| YouTube Channel

रोमकपत्तनं (romakapattanaM)

 
शब्दकल्पद्रुमः
Sanskrit
रोमकपत्तनं,
क्ली,
(रोमकं पत्तनमिति कर्म्म-धारयः ।) देशविशेषः रुम् इति पारस्य-भाषा यथा, --“लङ्काकुमध्ये यमकोटिरस्याःप्राक् पश्चिमे रोमकपत्तनश्च ।अधस्ततः सिद्धपुरं सुमेरुःसौम्येऽथ याम्ये वडवानलश्च ।कुवृत्तपादान्तरितानि तानिस्थानानि षड्गोलविदो वदन्ति
”इति सिद्धान्तशिरोमणौ गोलाध्यायः