| YouTube Channel

रौप्यं (raupyaM)

 
शब्दकल्पद्रुमः
Sanskrit
रौप्यं,
क्ली,
(रूप्यमेव अण् ।) रूप्यम् इतिराजनिर्घण्टः
(यथा, माधे ६७ ।“दर्पणनिर्म्मलासु पतिते घनतिमिरमुषिज्योतिषि रौप्यभित्तिषु पुरः प्रतिफलतिमुहुः
”)तत्करणं यथा, --“मध्वाज्यं गुडताम्रञ्च करेणा माक्षिकं रसम् ।घमनाच्च भवेद्रौप्यं सुवर्णकरणं शृणु
”इति गारुडे १८८ अध्यायः
(औषधादिषु अस्यालाभे यद्दातव्यं तद्तथा, --“सुवर्णमथवा रौप्यं मृतं यत्र लभ्यते ।तत्र कान्तेन कर्म्माणि भिषक् कुर्य्याद्विचक्षणः
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
तद्विशिष्टे, त्रि यथा, भागवते २५ १४ ।“स्वर्णरौप्यायसैः शृङ्गैः सङ्कुलां सर्व्वतो गृहैः
”)