लक्षणा (lakSaNA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English लक्षणा lakSaNA hint
छेक्तोक्ति chektokti hint
नालिका nAlikA hint
सङ्केत saGketa hint
उपन्यास upanyAsa hint
आक्षेप AkSepa hint
उपक्षेप upakSepa hint
ध्वनि dhvani hint
मनोरथ manoratha hint
समय samaya hint
इङ्गित iGgita hint
सूचन sUcana hint
ज्ञापन jJApana hint
उपक्षेपण upakSepaNa hint
आक्षिपति { आक्षिप् } AkSipati { AkSip } verb hint
उपन्यस्यति { उपनि- अस् } upanyasyati { upani- as } verb 4 hint
सूचित sUcita hinted
आक्षेप AkSepa hinting
समाक्षिपते { समाक्षिप् } samAkSipate { samAkSip } verb hint at
समाक्षिपति { समाक्षिप् } samAkSipati { samAkSip } verb hint at
उपक्षिपति { उप- क्षिप् } upakSipati { upa- kSip } verb 1 hint at
ध्वनयति { ध्वन् } dhvanayati { dhvan } verb caus. hint at
उपन्यस्त upanyasta ppp. hinted at
आक्षेपक AkSepaka hinting at
आक्षेपिन् AkSepin hinting at
लक्षक lakSaka hinting at
समाक्षेप samAkSepa hinting at
ध्वनन dhvanana hinting at
इङ्ग iGga hint or sign
लेसोक्त lesokta only hinted or insinuated
ध्वनिमत् dhvanimat containing a hint or an allusion
आक्षेपरूपक AkSeparUpaka in which the object compared is only hinted at
चूलिका cUlikA hinting of a matter or event by those behind the curtain
लक्षणा lakSaNA attribute
भक्ति bhakti attribute
गुण guNa attribute
धर्म dharma attribute
उपधि upadhi attribute
आधेय Adheya attribute
लक्षण lakSaNa attribute
विशेषण vizeSaNa attribute
आरोहयति { आरुह् } Arohayati { Aruh } verb caus. attribute
आरोपयति { आरुह् } Aropayati { Aruh } verb caus. attribute
समारोकयति { समारुह् } samArokayati { samAruh } verb caus. attribute
समारोपयति { समारुह् } samAropayati { samAruh } verb caus. attribute
विशेषित vizeSita attributed
विशेषक vizeSaka an attribute
गणयति { गण् } gaNayati { gaN } verb attribute to
आरोप्य Aropya to be attributed
सर्वोपाधि sarvopAdhi general attribute
बहिरुपाधि bahirupAdhi outward attributes
शब्दविशेषण zabdavizeSaNa attribute of a word
निर्विशेषण nirvizeSaNa having no attributes
Monier Williams Cologne
Englishindication, elliptical expression, use of a word for another word with a cognate meaning (as of ‘head’ for ‘intellect’), indirect or figurative sense of a word (one of its three Arthas
the other two being अभिधा or proper sense, and व्यञ्जना or suggestive s°
with सारोपा, the placing of a word in its figurative sense in apposition to another in its proper s°),
Bhāṣāp.
Macdonell
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiलक्षणा
- -
"उद्देश्य, ध्येय"
लक्षणा
- -
"शब्द का परोक्षप्रयोग या गौण सार्थकता, शब्द की एक शक्ति"
लक्षणा
- -
दुर्योधन की पुत्री का नाम
लक्षणा
- -
तीन शब्दशक्तियों में से एक
Shabdartha Kaustubha
Kannadaलक्षणा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಹೆಣ್ಣು ತಾವರೆ ಹಕ್ಕಿ /ಹೆಣ್ಣು ಸಾರಸ ಪಕ್ಷಿ
लक्षणा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಒಂದು ವಾಕ್ಯದಲ್ಲಿ ಪ್ರಯುಕ್ತವಾದ ಪದಕ್ಕೆ ಆ ವಾಕ್ಯದಲ್ಲಿ ಮುಖ್ಯಾರ್ಥವು ಭಾಧಿತವಾಗಿ ಮುಖ್ಯಾರ್ಥದ ಶಕ್ಯಸಂಬಂಧದಿಂದ ಬೇರೊಂದು ಅರ್ಥವನ್ನು ಕೊಡುವ ಶಕ್ತಿ
निष्पत्तिः - > लक्ष (दर्शनाङ्कनयोः) + णिच् - "युच्" (३-३-१०७)
विस्तारः - > "मुख्यार्थबाधे तद्युक्तो ययान्योर्थः प्रतीयते । रूढेः प्रयोजनाद्वासौ लक्षणा शक्तिरर्पिता ॥" - सा० द० २-५
L R Vaidya
EnglishAbhyankara Grammar
Englishलक्षणा implication
potentiality of implication
this potentiality of words viz. लक्षणा is not recognised by grammarians as a potentiality different from the अभिधाशक्ति or the power of denotation. Later gra- mmarians, however, like the Ālamkārikas, have used the word in the sense of potentiality of implication as different from that of denotation
cf. अन्त्यशब्द लक्षणा न च Paribhāşenduśekhara.
Wordnet
Sanskrit लक्षणा
शब्दशक्तीनां सा यया तस्याः अर्थः लक्षितः भवति।
"निरूढा प्रयोजनवती इत्येवं लक्षणानां प्रकारद्वयं वर्तते।"
लक्षणा
एका अप्सराः।
"लक्षणायाः वर्णनं महाभारते वर्तते।"
Mahabharata
EnglishLakshaṇā, an Apsaras. § 191 (Arjuna): I, 123, 4818 (dancing at the birth of Arjuna).
पुराणम्
Englishलक्षणा १ / LAKṢAṆĀ I. Daughter of duryodhana. Wife of sāmba. (See for details under sāmba).
लक्षणा २ / LAKṢAṆĀ II. A celestial maiden. This maiden took part in the birth day celebrations of arjuna. (Śloka 62, Chapter 122, Ādi Parva, M.B.).
लक्षणा ३ / LAKṢAṆĀ (lakṣmaṇā) III. One of the eight queens of śrī kṛṣṇa. lakṣaṇā was the daughter of bṛhatsena, King of madra. (sṛṣṭi Khaṇḍa, padma purāṇa). Śrī kṛṣṇa got ten sons of her some of whom are praghoṣa, Gātravān, Siṁha and bala. (10th skandha, bhāgavata).
शब्दकल्पद्रुमः
Sanskritलक्षणा, (लक्षण + टाप् ।) सारसी । इतिमेदिनी । णे, ७५ ॥
हंसी । इति सिद्धान्त-कौमुद्यामुणादिवृत्तिः ॥
(अप्सरोविशेषः । यथा, महाभारते । १ । १२३ । ५९ ।“अम्बिका लक्षणा क्षेमा देवी रम्भा मनोरमा ॥
”)शक्यसम्बन्धः । यथा, --“लक्षणा शक्यसम्बन्धस्तात्पर्य्यानुपपत्तितः ॥
”इति भाषापरिच्छेदः ॥
गङ्गायां घोष इत्यादौ गङ्गापदस्य शक्यार्थेप्रवाहरूपे घोषस्यान्वयानुपपत्तिस्तात्पर्य्यानुप-पत्तिर्व्वा यत्र प्रतिसन्धीयते तत्र लक्षणयातीरस्य बोधः । सा च शक्यसम्बन्धरूपा । तथाहि प्रवाहरूपशक्यार्थसम्बन्धस्य तीरे गृही-तत्वात्तीरस्य स्मरणं ततः शाब्दबोधः । इतिसिद्धान्तमुक्तावली ॥
* ॥
अपि च ।“जहत्स्वार्थाजहत्स्वार्थानिरूढाधुनिका-दिकाः ।लक्षणा विविधास्ताभिर्लक्षकं स्यादनेकधा ॥
”काचिल्लक्षणा शक्यावृत्तिरूपेण बोधकतयाजहत्स्वार्थेत्युच्यते । यथा तीरत्वादिना गङ्गादि-पदस्य । काचिच्छक्यलक्षोभयवृत्तिना शक्य-वृत्तिनैव वा रूपेणानुभावकत्वादजहत्स्वार्था ।यथा द्रव्यत्वादिना नीलघटत्वादिना च घटादि-पदस्य । काचिल्लक्षतावच्छेदकीभूततत्तद्रूपेणपूर्व्वपूर्व्वं प्रत्यायकत्वान्निरूढा । यथा, आरु-ण्यादिप्रकारेण तदाश्रयद्रव्यानुभावकत्वादरु-णादिपदस्य । काचिच्च पूर्व्वपूर्व्वं ताद्रूप्येणा-प्रत्यायकत्वादाधुनिकी । यथा घटत्वादिनापटादिपदस्य । आदिना शक्यसदृशत्वप्रकारेणबोधकतया गौणीत्युपगृह्यते । यथा अग्नि-र्माणवक इत्यादावग्निसदृशत्वादिना अग्न्यादि-पदस्य । इति शब्दशक्तिप्रकाशिका ॥
* ॥
अन्यच्च ।“मुख्यार्थवाधे तद्युक्तो ययान्योऽर्थः प्रतीयते ।रूढेःप्रयोजनाद्वासौ लक्षणाशक्तिरर्पिता ॥
” १ ॥
कलिङ्गः साहसिक इत्यादौ कलिङ्गादिशब्दोदेशविशेषादिरूपे स्वार्थे असम्भवन् यया शब्दस्यशक्त्या स्वसंयुक्तान् पुरुषादीन् प्रत्याययति ।यथा च गङ्गायां घोष इत्यादौ गङ्गादिशब्दोजलमयाद्यर्थवाचकत्वात् प्रकृतेऽसम्भवन् स्वस्यसामीप्यादिसम्बद्धसम्बन्धिनं तटादिं बोधयति ।सा शब्दस्यार्पिता स्वाभाविकेतरा ईश्वरानुद्-द्भाविता वा शक्तिर्लक्षणा नाम । पूर्व्वत्र हेतूरूढिः प्रसिद्धिरेव । उत्तरत्र गङ्गातटे घोषइति प्रतिपादनादलभ्यस्य शीतत्वपावनत्वाति-शयस्य बोधनरूपं प्रयोजनम् । हेतुं विनापियस्य कस्यचित् सम्बन्धिनो लक्षणेऽतिप्रसङ्गःस्यादत उक्तं रूढेः प्रयोजनाद्बेति ॥
* ॥
तद्भेदानाह ।“मुख्यार्थस्येतराक्षेपो वाक्यार्थेऽन्वयसिद्धये ।स्यादात्मनोऽप्युपादानादेषोपादानलक्षणा ॥
” २ ॥
रूढावुपादानलक्षणा यथा । श्वेतो यावति ।प्रयोजने यथा । कुन्ताः प्रविशन्ति । अन-योर्हि श्वेतादिभिः कुन्तादिभिश्च अचेतन-तया केवलैर्धावनप्रवेशनक्रिययोः कर्त्तृतया-न्वयमलभमानैरेतत्सिद्धये आत्मसम्बन्धिनोऽश्वादयः पुरुषादयश्च आक्षिप्यन्ते । पूर्व्वत्रप्रयोजनाभावाद्रूढिः । उत्तरत्रं कुन्तादीना-मतिगहनत्वं प्रयोजनम् । अत्र च मुख्यार्थ-स्यात्मनोऽप्युपादानम् । लक्षणलक्षणायान्तुपरस्यैवोपलक्षणमित्यनयोर्भेदः । इयमेवाजहत्-स्वार्थेत्युच्यते ॥
* ॥
“अर्पणं स्वस्य वाक्यार्थे परस्यान्वयसिद्धये ।उपलक्षणहेतुत्वादेषा लक्षणलक्षणा ॥
” ३ ॥
रूढिप्रयोजनयोर्लक्षणलक्षणा यथा । कलिङ्गःसाहसिकः गङ्गायां घोष इति च । अनयोर्हिपुरुषतटयोर्वाक्यार्थेऽन्वयसिद्धये कलिङ्गगङ्गा-शब्दावात्मानमर्पयतः । यथा वा ।“उपकृतं बहु तत्र किमुच्यतेसुजनता प्रथिता भवता परम् ।विदधदीदृशमेव सदा सखेसुखितमास्म ततः शरदां शतम् ॥
”अत्रानुपकारादीनां वाक्यार्थेऽन्वयसिद्धये उप-कृतादयः शब्दाः आत्मानमर्पयन्ति । अत्राप-कारिणं प्रति उपकारादिप्रतिपादनान्मुख्यार्थ-वाधः वैपरीत्यलक्षणः सम्बन्धः फलमपकारा-द्यतिशयः । इत्यमेव जहत्स्वार्थेत्युच्यते ॥
* ॥
“आरोपाध्यवसानाभ्यां प्रत्येकं ता अपि द्विधा ।”ताः पूर्व्वोक्ताश्चतुर्भेदा लक्षणाः ।“विषयस्यानिगीर्णस्यान्यतादात्म्यप्रतीतिकृत् ।सारोपा स्यान्निगीर्णस्य मता साध्यवसा-निका ॥
४ ॥
रूढावुपादानलक्षणा सारोपा यथा । अश्वःश्वेतो धावति अत्र हि श्वेतगुणवान् अश्वोऽनि-गीर्णस्वरूपः स्वसमवेतश्वेतगुणतादात्म्येन प्रती-यते । प्रयोजने यथा एते कुन्ताः प्रविशन्तिअत्र सर्व्वनाम्ना कुन्तधारिपुरुषनिर्द्देशात्सारोपात्वम् । रूढौ लक्षणलक्षणा यथा ।कलिङ्गः पुरुषो युध्यति । अत्र पुरुषकलिङ्गयो-राधार्य्याधारतासम्बन्धः । प्रयोजने यथा आयु-र्घृतम् । अत्रायुष्कारणमपि घृतं कार्य्यकारण-भावसम्बन्धसम्बन्ध्यायुस्तादात्म्येन प्रतीयते अन्य-वैलक्षण्येनाव्यभिचारेणायुष्करणं प्रयोजनम् ।यथा च राजकीये पुरुषे गच्छति राजासौगच्छति इत्यत्र स्वस्वामिभावलक्षणः सम्बन्धः ।यथा वा अग्रमात्रेऽवयवे हस्तोऽयम् । अत्राव-यवावयविभावलक्षणः सम्बन्धः । ब्राह्मणेऽपितक्षासौ अत्र तात्कर्म्म्यलक्षणः सम्बन्धः । इन्द्रा-र्थासु स्थूणासु अमी इन्द्राः अत्र तादर्थ्यरूपः ।एवमन्यत्रापि । निगीर्णस्य पुनर्विषयस्यान्यता-दात्म्यप्रतीतिकृत् साध्यवसाना । अस्याश्चतुर्षुभेदेषु पूर्व्वोदाहरणान्येव ॥
* ॥
“सादृश्येतरसम्बन्धाः शुद्धास्ताः सकला अपि ।सादृश्यात्तु मता गौण्यस्तेन षोडशभेदिताः ॥
” ५ ॥
ताः पूर्व्वोक्ता अष्टभेदा लक्षणाः सादृश्येतर-सम्बन्धाः कार्य्यकारणभावादयः । अत्र शुद्धानांपूर्व्वोदाहरणान्येव । रूढावुपादानलक्षणासारोपा गौणी यथा । एतानि तैलानि हेमन्तेसुखानि अत्र तैलशब्दस्तिलभवस्नेहरूपंमुख्यार्थमुपादायैव सार्षपादिस्नेहेषु वर्त्तते ।प्रयोजने यथा राजकुमारेषु तत्सदृशेषु चगच्छत्सु एते राजकुमारा गच्छन्ति । रूढावुपादानलक्षणा साध्यवसाना गौणी यथातैलानि हेमन्ते सुखानि । प्रयोजने यथाराजकुमारा गच्छन्ति । रूढौ लक्षणलक्षणासारोपा गौणी यथा राजा गौडेन्द्रः कण्टकंशोधयति । प्रयोजने गौर्व्वाहिकः । रूढौलक्षणलक्षणा साध्यवसाना गौणी यथाकण्टकं शोधयति । प्रयोजने यथा गौर्ज्ज-ल्पति ॥
* ॥
“व्यङ्गस्य गूढागूढत्वाद्द्बिधा स्युः फल-लक्षणाः ॥
” ६ ॥
प्रयोजने या अष्टभेदा लक्षणा दर्शितास्ताःप्रयोजनरूपव्यङ्ग्यस्य गूढागूढतया प्रत्येकं द्विधाभूत्वा षोडशभेदाः । तत्र गूढः वाक्यार्थभावना-परिपक्वबुद्धिविभवमात्रवेद्यः । यथा उपकृतंबहु तत्रेत्यादि । अगूढोऽतिस्पष्टतया सर्व्वजन-वेद्यः । यथा उपदिशति कामिनीनां यौवन-मद एव ललितानि । अत्रोअप्दिशतीत्यनेनआविष्करोतीति लक्ष्यते आविष्कारातिशय-श्चाभिधेयवत् स्फुटं प्रतीयते ॥
* ॥
“धर्म्मिधर्म्मगतत्वेन फलस्यैता अपि द्बिधा ॥
” ७ ॥
एता अनन्तरोक्ताः षोडशभेदा लक्षणाःफलस्य धर्म्मगतत्वेन धर्म्मिगतत्वेन च प्रत्येकंद्विधा भूत्वा द्बात्रिंशद्भेदाः । क्रमेणोदाहरति ।“स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाकाघनाःवाताः शीकरिणः पयोदसुहृदामानन्दकेकाःकलाः ।कामं सन्तु दृढं कठोरहृदयो रामोऽस्मिसर्व्वं सहेवैदेही तु कथं भविष्यति ह हा हा देवि !धीरा भव ॥
”अत्रात्यन्तदुःखसहिष्णुरूपे रामे धर्म्मिणि लक्ष्येतस्यैवातिशयः फलम् । गङ्गायां घोष इत्यत्रतटादिषु लक्ष्येषु शीतत्वपावनत्वादिरूपधर्म्म-स्यातिशयः फलम् ॥
* ॥
“तदेवं लक्षणाभेदाश्चत्वारिंशन्मता बुधैः ॥
”रूढावष्टौ फले द्वात्रिंशदिति चत्वारिंशल्लक्षणा-भेदाः ॥
* ॥
किञ्च ।“पदवाक्यगतत्वेन प्रत्येकं ता अपि द्विधा ।” ८ ।ता अनन्तरोक्ताः । अत्र पदगतत्वेन यथागङ्गायां घोषः । वाक्यगतत्वेन यया उपकृतंबहु तत्रेति । एवमशीतिप्रकारा लक्षणा ।इति साहित्यदर्पणम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
