| YouTube Channel

रोमाञ्चितः (romAJcitaH)

 
शब्दकल्पद्रुमः
Sanskrit
रोमाञ्चितः, त्रि, (रोमाञ्चः सञ्जातोऽस्येति ।रोमाञ्च + “तदस्य सञ्जातं तारकादिभ्यइतच् ।” ३६ इति इतच् ।) जात-पुलकः रोमाञ्चविशिष्टः तत्पर्य्यायः हृष्ट-रोमा इति त्रिकाण्डशेषः
(यथा, मार्कण्डेये १०० २० ।“स शान्तिगते वह्नौ परितुष्टेन चेतसा ।हर्षरोमाञ्चिततनुः प्रविवेशाश्रमं गुरोः
”)