| YouTube Channel

रौद्रं (raudraM)

 
शब्दकल्पद्रुमः
Sanskrit
रौद्रं,
क्ली,
(रुद्रस्येदम् रुद्र + अण् ।) शृङ्गा-राद्यष्टरसान्तर्गतशेषरसः तत्पर्य्यायः उग्रम् ।इत्यमरः
द्वे क्रोधस्याश्रये रुद्रो देवता यस्यरौद्रम् यदाह भरतः ।“शृङ्गारो विष्णुदेवः स्याद्धासः प्रमथदैवतः ।करुणो यमदेवः स्याद्रौद्रो रुद्राधिदैवतः
इतिद्वे क्रोधस्याश्रये उच्यति क्रुधा समवैति उग्रः ।उचिर्य समवायने नाम्नीति रक् निपातनाच्चस्यगः सर्व्वाभिभाविता रौद्रः यथा, रावण-चरितादि एषु वीभत्सरौद्रे क्लीवे रूपभेदात्अन्ये पुंसि वीभत्सरौद्रौ चेति पुंलिङ्गपाठ इहयुक्तः इति भरतः
*
अपि ।अथ रौद्रः ।“रौद्रः क्रोधस्थायिभावौ रक्तो रुद्राधिदैवतः ।आलम्बनं रिपुस्तत्र तच्चेष्टोद्दीपनं मतम्
सुष्टिप्रहारपातनविकृतच्छेदावदारणैश्चैव ।संग्रामसंभ्रमाद्यैरस्योद्दीप्तिर्भवेत् प्रौढा
भ्रूविभङ्गौष्ठनिर्दंशबाहुस्फोटनतर्जनाः ।आत्मावदानकथनमायुधोत्क्षेपणानि ।अनुभावास्तथा क्षेपक्रूरसन्दर्शनादयः
उग्रतावेगरोमाञ्चस्वेदवेपथवो मदः ।मोहाहर्षादयश्चात्र भावाः स्युर्व्यभिचारिणः
”यथा, --“कृतमनुमतं दृष्टं वा यैरिदं गुरु पातकंमनुजपशुभिर्निर्मर्य्यादैर्भवद्भिरुदायुधैः ।नरकरिपुणा सार्द्धं तेषां सभीमकिरीटिना-मयमहमसृङ्मेदोमांसैः करोमि दिशां वलिम्
”अस्य युद्धवीराद्भेदमाह ।“रक्तास्यनेत्रता चात्र भेदिनी युद्धवीरतः
”इति साहित्यदर्पणे परिच्छेदः