| YouTube Channel

लकारो (lakAro)

 
वाचस्पत्यम्
Sanskrit
लकारो व्यञ्जनवर्णभेदः तस्योच्चारणस्थानं दन्तमूलम् ।स्पर्शोष्मवर्णयोर्मध्यस्थत्वादयमन्तःस्थवर्णः अस्योच्चारणेआभ्यन्तरप्रयत्नः जिह्वाग्रेण दन्तमूलस्य ईषत्स्पर्शस्ते-नास्य ईषत्स्पष्टता बाह्यप्रयत्नाश्च संवारनादघोषाःअल्पप्राणश्च मातृकाग्यासेऽस्य ककुदि न्यस्यता काव्यादौप्रथमप्रयोगे व्यसनं फलम् “व्यसनमथ लवौ” वृ० र० टी ।तस्व स्वरूपं यथा “अकारं चञ्चलापाङ्गि! कुण्डली-त्रयसंयुतम् पीतविद्युल्लताकारं सर्वरत्नप्रदायकम् ।पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा त्रिशक्तिसहितंवर्णं त्रिविन्दुसहितं सदा आत्मादिसहितं वर्णं हृदि-भावय पार्वति” कामर्धनुतन्त्रम् तत्पर्य्याया वर्णाभिधानेउक्ता यथा “लश्चन्द्रः पूतना पृथ्वी माधवी शक्रवाचकः ।बलानुजः पिनाकीशो व्यापको मांससंज्ञकः परायणाककुद्वक्त्रः खड्गी नादोऽमृतं दिवि लवणं वारुणी-पीतशिखा वाणी क्रियाऽजिता ज्वालिनी वेगिनी-नादः प्रद्युम्नः शोषणो हरिः विशातन्द्रायखी चेतोमेरुर्गिरि कलोरसः” तस्याधिष्ठातृध्येयरूपं यथाचतुर्भुजां पीतवस्त्रां रक्तपङ्कजलोचनाम् सर्वदावरदां भीमां सर्वालङ्कारभूषिताम् योगीन्द्रसेवितां नित्यंयोगिमीं योगरूपिणीम् चतुर्वर्गप्रदां देवीं नाग-हारोपशोभिताम् एवं ध्यात्वा लकारन्तु तन्मन्त्रंदशधा जपेत्” वर्णोद्धारतन्त्रम्