| YouTube Channel

रौरवः (rauravaH)

 
Apte Hindi
Hindi
रौरवः
पुं*
- -
बर्बर
रौरवः
पुं*
- -
एक नरक का नाम
Wordnet
Sanskrit
Synonyms:
रौरवः
noun
नरकविशेषः।
"पुराणानुसारं रौरवः पञ्चमः नरकः।"
Synonyms:
रौरवः
noun
नरकविशेषः
"रौरवस्य उल्लेखः महाभारते वर्तते"
वैजयन्तीकोषः
Sanskrit
Word: रौरवः
Root: रौरव
Gender: पुं
Number: all
अर्थः नरकभेदः
Meaning(s):
Particular hell
Shloka(s):
1|2|37|2 अवीच्यन्ता रौरवाद्याः प्रायशो नरका नरि॥ (स्वर्गकाण्डः/लोकपालाध्यायः)
Synonym(s):
1|2|37|2 अवीचिः (अवीचि) (पुं) Particular hell नरकभेदः
1|2|37|2 रौरवः (रौरव) (पुं) Particular hell नरकभेदः
Related word(s):
परा_अपरासंबन्धः नरकः
जातिः अलौकिकस्थानम्
शब्दकल्पद्रुमः
Sanskrit
रौरवः,
पुं,
(रुरुर्ज्जन्तुविशेषस्तस्यायमिति रुरु +अण् ।) नरकविशेषः घोरः इति मेदिनी ।वे, ४९
आद्यस्य विवरणं यथा, --“रौरवे कूटसाक्षी तु याति यश्चानृती नरः ।तस्य स्वरूपं वदतो रौरवस्य निशामय
योजनानां सहस्रे द्वे रौरवो हि प्रमाणतः ।जानुमात्रप्रमाणन्तु तत्र श्वभ्रं सुदुस्तरम्
तत्राङ्गारचयो येन कृतं तद्धरणीसमम् ।जाज्वल्यतातितीव्रेण तापिताम्बरभूमिना
तन्मध्ये पापकर्म्माणं विमुञ्चन्ति यमानुगाः ।स दह्यमानस्तीव्रेण वह्निना तेन धावति
पदे पदे पादोऽस्य शीर्य्यते जायते पुनः ।अहोरात्रेणोद्धरणं पादन्यासं गच्छति ।एवं सहस्रं विस्तीर्णे योजनानां विमुच्यते
”इति मार्कण्डेयपुराणे पितापुत्त्रसंवादनामा-ध्यायः
(तथाच देवीभागवते २२ ८-११ ।“एतन्ममाहमिति यो भूतद्रोहेण केवलम् ।पुष्णाति प्रत्यहं स्वीयकुटुम्बं कार्य्यलम्पटः
एतद्विहाय चात्रैव स्वाशुभेन पतेदिह ।रौरवे नाम नरके सर्व्वसत्त्वभयावहे
इह लोकेऽमुना ये तु हिंसिता जन्तवः पुरा ।त एव रुरवो भूत्वा परत्र पीडयन्ति तम्
तस्माद्रौरवमित्याहुः पुराणज्ञा मनिषिणः ।रुरुः सर्पादपि क्रूरो जन्तुरुक्तः पुरातनैः
”)
रौरवः, त्रि, चञ्चलः धर्त्तः घोरः इति शब्द-रत्नावली
(रुरोर्मृगस्येदमिति अण् मृग-सम्बन्धिनि यथा, मनुः ४१ ।“कार्ष्णरौरववास्तानि चर्म्माणि ब्रह्मचारिणः ।वसीरन्नानुपूर्व्वेण शाणक्षौमाविकानि
”)