| YouTube Channel

रोहिणं (rohiNaM)

 
शब्दकल्पद्रुमः
Sanskrit
रोहिणं,
क्ली,
(रुह् + “रुहेश्च ।” उणा० ।५५ इति इनन् ।) कालभेदः इत्युणादि-कोषः
तु दिवसीयनवममुहूर्त्तः पूर्व्वाह्ण-श्राद्धस्य गौणकालत्वेनोत्तरावधिः अपराह्ण-श्राद्धस्य पूर्व्वावधिः एकोद्दिष्टश्राद्धस्य समा-पनकालः रौहिणञ्चास्य नामान्तरम् यथा ।अत्र पूर्व्वाह्णे श्राद्धमभिधाय रौहिणन्तु नलङ्घयेदित्यभिधानेन पूर्व्वाह्णश्राद्धस्य सङ्गवात्परो रौहिणपर्य्यन्तगौणपूर्व्वाह्णकालः प्रतीयतेतेन रौहिणं पूर्व्वाह्णश्राद्धस्य गौणकालत्वेनो-त्तरावधिः अपराह्णश्राद्धस्य पूर्व्वावधिरित्यव-गम्यते रौहिणन्तु दिवसस्य नवममुहूर्त्तः ।तस्य ज्योतिषोक्तरोहिणीदैवतत्वात् रौहिणत्व-मिति व्यासः ।“आरभ्य कुतपे श्राद्धं कुर्य्यादारौहिणं बुधः ।विधिज्ञो विधिमास्थाय रौहिणन्तु लङ्घयेत्
”इति श्राद्धतत्त्वम्