| YouTube Channel

लक्षकं (lakSakaM)

 
शब्दकल्पद्रुमः
Sanskrit
लक्षकं,
क्ली,
(लक्षयतीति लक्ष + ण्वुल् ।)लक्षयति यत् यथा लक्षकं नाम लक्षयति ।“यादृशार्थस्य सम्बन्धवति शक्तन्तु यद्भवेत् ।तत्र तल्लक्षकं नाम तच्छक्तिविधुरं यदि
”यादृशार्थसम्बन्धवति यन्नाम सङ्केतितं तदेवतादृशार्थे लक्षकं यदि तादृशार्थे शक्तिशून्यंभवेत् सैन्धवादयस्तु शब्दाः तुरगादिसम्ब-न्धिनि लवणादाविव तुरगादावपि शक्ता एव ।गङ्गादयस्तु तीरादावसङ्केतिताः तत्सम्बन्धि-बीरादिशक्तत्वेन गृहीता एव तीराद्यन्वयं बोध-यन्ति तत्र लक्षका एव अपि तदेवंविधलक्षणावत्त्वाल्लक्षकं नामापि जहत्-स्वार्थादिभेदादनेकविधमित्यर्थः स्यादेतद्यदितीरादिलक्षकतया गङ्गादिपदस्य ज्ञानं तीरा-द्यनुभवे भवेद्धेतुस्तदोक्तक्रमेण लक्षकाणांविभागो त्वेतदस्ति तीराद्यन्वयबोधं प्रतितीरादिशक्तत्वेनैव पदज्ञानस्य लाघवेन हेतु-तया लक्षकाणामननुभावकत्वात् गुरूणामग्नौशैत्यं स्पृशेदित्यादौ शक्येन दहनादिनेव गङ्गायांघोष इत्यादौ लक्षितेन तीरादिना सार्द्धम-गृहीतासंसर्गकस्यैव सप्तम्यर्थाधेयत्वान्वयबोध-प्रविष्टत्वादिति चेन्न प्रकृत्यर्थावच्छिन्नस्यैव प्रत्य-यार्थस्य धर्म्म्यन्तरेऽन्वयबुद्धेर्व्व्युत्पन्नतया तीराद्य-विशेषितस्य सुबर्थाधेयत्वादेर्घोषादावन्वयबोधा-योगात् शक्तस्यैव पदस्य स्वसाकाङ्क्ष-पदान्तरोपस्थाप्यार्थान्वितस्वार्थधर्म्मिकान्वय-बोधं प्रति हेतुत्वादन्वयबुद्धौ लक्षार्थस्य प्रवेशः ।कुन्ताः प्रविशन्तीत्यादौ लक्ष्यस्य कुन्तधरादेर-न्वयविशेष्यत्वानुपपत्तेः कुमतिः पशुरित्यादौलक्षार्थयोर्म्मिथोऽन्वयबोधस्याप्यनुभविकत्वाच्च ।तस्मात् शक्तेरिव भक्तेरपि ज्ञानमनुभावकं भव-त्येव कार्य्यतावच्छेदकस्य सङ्कोचाच्च व्यभि-चारः इति शब्दशक्तिप्रकाशिका