| YouTube Channel

रौद्रः (raudraH)

 
Apte Hindi
Hindi
रौद्रः
पुं*
- -
रुद्र का उपासक
रौद्रः
पुं*
- -
"गर्मी, उत्कण्ठा, सरगर्मी, जोश, मन्यु या भीषणता का मनोभाव"
Wordnet
Sanskrit
Synonyms:
रौद्रः
noun
एकः संवत्सरः
"रौद्रः इति बृहस्पतेः षष्टिसंवत्सरेषु 54तमः संवत्सरः"
Synonyms:
रौद्रः
noun
एकः जनसमुहः
"रौद्राणां उल्लेखः महाभारते वर्तते"
शब्दकल्पद्रुमः
Sanskrit
रौद्रः,
पुं,
(रुद्रस्यायमिति रुद्र + अण् ।) सूर्य्य-तेजः तत्पर्य्यायः घर्म्मः इति मेदिनी ।रे, ८०
प्रकाशः द्योतः आतपः ।इत्यमरः
तस्य गुणाः ।“आतपः कटुको रूक्षः स्वेदमूर्च्छातृषावहः ।दाहवैवर्ण्यजननो नेत्ररोगप्रकोपणः
”इति राजवल्लभः
*
सप्तरौद्रा यथा, --“जठरः पिङ्गलो रौद्रो घोराख्यः कालसंज्ञितः ।अग्निनामा हतो रौद्रः सप्त रौद्राः प्रकी-र्त्तिताः
”ग्रन्थान्तरे सप्तमो रौद्रः प्राणदाहः
तेषांफलानि यथा, --“पिङ्गलो रौद्रनामा कालरूपः प्रजाक्षयम् ।स्पर्शने बहुरोगः स्यात् सर्व्वजीवसमुद्भवः
जठरो रौद्रनामा घोरधूम्रञ्च कारयेत् ।व्रणादिपित्तरोगञ्च नानाक्लेशकरो नृणाम्
अग्निर्नाम्ना यदा वर्षे रौद्रो भवति नान्यथा ।उत्तापेन क्षितिं शुष्येत् नराणां रोगदो भवेत् ।रौद्रनामा महारौद्रो यत्राब्दे भवेद्ध्रुवम् ।चित्तोद्वेगं व्रणं कुर्य्यान्नानारोगसमन्वितम्
घोरनामा महारौद्रो घोरधूम्रञ्च कारयेत् ।उत्तापेन सदा दग्धं नानारोगसमन्वितम्
कालनामा महारौव्र उत्तापे पीडनं सदा ।नानारोगसमायुक्तं व्रणादिकण्डुकं भवेत्
”इति ज्योतिषम्
रसविशेषः इति मेदिनी रे, ८०
तद्विवरणंक्लीवलिङ्गरौद्रशब्दे द्रष्टव्यम् हेमन्त ऋतुः ।इति हेमचन्द्रः
यमः इति धरणिः
(कार्त्ति-केयः यथा, महाभारते १३८ १३ ।“आग्नेयः कृत्तिकापुत्त्रो रौद्रो गाङ्गेय इत्यपि ।श्रूयते भगवान् देवः सर्व्वदेवमयो गुहः
”)
रौद्रः, त्रि, (रुद्र + अण् ।) तीव्रः (यथा, रुग्वि-निश्चयव्याख्याने विजयरक्षितेन हरिवंशोक्त-ज्वरवर्णनवचनमुक्तम् ।“ज्वरस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः ।भस्मप्रहरणो रौद्रः कालान्तकयमोपमः
”)भीषणः इति मेदिनी रे, ८०
(यथा, महा-भारते ६४ ५० ।“तस्य ते तद्वचः श्रुत्वा रौद्रं लोमप्रहर्षणम् ।प्रचक्रुर्बहुलां पूजां कुत्सन्तो धृतराष्ट्रजम्
”)रुद्रसम्बन्धिनि