| YouTube Channel

रौच्यः (raucyaH)

 
Apte
English
रौच्यः [raucyḥ], 1 A staff of Bilva wood.
An ascetic with a Bilva staff.
Apte 1890
English
रौच्यः 1 A staff of Bilva wood.
2 An ascetic with a Bilva staff.
Wordnet
Sanskrit
Synonyms:
रौच्यः
noun
चतुर्दशसु मनुषु त्रयोदशः मनुः।
"रौच्यस्य वर्णनं पुराणेषु अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
रौच्यः,
पुं,
(रुचेरपत्यमिति रुचि + ष्यण् ।)मनुविशेषः यथा, --“रौच्यादयस्तथान्येऽपि मनवः संप्रकीर्त्तिताः ।रुचेः प्रजापतेः पुत्त्रो रौच्यो नाम भविष्यति
”इति मात्स्ये अध्यायः
तन्मन्वन्तरे देवादयो यथा, --“त्रयोदशस्य पर्य्याये ये रौच्यस्य मनोः सुराः ।सप्तर्षींश्च नृपांश्चैव वदतो मे निशामय
सुपर्व्वाणः सुरास्तत्र सुकर्म्माणस्तथापरे ।सुशर्म्माणस्तथा ह्येते समस्ता मुनिसत्तम
महाबलो महाबीर्य्यस्तेषामिन्द्रो दिवस्पतिः ।भविष्यत्यथ सप्तर्षीन् गदतो मे निशामय
धृतिमानव्ययश्चैव तत्त्वदर्त्ती निरुत्सुकः ।निर्म्मोहः सुतपाश्चान्यो निष्मकम्पश्च सप्तमः
चित्रसेनो विचित्रश्च नयकृन्निर्भयो दृढः ।सुनेत्रः क्षत्त्रबुद्धिश्च सुरतश्चैव तत्सुताः
”इति मार्कण्डेयपुराणम्
अन्यद्विवरणं रुचिशब्दे द्रष्टव्यम्
*
विल्व-काष्ठदण्डः तत्पर्य्यायः वैल्वः इति हेम-चन्द्रः
(क्ली, रौच्यस्येदमिति अण् मन्वन्तर-विशेषः यथा, मार्कण्डेये १०० ३९ ।“ज्ञातिश्रेष्ठो गुणैर्युक्तो दक्षसावर्णिके श्रुते ।निशातयत्यरिबलं रौच्यं श्रुत्वा नरोत्तमः
”)