| YouTube Channel

रौहिणं (rauhiNaM)

 
शब्दकल्पद्रुमः
Sanskrit
रौहिणं,
क्ली,
(रोहिणमेव स्वार्थे अण् ।)दिनस्य नवममुहूर्त्तः यथा अत्र पूर्व्वाह्णेश्राद्धमभिधाय रौहिणन्तु लङ्घयेदित्यभि-धानेन पूर्व्वाह्णश्राद्धस्य सङ्गवात् परो रौहिण-पर्य्यन्तगौणपूर्व्वाह्णकालः प्रतीयते तेन रौहिणंपूर्व्वाह्णश्राद्धस्य गौणकालत्वेनोत्तरावधिः अप-राह्णश्राद्धस्य पूर्व्वावधिरित्यवगम्यते ततश्चपूर्व्वदिने सङ्गवात् परं रौहिणपर्य्यन्तं तिथे-र्लाभे परदिने मुहूर्त्तत्रयमात्रे तत्तिथिलाभेपूर्व्वदिने श्राद्धम् रौहिणान्तरूपगौणपूर्व्वाह्ण-लाभात् परदिने तथात्वाभावात् उभय-दिने सङ्गवलाभे परदिने शुक्लपक्षे तिथिर्ग्राह्याइति वचनात् रौहिणन्तु दिवसस्य नवममुहूर्त्तस्तस्य ज्योतिषोक्तरोहिणीदैवतत्वात्रौहिणत्वमिति इति श्राद्धतत्त्वम्