| YouTube Channel

रोहितकः (rohitakaH)

 
शब्दकल्पद्रुमः
Sanskrit
रोहितकः,
पुं,
(रोहित एव स्वार्थे कन् ।)वृक्षविशेषः रोहडा इति भाषा तत्पर्य्यायः ।रोही प्लीहशत्रुः दाडिमपुष्पकः ।इत्यमरः
रोहीतकः रोहितः रोहिणः ७कुशाल्मलिः दाडिमपुष्पः सदाप्रसूनः १०कूटशाल्मलिः ११ विरोचनः १२ शाल्म-लिकः १३ अस्य गुणाः कटुत्वम् स्निग्ध-त्वम् कषायत्वम् सुशीतलत्वम् कृमिदोष-व्रणप्लीहरक्तनेत्रामयापहत्वञ्च इति राज-निर्घण्टः
अपि ।“रोहितो लोहितो रोही लोही दाडिम-पुष्पकः ।रोहीतकः प्लीहघाती रुच्यो रक्तप्रसादनः
”इति भावप्रकाशः
अन्यच्च ।“रोहीतको यकृत्प्लीहगुल्मोदरहरः स्मृतः
”इति राजवल्लभः
(गणविशेषः यथा, महाभारते २५३ १९ ।“भद्रान् रोहितकांश्चैव आग्नेयान्मालवानपि ।गणान् सर्व्वान् विनिर्जित्य नीतिकृत् प्रहसन्निव ।शशकान् यवनांश्चैव विजिग्ये सूतनन्दनः
”)