| YouTube Channel

रोहिण्यष्टमी (rohiNyaSTamI)

 
Spoken Sanskrit
English
रोहिण्यष्टमी rohiNyaSTamI
f.
8th day in the dark half of the month bhAdra when the moon is in conjunction with the nakSatra rohiNI
Monier Williams Cologne
English
रोहिण्य्-अष्टमी
f.
the 8th day in the dark half of the month Bhādra when the moon is in conjunction with the Nakṣatra R°,
Cat.
Shabdartha Kaustubha
Kannada
रोहिण्यष्टमी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ರೋಹಿಣೀ ನಕ್ಷತ್ರದಿಂದ ಕೂಡಿದ ಭಾದ್ರಪದ ಕೃಷ್ಣಾಷ್ಟಮಿ /ಶ್ರೀಕೃಷ್ಣ ಜನ್ಮಾಷ್ಟಮಿ
शब्दकल्पद्रुमः
Sanskrit
रोहिण्यष्टमी,
स्त्री,
(रोहिणीयुक्ता अष्टमी ।)रोहिणीनक्षत्रयुक्तभाद्रकृष्णाष्टमी यथा, --“कृष्णाष्टम्याञ्च रोहिण्यामर्द्धरात्रेऽर्च्चनं हरेः ।कार्य्या विद्धापि सप्तम्या हन्ति पापं त्रिजन्म-जम्
उपीषितोऽर्च्चयेन्मन्त्रैस्तिथिभान्ते पारणम्
योगाय योगपतये योगेश्वराय योगसम्भवायगोविन्दाय नमो नमः
स्नानमन्त्रः यज्ञाययज्ञेश्वराय यज्ञपतये यज्ञसम्भवाय गोविन्दायनमो नमः
अर्च्चनस्य विश्वाय विश्वेश्वरायविश्वपतये विश्वसम्भवाय गोविन्दाय नमोनमः
शयनस्य सर्व्वाय सर्व्वेश्वराय सर्व्व-पतये सर्व्वसम्भवाय गोविन्दाय नमो नमः
पारणस्य ।स्थण्डिले पूजयेद्देवं सचन्द्रां रोहिणीन्तथा ।शङ्खे तोयं समादाय सपुष्पफलचन्दनम् ।जानुभ्यामवनीं गत्वा चन्द्रायार्घ्यं निवेदयेत्
क्षीरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव ।गृहाणार्घ्यं शशाङ्केदं रोहिण्या सहितो मम
श्रियै वसुदेवाय बलदेवाय नन्दाय यशोदायै ।अनघं वामनं शौरिं वैकुण्ठं पुरुषोत्तमम् ।वासुदेवं हृषीकेशं नृसिंहं दैत्यसूदनम्
वाराहं पुण्डरीकाक्षं श्रीकान्तमजमव्ययम् ।दामोदरं पद्मनाभं केशवं गरुडध्वजम्
गोविन्दमच्युतं देवमनन्तमपराजितम् ।अधोक्षजं जगद्बीजं सर्गस्थित्यन्तकारकम्
अनादिनिधनं विष्णुं त्रिलोकेशं त्रिविक्रमम् ।नारायणञ्चतुर्बाहुं शङ्खचक्रगदाधरम्
पीताम्बरधरं दिव्यं वनमालाविभूषितम् ।श्रीवत्साङ्कं जगद्धाम श्रीपतिं श्रीधरं हरिम्
यं देवं देवकी देवी वसुदेवादजीजनत् ।भौमस्य ब्रह्मणो गुप्त्यै तस्मै ब्रह्मात्मने नमः ।नामान्येतानि संकीर्त्य गत्यर्थं प्रार्थयेत् पुनः
त्राहि मां सर्व्वपापघ्न दुःखशोकार्णवात् प्रभो ।देवकीनन्दन श्रीश हरे संसारसागरात्
दुर्वृत्तांस्त्रायसे विष्णो ये स्मरन्ति सकृत् सकृत् ।सोऽहं देवातिदुर्वृत्तस्त्राहि मां शोकसाग-रात्
पुष्कराक्ष निमग्नोऽहं महत्यज्ञानसागरे ।त्राहि मां देवदेवेश त्वामृतेऽन्यो रक्षिता
स्वजन्म वासुदेवाय गोब्राह्मणहिताय ।जगद्धिताय कृष्णाय गोविन्दाय नमो नमः
शान्तिरस्तु शिवञ्चास्तु धनर्द्धिख्यातिराज्य-भाक्
”इति गारुडे १३२ अध्यायः