| YouTube Channel

लक्ष्मणः (lakSmaNaH)

 
Apte Hindi
Hindi
लक्ष्मणः
पुं*
- -
सारस
लक्ष्मणः
पुं*
- -
सुमित्रा नामक पत्नी से उत्पन्न दशरथ का एक पुत्र
Wordnet
Sanskrit
Synonyms:
सारसः, गोनर्दः, गृहसारसः, कामिवल्लभः, कामी, नीलकण्ठः, पुष्करः, पुष्कराख्यः, पुष्कराह्वः, पुष्कराह्वयः, रसिकः, लक्षणः, मैथुनी, लक्ष्मणः, श्येनाख्यः
noun
बादामस्य वर्णस्य एकः बकः।
"सारसस्य चञ्चुः कृशः दृढः भवति।"
Synonyms:
लक्ष्मणः, सौमित्रः
noun
राज्ञः दशरथस्य सुमित्रायाः गर्भात् जातः पुत्रः।
"लक्ष्मणः शेषस्य अवतारः अस्ति इति मन्यन्ते।"
Synonyms:
सारसः, पुष्कराह्वः, गोनर्दः, नाङ्कुरः, लक्ष्मणः, लक्षणः, सरसीकः, सरोत्सवः, रसिकः, कामी
noun
खगविशेषः।
"सारसाय मत्स्यं रोचते।"
Tamil
Tamil
லக்ஷ்மண: : தசரதனின் மகன்.
शब्दकल्पद्रुमः
Sanskrit
लक्ष्मणः,
पुं,
(लक्ष्मणमस्त्यस्येति अर्शआदि-त्वादच् ।) सारसः इति हेमचन्द्रः
श्रीराम-भ्राता इति मेदिनी णे, ७६
(यथा, अध्यात्मरामायणे ४५ ।“भरणाद्भरतो नाम लक्ष्मणं लक्ष्मणान्वितम् ।शत्रुघ्नं शत्रुहन्तारमेवं गुरुरभाषत
”)स त्रेतायुगे अयोध्यायां सुमित्रागर्भे दश-रथाज्जातः इन्द्रजिद्वधार्थं तस्य चतुर्द्दशवर्ष-पर्य्यन्तं आहारनिद्रादिरहितत्वं यथा, --“एकदा रघुनाथश्च सीतया लक्ष्मणेन ।स्नातः सरसि तत्रस्थो रम्ये पञ्चवटीतटे
उवाच सीतां हेमन्ते जलं सुस्वादु निर्म्मलम् ।तथान्नव्यञ्जनं रम्यं सर्व्वं वस्तु सुशीतलम्
फलञ्च चयनं चक्रे सीतायै प्रददौ पुरः ।ततो ददौ लक्ष्मणाय पश्चाद्भुङ्क्ते स्वयं प्रभुः
लक्ष्मणस्तु गृहीत्वा नैव भुङ्क्ते फलं जलम् ।मेघनादवधार्थञ्च सीतोद्धारणकारणात्
निद्रां याति नो भुङ्क्ते वर्षाणाञ्च चतुर्द्दश ।य एव पुरुषो योगी तद्वध्यो रावणात्मजः
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११५ अध्यायः