन्तपङ्क्ति-स्तस्याः शरीरे नियतं वसामि
या पापरक्ता पिशुनस्वभावास्वाधीनकान्तः परिभूयते ।अमर्षकामा कुचरित्रशीलातामङ्गनां प्रेतमुखीं त्यजामि
पुष्पं पर्य्युषितं पूतिं शयनं बहुभिः सह ।भग्नासनं कुनारीञ्च दूरतः परिवजयेत्
चिताङ्गारकमस्थीनि वह्निं भस्म द्विजञ्च गाम् ।न पादेन स्पशेत् पादं कार्पासास्थि तुषं गुरुम्
नखकेशोदकञ्चैव मैथुनं पर्व्वसन्ध्ययोः ।वर्जयेन्नग्नशायित्वमेकाकी मिष्टभोजनम्
शिरः सपुष्पं चरणौ सुपूजितौनिजाङ्गनासेवनमल्पभोजनम्अनग्नशायित्वमपर्व्वमैथुनंचिरप्रनष्टां श्रियमानयन्ति षट्
सम्मार्जनीरजोवात निर्गुण्डीं लकुचन्तथा ।रात्रौ विल्वपलाशञ्च कपित्थं वर्जयेद्दधि
स्वगात्रासनयोर्वाद्यं अपूजा मूर्द्धपादयोः ।उच्छिष्टस्पर्शनं मूर्द्ध्नि स्नानाभ्यङ्गञ्च वर्जयेत्
शयनञ्चान्धकारे रात्रिवासो दिने तथा ।म्लानाम्बरं कुबेशञ्च वर्जयेत् शुष्कभोजनम्
परेणोद्बर्त्तितं वक्षः स्वयं माल्यापकर्षणम् ।आलस्यमवसादञ्च कुर्य्याल्लोष्टमर्द्दनम्
शुक्रवारे यत्तैलं शिलापिष्टञ्च दर्शके ।स्वयं वामेन मूर्द्धानं पाणिना नैव संस्पृशेत्
तारकाः पुष्यवन्तो पश्येदशुचिः पुमान् ।नेक्षेद्गुह्यं परस्त्रीणां नास्तं यान्तं दिवाकरम्
कुर्य्यान्नान्यधनाकाङ्क्षां परस्त्रीणां तथैव ।परेषां प्रतिकूलञ्च उदितार्के प्रबोधनम् ।नखकण्टकरक्तैश्च मृत्तिकाङ्गारवारिभिः ।वृथा विलेखनं भूमौ कुर्य्यान्मम काङ्क्षया
स्वयं दोहं स्वयं माल्यं स्वयं घृष्टञ्च चन्दनम् ।नापितस्य गृहे क्षौरं शक्रादपि हरेत् श्रियम्
”स्वयं दोहमित्यत्र ग्रथितञ्चेति वा पाठः ।“न निन्दां गणके विप्रे पादयोर्नर्त्तनन्तथा ।प्रतिकूलञ्चरेत् स्त्रीणां भुक्त्वा दन्तधावनम्
अघृतं मांससूपञ्च नग्नाञ्चैव स्त्रियन्तथा ।भक्षणाद्दशनाच्चैव शक्रादपि हरेत् श्रियम्
मन्त्रैरयुक्तः परदारसेवीआचारहीनः परसेवकश्च ।सङ्कीर्णचारी परिवादशील-स्तं निष्ठुरं दम्भमयं त्यजामि
शयनञ्चार्द्रपादेन रात्रिवासो दिने तथा ।नोत्तरीयमधः कुर्य्यात् शुष्कपादेन भोजनम्
अशुचिं म्लानवस्त्राञ्च दुर्गन्धामसुखावहाम् ।अभूषणामपुष्पाञ्च कुर्य्यादात्मनस्तनुम्
कर्णे वदने घ्राणे तथा करतलेऽपि ।पादे पृष्ठे तथा नेत्रे कुर्य्यादनुलेपनम्
चक्षुर्लग्ने हतं श्रेयो मुखलग्ने धनक्षयः ।दरिद्रः कर्णलग्ने पादपृष्ठे तथायुषः
गन्धं पुष्पं यथा तोयं रत्नञ्चैव महोदधिम् ।गृहीतं प्रथमं वस्त्रं वर्जयेन्न कदाचन
अजरजः खररजस्तथा सम्मार्जनीरजः ।स्त्रीणां पादरजो राजन् शक्रादपि हरेत्श्रियम्
कुचेलिनं दन्तमलप्रधारिणंमहाशठं निष्ठुरवाक्यभाषिणम् ।सूर्य्योदये चास्तमिते तु शायिनंविमुञ्चति श्रीरपि चक्रपाणिनम्
”महाशठमित्यत्र बह्वाशिनमिति वा पाठः ।“नित्यं छेदस्तृणानां क्षितिनखलिखनं पाठः ।रल्पशौचंएकाङ्गे तैलहीनं वसनमलिनताबन्धनं मूर्द्ध-जानाम् ।द्बे सन्ध्ये चापि निद्रा विवसनशयणं ग्रासहासा-तिरेकःस्वाङ्गे पीठे वाद्यं हरति धनपतेः केशव-स्यापि लक्ष्मीम्
”अबन्धनमित्यत्र रूक्षता इति वा पाठः ।“एवं यः कुरुते नित्यं मयोक्तानि केशव ! ।तुष्टा भवामि तस्याहं त्वय्येषा निश्चला यथा
श्रीभाषितमिदं स्तोत्रं प्रातरुत्थाय यः पठेत् ।तद्गृहं विपुलं रम्यं नित्यं भवति नान्यथा
व्याधितो मुच्यते रोगी बद्धो मुच्येत बन्धनात् ।आपदस्तस्य नश्यन्ति तमः सूर्य्योदये यथा
”इति स्कन्दपुराणे लक्ष्मीकेशवसंवादे लक्ष्मी-चरित्रं समाप्तम्
*
दुर्गा यथा, --“स्तुतिः सिद्धिरिति ख्याता श्रिया संश्रयणाच्च वा ।लक्ष्मीर्व्वा ललना वापि क्रमात् सा कान्ति-रुच्यते
इति देवीपुराणे ५५ अध्यायः
सम्पत्तिः शोभा ऋद्ध्यौषधम् वृद्धिनामौ-षधम् फलिनीवृक्षः इति मेदिनी मे, २८
सीता वीरयोषित् इति शब्दरत्नावली
स्थलपद्मिनी हरिद्रा शमी द्रव्यम् मुक्ता ।इति राजनिर्घण्टः
मोक्षप्राप्तिः इतिचण्डीटीकायां नागभट्टः
(शोभा यथा, कुमारे ४९ ।“कपालनेत्रान्तरलब्धमार्गै-र्ज्यातिःप्ररोहैरुदितैः शिरस्तः ।मृणालसूत्राधिकसौकुमार्य्यांबालस्य लक्ष्मीं ग्लपयन्तमिन्दोः
”)